________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरान्ताः स्त्रीलिङ्गाः । आकारान्ताः
टौस्येत् ॥३॥ [सि० १।४।१९ ] आवन्तस्य टौसोः परयोरेत्वं स्यात् । गङ्गया । गङ्गाभ्याम् ३ । गङ्गाभिः॥३॥ टौस्ये० । टा च ओस् च टौस् तस्मिन् टोस् ७-१ "लोकात्" ऐत् १-१ "दीर्घड्या०” । इवर्णादे० । द्विपदमिदं० । अनेन एत्वे "एदेतो." अयादेशे गङ्गया। तत्सम्बन्धिविज्ञानादिह न भवति बहुखट्रेन पुंसा । इह तु भवति ईषदपरिसमाप्तया खट्या अखट्टया विष्टरेण । एवमन्यत्रापि यथा-५ सम्भवं ज्ञेयम् ॥ ३ ॥ गङ्गा ४-१ इति स्थिते सूत्रम्
आपो डितां यै यास् यास् याम् ॥ ४॥ [सि० ११४।१७ ] ___ आयन्तात्परेषां छितामेते आदेशाः स्युः । गङ्गायै । गङ्गायाः २ । “हस्वापश्च" इति आमो नामादेशे गङ्गानाम् । गङ्गायाम् । गङ्गयोः २ । गङ्गासु ॥४॥ ___ आपो० । आप ५-१ "लोकात्" "सो रुः” ङित् ६-३ "लोकात्” । यैयास्यास्याम् १-१ "अनतो १० लुप्" । "घोषवति" "अवर्णस्ये०" । त्रिपदमिदं सूत्रम् । गङ्गायै इत्यादि स्पष्टम् ।। ४ ।। सम्बोधने गङ्गा १-१ इति स्थिते सूत्रम्
___एदापः ॥ ५॥ [ सि० १।४।४२ ] सम्बोधने आवन्तस्य सिना सह एत्स्यात् । हे गङ्गे । हे गङ्गे । हे गङ्गाः ॥५॥ एवं श्रद्धामेधादयः।
एदा० । एत् १-१ "दीर्घङया०" । आप ६-१ "लोकात्" "सो रुः" "रः पदान्ते. "। "धुटस्तृतीयः" "लोकात्" द्विपदमिदं । हे गङ्गे इत्यादि ॥५॥ द्विस्वराणामम्बावाचिनामावन्तानां शब्दानां सर्वापि रूपपद्धतिः गङ्गाशब्दवत् किन्तु सम्बोधने प्रथमैकवचने विशेषोऽस्तीति तं दर्शयति सूत्रम्--
नित्यदिद्विखराम्बार्थस्य हवः ॥६॥[सि० १।४।४३ ] नित्यं दैदासादयो येभ्यस्ते नित्यदितस्तेषां, द्विखराम्बार्थानां च सिना सह हवः स्यात् । हे २० अम्ब । हे अक्क । हे अत्त । हे अल्ल । *शसादौ स्यादौ परे निशाया अन्त्यस्य लुक् नासिकाया नसादेशश्च वा । निशः। निशा, निशया । निज्भ्याम् , निशाभ्याम् । निच्छु ॥ नसः, नासिकाः । नोभ्याम् , नासिकाभ्याम् ॥ ६॥
नित्य० । द् इत् अनुबन्धो येषां ते दितः । नित्यं दितो दैदास्दास्दामादेशा येभ्यस्ते नित्यदितः । द्वौ स्वरौ येषां ते द्विस्वराः, अम्बा अर्थों येषां ते अम्बार्थाः । द्विस्वराश्च ते अम्बार्थाश्च द्विस्वराम्बार्थाः । २५ नित्यदितश्च द्विस्वराम्बार्थाश्च नित्यदिहिवराम्बार्थं तस्य नित्यदिद्विस्वराम्बार्थ ६-१ "टाङसो०" । ह्रस्वः १-१ "सो रुः" "र: पदान्ते.” । द्विपदमिदं सूत्रम् । हे अम्बा १-१ हे अक्का १-१ हे अत्ता १-१ हे अल्ला १-१ इति स्थिते सर्वत्र अनेन ह्रस्वः । नित्यदितामुदाहरणानि त्वेवम्-हे स्त्रि हे लक्ष्मि हे श्वश्रु हे वधु ॥ आबन्तयोरपि निशानासिकाशब्दयोर्विशेषमाह शसादौ स्यादावित्यादि "मासनिशासनस्य शसादौ लुग्वा" इत्यन्त्यस्वरलोपे निशः । निशा । निश्भ्याम् इति स्थिते "नामसिदयव्यञ्जने” इति ३० पदसंज्ञायां 'तालव्या इचयाश्वशः' इति स्थान्यासन्नत्वात् "धुटस्तृतीय" इति शस्य जत्वे निजभ्यामिति सिद्धम् । एवं निभिः निजभ्यः २ । निशासु इति स्थिते "मासनिशासनस्य." इत्यन्त्यस्वरलोपे *"सस्य शषौ" सकारस्य शचवर्गाभ्यां षटवर्गाभ्यां च योगे यथासङ्ख्यं शषौ स्यातामिति सुपः सकारस्य शकारः ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org