________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे खरान्ताः स्त्रील्लिङ्गाः । इकाराद्यन्ताः
इकारान्तो बुद्धिशब्द इति स च प्रायो मुनिवदित्यत्र प्रायोग्रहणात् शसि पुंस्त्वाभावात्सकारस्य नत्वाभावः–बुद्धीः २-३, “टः पुंसि ना" इति टाया ना न भवति इत्यादि । बुद्धयादिशब्दानां ङित्सु विशेषमाह, सूत्रम् —
स्त्रियां ङितां वा दैदासदासदाम् ॥ ९ ॥ [ सि० १ ४ २८ ]
११३
स्त्रीलिङ्गादिदुदन्तात्परेषां स्वसम्बन्धिनामन्यसम्बन्धिनां च ङितामेते आदेशा वा स्युः ॥ ५ दकारो विशेषार्थः । बुद्ध्यै, बुद्धये । बुद्ध्याः २, बुद्धेः २ । बुद्ध्याम्, बुद्धौ । एवं प्रियबुद्ध्यै, प्रियबुद्धये पुंसे । एवं मतिभूतिप्रभृतयः । धेनुः । धेनू । धेनवः । हे धेनो । धेनुम् । धेनू | धेनूः । धेन्वा । धेन्वै, धेनवे । धेन्वाः धेनोः, २ । धेन्वाम् धेनौ । प्रियधेन्वै प्रियधेनवे पुंसे ॥९॥
स्त्रियां० । स्त्री ७-१ “स्त्रीदूतः” इति डेराम् “ स्त्रियाः” इति इयादेशः "लोकात् " । ङित् ६-३ “लोकात् " । वा १-१ " अव्ययस्य" । "तौ मुमो० " । दैश्च दास् च दास् च दाम् च वैदास्दास्दाम् १० १- १ " अनतो लुप्” । चतुष्पदमिदं० । दकारो विशेषार्थ इति "नित्यदिङ्किस्वराम्बार्थस्य ह्रस्वः” “ऋन्नत्यदितः” इत्यादौ विशेषार्थ इति भाव: । बुद्धि ४-१ अनेन दै आदेशे “इवर्णादेः०” इति यत्वे बुद्ध्यै पक्षे “ङित्यदिति” इत्येत्वेऽयादेशे बुद्धये । एवं बुद्धि ५-१ अनेन दासादेशे इवर्णादेरिति यत्वे बुद्ध्याः पक्षे ङित्यदितीत्येत्वे "एदोद्भ्यां ङसिङसो रः” “रः पदान्ते० " बुद्धेः । एवं षष्ठयेकवचनेऽपि । बुद्धि ७- १ अनेन दामादेशे “इवर्णादे० " पक्षे "डिडौं” “डित्यन्त्यः " बुद्धौ । पुंसि गौणत्वेऽपि प्रियबुद्धधै, प्रियबुद्धये १५ इत्यादि । नपुंसकलिङ्गे तु गौणत्वेऽपि प्रियबुद्धयै प्रियबुद्धये प्रियबुद्धिने कुलाय एवं सर्वत्र रूपत्रयं ज्ञेयम् । उकारान्ता अपि स्त्रीलिङ्गे एतैरेव सूत्रैः सिद्ध्यन्ति । तथा च रूपनयः - धेनुः धेनू धेनवः इत्यादि । अत्र लाघवार्थं क्रमोलङ्घनेन ईकारान्तात्पूर्वमुकारान्तानां निर्देशः कृतः ॥ ९ ॥ अथ ईकारान्ता उच्यन्ते । ईकारान्तो नदीशब्दः । “दीर्घङयाव० " इति सिलुकि नदी । नद्यौ । नद्यः । नदीम् । नद्यौ । नदीः । नद्या ।
२०
ईकारान्तो नदीशब्द इति ईकारान्तानां ङित्सु विशेषमाह ॥ ९ ॥ सूत्रम् -
स्त्रीदूतः ॥ १० ॥ [ सि० १/४/२९]
नित्यस्त्रीलिङ्गादी दूदन्तात्परेषां स्वास्खडितां दै दाम् दास् दामो नित्यं स्युः । नद्यै । नद्याः २ । नद्याम् । स्वास्वेति वचनात् प्रियनद्यै पुंसे । सम्बोधने नित्यदित्वाद् हस्खे, हे नदि । एवं गौरीप्रभृतयः । स्त्रीशब्दस्य जयन्तत्वात्सेलुकि, स्त्री । स्वरादौ "स्त्रियाः" इतीयादेशे, स्त्रियौ । स्त्रियः । २५ “वाम् शसि” स्त्रियम्, स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया । स्त्रियै । हे स्त्रि | लक्ष्मीशब्दस्य जयन्तत्वाऽभावात्सेर्लुग्नास्ति । लक्ष्मीः । शेषं नदीवत् । वधूः । वध्वौ । वध्वः । वधूम् । वध्वौ । वधूः । वध्वा । वध्वै । वध्वाः २ । वध्वाम् । हे वधु । एवं जम्ब्वादयः । श्रीहीधीशब्दाः सुश्रीवत् । भूः स्वयम्भूवत् । भ्रूरतिभ्रूवत् ॥ १० ॥ मातृशब्दः पितृवत् । माता मातरौ । मातृः । स्वशब्दः कर्तृवत् । स्वसा । स्वसारौ ।
इति महोपाध्याय श्रीकीर्ति विजयगणि शिष्योपाध्याय श्री विनयविजय गणिविरचितायां हैमलघु प्रक्रियायां खरान्ताः स्त्रीलिङ्गाः ।
For Personal & Private Use Only
३०
स्त्री० । ईच ऊच ईदूत् स्त्रियामीदूत् स्त्रीदूत् तस्मात् ५-१ “लोकात् ” “सो रुः” “र: पदान्ते०" 1 एकपदमिदं० । नदी ४-१ अनेन नित्यं दै आदेशे “इवर्णादे: ०" इत्यादि । एवं गौरीप्रभृतय इति सर्वेऽपि ङीप्रत्ययान्ता नदीशब्दवत् ज्ञेयाः इति भावः । पुंसि गौणत्वे प्रियनदिः प्रियनदी प्रियनदयः ३४ है० ० प्रका० पूर्वा० १५
Jain Education International
www.jainelibrary.org