________________
१०८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
ऋतो. । ऋत् ५-१ "लोकात्" “सो रुः" । दुर् १.१ "दीर्घल्या.” । “घोषवति" "अवर्णस्ये."। द्विपदमिदं सूत्रम् । नित्यम् । पितुः २ । एवं नृ-भ्रातृप्रभृतय इति ना नरौ नरः । नरम् नरौ नन् । त्रा नृभ्याम् नृभिः । । । नुः २ । ब्रोः २ ॥ ६० ॥ षष्ठीबहुवचने विशेषमाह किन्त्वितीति-सूत्रम्
नुर्वा ॥ ६१ ॥ [ सि० ११४४८] ५ नामि दीर्घः । नृणां नृणाम् ॥ ६१ ॥ कादीनां विशेषः।
नु० । न ६-१ "ऋतो दुर्" "डित्यन्य.” वा १-१ "अव्ययस्य" । द्विपदमिदं० । अपेक्षितं वृत्त्यंशमाह-नामि दीर्घ इति ॥ ६१॥ ऋकारान्तानामेव विशेषमाह कादीनां विशेष इति-सूत्रम्तृखसृनतनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार् ॥ ६२ ॥ [ सि० १।४।३८]
तृनुन्नन्तस्य स्खस्रादीनां च घुट्यार स्यात् । इति पञ्चस्वाआप्तावपि 'विशेषत्वात् "ऋदुश१० नसू०" इत्यादिना सेर्डा । कर्ता । अतिकर्ता । कर्तारौ । कर्तारः । कर्तारम् । कर्तारौ । शेषं पित
वत् । एवं नसृप्रभृतयः ॥ ६२ ॥ क्रुश्धातोस्तुन्प्रत्यये क्रोष्टुशब्दः। ___ तृस्वस० । ता १-१ च स्वसा १-१ च नप्ता १-१ च नेष्टा १-१ च त्वष्टा १-१ च क्षत्ता १-१ च होता १-१ च पोता १-१ च प्रशास्ता १-१ च तृखसृनप्तनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्तृ तस्य तृवस
मप्टनेष्ठत्वष्टक्षनृहोतृपोतृप्रशास्तृ ६-१ "इवर्णादे." "लोकात्” “सो रुः" घुट ७-१ "लोकात्" १५आर् १-१ "दीर्घड्या ." । "घोषवति" "अवर्णस्ये" "इवर्णादे." । त्रिपदमिदं सूत्रम् । 'निरनुबन्धन
हणे सामान्यग्रहणम्' इति न्यायात् तृशब्देन तृच्तृनोरुभयोरपि ग्रहणमित्याह तृच्तृन्नन्तस्येति । 'विशेषत्वादिति "तृस्वसृ०” इत्यादि सूत्रं सर्वत्र घुटि प्राप्नोतीति सामान्यं "ऋदुशनस्" इत्यादि सूत्र एकस्मिन् सावेव प्राप्नोतीति विशेषसूत्रमिति भावः । एवं नप्तृप्रभृतय इति स्वस्रादीनामष्टानां मध्ये स्वस
शब्दः खरान्तस्त्रीलिङ्गे वक्ष्यते ततः सप्त नप्तृप्रभृतयः पुंल्लिङ्गाः कर्तृशब्दवत् ज्ञेया इति भावः । उणादयोऽ२० व्युत्पन्नानि नामानीति केचित् व्युत्पन्नानीत्यन्ये तत्राव्युत्पत्तिपक्षे तृप्रत्ययग्रहणे नत्रादीनामव्युत्पन्नानां
संज्ञाशब्दानां ग्रहणं न भवतीति पृथक नत्रादिग्रहणम् , व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नत्रादिग्रहणं नियमार्थं तेनान्येषामौणादिकानां न भवति । पितरौ भ्रातरौ जामातरौ । केचित्तु प्रस्तोतृ उद्गात उन्नेत प्रतिहत प्रतिप्रस्थातृशब्दानामौणादिकानामप्यारं मन्यन्ते-प्रस्तोतारं प्रस्तोतारौ इत्यादि ॥ ६२ ॥ क्रोष्ट
शब्द इति, 'क्रुशवाह्वानरोदनयोः' क्रुश्धातुः क्रोशतीति क्रोष्टा 'कृमिकम्यमी ति तुन्प्रत्ययः “यजसृज." २५ शस्य षः “तवर्गस्य श्ववर्ग०" तस्य : "लघोरुपान्यस्य” इति गुणे क्रोष्टु इति सिद्धम् । क्रोष्टु १-१ इति स्थिते सूत्रम्
क्रुशस्तुनस्तृच् पुंसि ॥ ६३ ॥ [सि० ११४९१] क्रुशो यस्तुन् तस्य शेषे घुटि परे तृच् स्यात् । क्रोष्टा । कोष्टारौ । कोष्टारः । शेषे घुटीत्येवहे क्रोष्टो । घुटीति किम् ? क्रोष्टून् ॥ ६३ ॥ ३० क्रुश्० । क्रुश् ६-१ "लोकात्" "सो रुः” तुन् ६-१ "लोकात्" "सो रुः” । तृच् १-१ __"दीर्घङया०” पुम्स ७-१ "लोकात्" "शिड्हेऽनुस्वारः" "चटते." । चतुष्पदमिदं० । शेषे घुटीत्यु
क्तत्वात् सम्बोधने सौ शसि व्यञ्जनादौ च तुनस्तुजादेशो न स्यात्-हे क्रोष्टो क्रोष्टून् ॥ ६३ ॥ टादौ ३३ स्वरादौ विशेषमाह सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org