________________
११२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"यजसृज." इति सूत्रे यजादिधातुसाहचर्यात् शकारस्यापि धातुसम्बन्धिन एव ग्रहणात् निशाशब्दसम्बन्धिनः शकारस्य षत्वं न भवति, किन्तु "धुटस्तृतीयः" इति शस्य स्थान्यासन्नो जकार एव "चजः कगम्" इति परे गत्वे कर्त्तव्येऽसत्त्वात् गत्वं न भवति ततश्च "अघोषे प्रथमो शिटः" इति जस्य चत्वे "प्रथमादधुटि शच्छः" इति शस्य छत्वे निच्छु इति सिद्धम् । एवं नासिकाशब्दस्य "दन्तपादनासिका." ५इति सूत्रेण नसादेशे नसः २-३ नासिकाः २-३ । नासिकाभ्यामिति स्थिते नसादेशे “सो रुः” इति रुत्वे नोभ्याम् नोभिः नोभ्यः । सुपि "शषसे शपसं वा” इति रोः सत्वे नस्सु ॥ ६॥ सर्वादीनामावन्तानां ङित्सु विशेषमाह-सूत्रम्
सर्वादेर्डस्पूर्वाः ॥७॥ [सि० १।४।१८] . सर्वादेराबन्तस्य ङितां यै यास् यास् यामो डस्पूर्वाः स्युः। सर्वस्यै । सर्वस्याः २ । सर्वस्याम् । १० शेषं गङ्गावत् ॥७॥
सर्वादे० । सर्व आदिर्यस्य स सर्वादिः तस्य सर्वादि ६.१ "डित्यदिति” “एदोग्यां०" । डस्पूर्वो येषां ते डस्पूर्व १-३ "अत आः स्यादौ०" 'समानानां.' “सो रुः" "रः पदान्ते.” । द्विपदमिदं सूत्रम् । डस्पूर्वा इति डिस्वादन्त्यस्वरादिलोपे सर्वस्यै सर्वस्याः इत्यादि । तत्सम्बन्धिविज्ञानादिह न भवति प्रियसर्वायै । दक्षिणस्याश्च पूर्वस्याश्च यदन्तरालं सा दक्षिणपूर्वा दिक तस्यै दक्षिणपूर्वायै अत्र बहुव्रीह्यादेरन्य१५पदार्थादिप्रधानत्वात्सर्वादित्वाभावः। यद्येवं कथं दक्षिणपूर्वस्यै इति प्रयोगः ? उच्यते दक्षिणा चासौ पूर्वा
चेति कर्मधारयोऽयम् । विभाषा दिक्समासे बहुव्रीहौ अत्र सर्वनामता वा स्यात् । यत्तु उत्तरपूर्वस्यै उत्तरपूर्वायै इति पाणिनीयैः सूत्रमारब्धम् तब्यर्थम् प्रागुक्तयुक्त्या प्रयोगद्वयसिद्धेराविशेषाच्च । अथ बहुव्रीह्यादेः सर्वादित्वाभावे कथं त्वकपितृकः मकत्पितृकः द्वकिपुत्रः ककिं सब्रह्मचारीत्यादावक्प्रत्ययः ? उच्यतेऽन्तरङ्गत्वात्पूर्वमेवाकि भविष्यति । अन्ये तु बहुव्रीहावन्तरङ्गस्याप्यकः प्रतिषेधमिच्छन्ति तन्मते २० कप्प्रत्यय एव त्वत्कपितृको मत्कपितृक इति यथासम्भवं ज्ञेयम् ॥ ७ ॥ जराशब्दस्य विशेषमाह
जराया जरखा ॥८॥[सि० २१॥३] स्वसम्बन्धिन्यन्यसम्बन्धिनि वा स्वरादौ स्यादौ । जरसौ जरे, २ । जरसः जराः, २ । जरसा, जरया । जराभ्याम् ३ । अतिजरसौ ॥८॥
जरा० । जरा ६-१ "आपो ङितां०" जरस् १-१ "दीर्घड्याब्०" वा १-१ "अव्ययस्य" "अव२५र्णभो०” त्रिपदमिदं० । स्वरादौ स्यादौ इत्युक्तत्वात् व्यञ्जनादौ गङ्गाशब्दवदुपनयः । जरसौ २ जरे २ इत्यत्र द्विकेनाङ्केन प्रथमाद्वितीयाद्विवचनयोर्ग्रहणम् जरसः जराः २ इत्यत्र द्विकेनाङ्केन जस्शसोर्ग्रहणम् । एवमन्यत्रापि यथासम्भवं ज्ञेयम् । अतिजरसौ, एवमतिजरसः अतिजराः पुमांस इत्यादि । केचित्तु पूर्वविप्रतिषेधेन इनातोः कृतयोः सन्निपातपरिभाषया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसादिति रूपे न तु [ निर्जरसा ] निर्जरस इत्येवं मन्यन्ते । इत्याकारान्ताः स्त्रीलिङ्गाः ॥ ८ ॥
अथ इकारान्ताः स्त्रीलिङ्गा उच्यन्ते-तत्र ___ इकारान्तो बुद्धिशब्दः । स च प्रायो मुनिवत् । बुद्धिः । बुद्धी । बुद्धयः । हे बुद्धे । बुद्धिम् । ३२बुद्धी । बुद्धीः । बुद्ध्या ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org