________________
१०
११०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु-
र्णस्ये॰” “एदोतः०” । त्रिपदमिदं सूत्रम् । एवं सुद्योप्रभृतय इति सु शोभना द्यौर्यस्य स सुद्यौः सुधावौ २, सुद्यावः सुधाम् सुद्याः २ सुद्यवा सुद्योभ्याम् ३ सुद्योः २ सुद्योषु हे सुद्यौः ॥ ६७ ॥ ग्लौशब्द इति ग्लौश्चन्द्रमा इति स्वरादौ सर्वत्र आवादेशः व्यञ्जनादावविशेष इति । एवं सुनौ प्रभृतय इति सु शोभना नौर्यस्य सुनौः सुनावौ सुनाव इत्यादि ।
यां शिष्योद्भुतकीर्त्तिकीर्त्ति विजयश्रीवाचकाहर्म्मणे राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया - वृत्तौ भेजुरनुक्रमेण घटनां पुंसि स्वरान्ताः रवाः ॥ १ ॥
अ
थ स्व रा न्ताः
स्त्रीलिङ्गाः
तत्र आकारान्तः स्त्रीलिङ्गो गङ्गाशब्दः ।
अथ स्वरान्ताः स्त्रीलिङ्गाः शब्दा वक्तव्यास्तत्र अकारान्ताः स्त्रीलिङ्गा न सम्भवन्ति तेषां हि केषाञ्चित् "आत्” इति सूत्रेण आप् प्राप्नोति केषाञ्चिच्च “गौरादिभ्यो मुख्यान्ङीः" इत्यादिसूत्रैर्डीः प्राप्नोतीति प्रथममाकारान्ताः प्रतिपाद्यन्ते इत्याह- आकारान्तो गङ्गाशब्द इति । गङ्गा १-१ इति स्थिते सूत्रम् - दीर्घङया व्यञ्जनात्सेः ॥ १ ॥ [ सि० १ ४ ४५ ]
१५ दीर्घङयावन्ताभ्यां व्यञ्जनाच्च परस्य सेलुक् स्यात् । गङ्गा ॥ १ ॥
दीर्घङया० । ङीच आप् च ज्यापौ दीर्घौ च तौ ङयापौ च दीर्घङयापौ दीर्घङयापौ च व्यञ्जनं च दीर्घङथाबूव्यञ्जनं तस्मात् दीर्घङयाब्व्यञ्जन ५-१ " ङेङस्यो०” “समानानां ०" । सि ६-१ "ङित्यदिति” “एदोद्भ्यां” “र: पदान्ते० " । द्विपदमिदं सूत्रम् । ननु ङयावित्यत्र ईकाराकारप्रश्लेषात् "गौणो ङयादिः प्रकृत्यादेर्विशेषणं नोनाधिकस्य” इति परिभाषया वा सिलोपप्रसङ्गनिवृत्तेर्दीर्घग्रहणं २० नातिप्रयोजकम्, सत्यम्, तथापि सुखावबोधाय कृतमिति । दीर्घग्रहणसामर्थ्यान्निष्कौशाम्बिः अतिखट्टः इत्यादौ “भूतपूर्वकस्तद्वदुपचार” इति “एकदेश विकृतमनन्यवदिति वा प्राप्तः सिलोपो न भवति ।। १ ।। गङ्गा १-२ इति स्थिते सूत्रम् -
Jain Education International
औता ॥ २ ॥ [ सि० १।४।२०]
आन्तस्य औता सह ऐत् स्यात् । गङ्गे । गङ्गाः । गङ्गाम् । गङ्गे । शसि पुंस्त्वाभावान्नत्वा२५ भावेऽकारेण सह दीर्घ एव - गङ्गाः ॥ २ ॥
औ० । औत् ३-१ “लोकात् " । एकपदमिदं० । अनेन एत्वे गङ्गे जसि "समानानां ० " गङ्गाः, अमि "समानाद ०" गङ्गामू, द्वितीयाद्विवचने "औता" गङ्गे । द्वितीयाबहुवचने विशेषमाह - शसि पुंस्त्वाभावादिति । ननु "सन्नियोगशिष्टानामेकापाये ऽन्यतरस्याप्यपायो" यथा एतान् गाः पश्येत्यत्र दीर्घाभावे सस्य नो न भवति तथात्र पुंस्त्वाभावान्नत्वाभावे दीर्घोऽपि न भविष्यतीत्यत्रोच्यते * " " नान्वाचीयमाने निवृत्तौ प्रधानस्य, ” अप्राधान्येन विहितस्य निवृत्तौ प्राधान्येन विहितस्य निवृत्तिर्न भवति ततोऽप्रधानस्य ३१ नत्वस्य निवृत्तौ प्रधानस्य दीर्घस्य निवृत्तिर्न भवति ॥ २ ॥ गङ्गा ३ - १ इति स्थिते ।
For Personal & Private Use Only
www.jainelibrary.org