________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
1
G ७
प्रियनयै प्रियनद्याः २ प्रियनद्याम् पुंसि । नपुंसके तु प्रियनदि प्रियनदिनी प्रियनदीनि । शेषं पुल्लिंगवत् । स्त्रीशब्दो यद्यपि ङयन्तोऽस्ति ततश्च " दीर्घङयाब्०" इति सेलुक् भवति तथाप्ययं विशेषोऽस्ति यत् स्त्रीशब्दस्य स्वरादौ विभक्तौ परतः “स्त्रियाः” इति सूत्रेण इयादेशः स्यात् अमि शसि च विकल्पेन इयादेशः स्त्री ४-१ "स्त्रीदूतः” इति दैदासाद्यादेशे “स्त्रियाः” इति इयादेशे स्त्रियै स्त्रियाः २ ५ स्त्रियाम् सम्बोधनेऽपि " नित्यदिद्विस्वर ० " इति ह्रस्वे हे स्त्रि । ऊकारान्ता अपि एतैरेव सूत्रैः सिद्ध्यन्ति तथा च रूपनयः-वधूः वध्वौ वध्वः इत्यादि । एवं जम्ब्वादय इति तथा च जम्बूशब्दः स्त्रीक्लीबलिङ्ग इयं जम्बूः जम्बूवृक्षफलमिदं जम्बूवृक्षवाचकः स्त्रीलिङ्गे यथा नैषधे "एषा तरुस्तरुणि राजति राजजम्बूः स्थूलोपलानि फलानि विमृश्य यस्याः । सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्तियूथानि केन तरुमारुरुहुः पथेति” ॥ १ ॥ आदिशब्दात्कण्डूकच्छूकुरूरं भोरुप्रभृतयो ज्ञेयाः । श्रीही धीशब्दाः सुश्रीशब्दवदिति । १० अयं भाव:- "अवीतंत्रीतरी तंद्रीलक्ष्मीश्रीही धियाः पुरः । भीशब्दस्य च सेर्लोपो न स्त्रीलिङ्गे कदाचन" ॥ १ ॥ "गोश्चान्ते ह्रस्वोऽनंशि समासेयो बहुव्रीहौ ” ( २।४।९६ ) इतीयस्वन्तबहुव्रीहेर्ह स्वनिषेधात् बह्वयः श्रेयस्योऽस्य बहुश्रेयसी पुमान् “दीर्घङयाब्०” इति सिलुक्, बहुश्रेयस्यौ बहुश्श्रेयस्यः बहुश्रेयसीम् बहुश्रेयसीन् बहुश्रेयस्या बहुश्रेयसीभ्याम् ३ बहुश्रेयस्यै बहुश्रेयस्याः २ बहुश्रेयसीनां सप्तम्यां बहुश्रेयस्यां सम्बोधने “नित्यदिद्द्द्दिस्वर०" इति हस्वे हे बहुश्रेयसि । एवं प्रियार्द्धपिप्पल्य अस्य प्रियार्द्धपिप्पली पुमान् १५ इत्यादि बहुश्रेयसीवत् । तत्र लक्ष्म्यादीनामौणाकारान्तत्वात् श्रयादीनां धात्वीकारान्तत्वात् “दीर्घङयाब्” इति न सेर्लोपः किन्तु विसर्ग एव श्रीः, "संयोगात् " इतीयादेशे श्रियों श्रियः श्रियं श्रियौ श्रियः श्रिया श्रीभ्याम् ३ श्रीभिः "वेयुवोऽस्त्रियाः” इति विकल्पेन दैदासाद्यादेशे "संयोगात्” इती - यादेशे श्रियै श्रिये श्रियाः २ श्रियः २ " आमो नाम्वा" इति विकल्पेन नामादेशे श्रीणाम्; श्रियाम्, श्रियाम् श्रयि श्रियः २ श्रीषु हे श्रीः । एवं हीशब्दोऽपि । धीशब्दस्य " धातोरिवर्णोवर्णस्य” इतीया२० देशः एवं भीशब्दोऽपि धीशब्दवत् । अवी- तन्त्री - तरी तन्द्रीशब्दा लक्ष्मीवत् ज्ञेयाः । भ्रूरतिश्रूवत् इति भ्रूः “भ्रूनोः” इत्युवादेशे भ्रुवौ भ्रुवः भ्रुवम् भ्रुवौ भ्रुवः भ्रुवा भ्रूभ्याम् भूभिः “वेयुवोऽस्त्रियाः” वा दैदासाद्यादेशे भ्रुवै भ्रुवे भ्रुवाः २ ध्रुवः २ " आमो नाम्वा" भ्रूणाम् भ्रुवाम् सप्तम्येकवचने श्रुवाम् भ्रुवि भ्रुवोः २ भ्रूषु हे भ्रूः । ननु हे सुभ्रु हे भीरु इत्यत्र भूमीरूशब्दयोर्नित्यदित्वाभावात्कथं ह्रस्वत्वमित्यत्रोच्यते भ्रमणं भ्रु उणादिः सुष्ठु भ्रु भ्रमणं यस्याः सा सुश्रु ततश्च सुभ्रुभीरुशब्दयोः स्त्रीपर्यायत्वा२५ दूङि कृते नित्यदिद्दिस्वरेत्यादिना हवः । सिद्धान्तकौमुद्यां तु 'हा पितः कापि हे सुभ्रू' इति भट्टिप्रयोगः प्रमाद् एवायमिति बहव इत्युक्तमिति ज्ञेयम् ॥ १० ॥ मातृशब्दः पितृवदिति "ऋदुशनस् ०' इति सेर्डा “डित्यन्त्य०” माता "अङ च" इत्यरादेशे मातखै मातरः मातरम्, मातरौ शसि पुंस्त्वाभा - वादकारेण सह दीर्घ एव नतु नत्वम् मातृः । मात्रा मातृभ्यामित्यादि । एवं गौणत्वेऽतिमातृशब्दोऽपि । सम्बोधनेऽयं विशेषो "मातुर्मातः पुत्रेऽहें सिनामध्ये" ( सि० २।४।४० ) मातृशब्दस्य पुत्रे ३० वर्त्तमानस्य सामर्थ्याद्बहुव्रीहौ सिना सह मात इति अकारान्त आदेशः स्यात् । मातृद्वारेण पुत्रप्रशंसायां
1
"3
११४
गम्यायां कचोऽपवादः । गार्गी माता यस्य तस्यामन्त्रणं हे गार्गीमात, अत्र श्लाघ्यया मात्रा तत्पुत्रव्यपदेशयोग्यतया पुत्रः प्रशस्यते । पुत्र इति किम् ? हे गार्गीमातृके वत्से । अर्हे इति किम् ? अरे गार्गीमातृक । स्वस्रुशब्दः कर्तृवदिति “तृस्वसृनष्टनेष्टृ ०" इत्यादिना आर् स्वसा स्वसारौ इत्यादि “स्त्रियां नृतोऽस्वस्रादेर्डीः” इत्यत्र स्वस्रादिवर्जनात् स्वसृशब्दस्य ऋलक्षणो ङीर्न भवति "जामिस्तु ३५ भगिनी स्वसा" । क्रोष्टुशब्दस्य विशेषमाह, सूत्रम् -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org