________________
१०९
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे खरान्ताः पुंलिङ्गाः । ऋकारान्तादयः
टादौ खरे वा ॥ ६४ ॥ [ सि० १।४।९२ ] तुनस्तृच । क्रोष्ट्रा, क्रोष्टना । क्रोष्टभ्याम् ३ । क्रोष्टे, क्रोष्टवे । क्रोष्टुः क्रोष्टोः, २ । क्रोष्ट्रोः क्रोष्वोः, २ । आमि तु नित्यत्वात् पूर्व नामि स्वरादित्वाभावात्तृजभावः-क्रोष्ट्रनाम् । क्रोष्टरि, क्रोष्टौ । क्रोष्टषु ॥६४॥ ऋकारान्तादयोऽप्रसिद्धाः। एकारान्तः अतिहेशब्दः । स्वरादावयादेशः। अतिहयौ । सम्बोधने "अदेतः स्यमो०" इति सिलुकि । हे अतिहे । ऐकारान्तः सुरैशब्दः ।५ ___टादौ ० । टा आदिर्यस्य स टादिः तस्मिन् टादि ७-१ "ङिडौँ” “डित्यन्त्य०" स्वर ७-१ "अवर्णस्ये."। वा १-१ "अव्ययस्य” । त्रिपदमिदं० । अपेक्षितं वृत्त्यंशमाह-तुनस्तृच् इति, आमि तु नित्यत्वादिति तृजादेशे कृतेऽपि अकृतेऽपि च “हस्वापश्च” इति आमो नाम् प्राप्नोति ततश्च कृताकृतप्रसङ्गी यो विधिः स नित्य इति नामादेशस्य नित्यत्वं ततश्च “बलवन्नित्यमनित्यादिति” पूर्वमामो नाम् स्यादित्यर्थः । ऋकारान्तादयोऽप्रसिद्धा इति भावः॥६४ ॥अतिहे १-१ "सो रुः" "रः पदान्ते."। स्वरादा-१० वयादेश इति व्यञ्जनादौ च अविशेष इत्यपि ज्ञेयम् । अतिहेभ्याम् ३ अतिहेभ्यः २ अतिहेषु इत्यादि पञ्चमीषष्ठयेकवचनयोः “एदोड्यां०” अतिहेः २ । एवं सह इना वर्तते यः सेः सयौ २ सयः २ सया सेभ्याम् ३ सेभ्यः २ सेः २ सेषु हे से इत्यादि । एवं परमश्वासौ इश्च परमेः इत्यादि । सुरै १-१ इति स्थिते सूत्रम्आ रायो व्यञ्जने ॥६५॥ [सि० २११५]
१५ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आः स्यात् । सुराः । खरादावायादेशः। सुरायौ ॥६५॥ ओकारान्तो गोशब्दः।
आ रा० । आ १-१ “सो रुः”। रै ६-१ "एदैतो.” "लोकात्” “सो रु" । व्यञ्जन ७-१ "अवर्णस्ये०" । "रो रे लुक् दीर्घ०" । त्रिपदमिदं० ॥ ६५ ॥ गो १-१ इति स्थिते सूत्रम्ओत औः ॥६६॥ [सि० १४७४]
२० घुटि । “विशेषणमन्तः" । गौः । गावौ । गावः ॥ ६६ ॥
ओत० । ओत् ६-१ "लोकात्" "सो रुः"। औ १-१ “सो रुः" "र: पदान्ते."। मध्ये "रोर्यः" तस्य रे परे लुक वा लुक्यसन्धिश्च । द्विपदमिदं सूत्रम् । अपेक्षितं वृत्त्यंशमाह घुटि इति । सूत्रवृत्त्यंशयोः सङ्घटनेऽयं भावः "विशेषणमन्तः” इति ओदन्तस्येत्यर्थः-ओदन्तस्य घुटिपरे आः स्यात् “पष्ठ्यान्त्यस्य" इति परिभाषया ओकारस्य आ स्यादित्यर्थः । स्वरादौ सर्वत्र अवादेशः व्यञ्जनादौ अविशेष इति २५ ज्ञेयम् ॥ ६७ ॥ अमि शसि च विशेषमाह-सूत्रम्
आ अम्शसोऽता ॥ ६७॥[सि० ११४७५] अम्शसोरता सह ओत आः स्यात् । गाम् । गावौ । गाः । गवा । गोभ्याम् । “एदोड्यां ङसिङसो रः" इति रत्वे गोः २ । गवाम् । गोषु । एवं सुद्योप्रभृतयः ॥ ६७ ॥ औकारान्तो ग्लौशब्दः । ग्लौः । ग्लावौ । हे ग्लौः । ग्लौभ्याम् । एवं सुनौप्रभृतयः। इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां खरान्ताः पुंलिङ्गाः ।
आ० । आ १-१ "सो रुः" अम् च शस् च अमशस् तस्य अम्शस् ६-१ "लोकात्” “सो रुः" । अत् ३-१ "लोकात्" । "रोर्यः" तस्य स्वरे परे लुग्वा लुक्यसन्धिश्च । "अतोऽति." "अव-३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org