________________
प्रक्रियावृत्तिरुपे श्रीहैमप्रकाशे खरान्ताः पुंलिङ्गाः । ऋकारान्ताः
१०७ स्यादौ० । सिरादिर्यस्य स स्यादिः तस्मिन् स्यादि ७-१ "डिडौँ” “डित्यन्य." "लोकात्” । व १-१ "सी रुः" "र: पदान्ते." । द्विपदमिदं सूत्रम् ।
वातप्रमीहूहूनग्नहूप्रभृतीनां विशेषः कथ्यते । वात २-१ प्र पूर्वक 'माङ् मानशब्दयोः' वातं प्रमिमीते वाताभिमुखधावनादतिजवनतया वा (वातात्प्रमः कित् उणा० ७१३ ई.) कित्ईप्रत्यये वातप्रमीर्वाताभिमुखगामुको मृग उच्यते वातप्रमीर्वातमृगः "इवर्णादे:०" यत्वे वातप्रम्यौ २ । वातप्रम्यः।५ "समानादमोऽतः” इत्यकारलोपे वातप्रमीम् । शसि "शसोऽता सश्च नः पुंसि" वातप्रमीन् । वातप्रभ्या ३-१ वातप्रमीभ्याम् ३ । वातप्रमीभिः। वातप्रम्ये वातप्रम्यः २ वातप्रम्योः २ वातप्रम्याम् ६-३ सप्तम्येकवचने "समानानां०” वातप्रमी, हे वातप्रमीः किबन्तवातप्रमीशब्दस्य अमि शसि डौ च विशेषः वातप्रम्यम् , वातप्रम्यः, वातप्रम्यि * 'यापाभ्यां द्वे च' (उ०७१४) 'यांक प्रापणे ययीर्मोक्षमार्गो दिव्यवृष्टिरादित्योऽश्वश्च, 'पा पाने' पपीः रश्मिः सूर्यो हस्ती च एतौ ईप्रत्ययान्तवातप्रमीवत् । देवनन्दी तु १० वातप्रमीशब्दं मृगेऽपि स्त्रीलिङ्गमाह । हूहूर्देवगायनः "इवर्णादे." इति वत्वे हूह्वौ हूतः हूई हूह्रौ हूहून् हूहा हूहूभ्यां ३ हूहूभिः हूढे हूटः २ हूह्वोः २ हूह्वां हूह्वि हे हूहूः । एवं नमहूशब्दोऽपि नग्नहूर्माषदलन्यादिमद्यबीजमिति । वातप्रम्यादीनां धातुत्वाभावादियुवादिकं धातुकार्य न प्राप्नोतीत्यमि "समानादमोऽतः" "शसोऽवा.” इति स्वरादौ च यत्ववत्वादिकं यथोक्तं कार्य प्राप्नोतीति तत्त्वम् ॥ ५७ ॥ अथ क्रमप्राप्ता ऋकारान्ता उच्यन्ते-पितृ १-१ इति स्थिते सूत्रम्
ऋदुशनस्पुरुदंशोऽनेहसश्च सेडी ॥ ५८॥ [सि० १४।८४] ऋदन्तादुशनसादेश्च परस्य सेर्डा स्यात् । पिता । अतिपिता ॥ ५८॥ ऋदु० । ऋच्च उशना च पुरुदंशा च अनेहा च ऋदुशनस्पुरुदंशोऽनेहः तस्मात् ऋदुशनस्पुरुदंशोऽनेहस् ५-१ "लोकात्" "सो रुः" । च १-१ "अव्ययस्य" । "चटते."। सि ६-१ "जित्यदिति" "एदो यां०" । डा १-१ [ दीर्घड्या०] "जलतुम्बिका०" । चतुष्पदमिदं० । सूत्रे चकारः सखि-२० शब्दानुवृत्त्यर्थः सखिशब्दस्यापि सेर्डा भवतीत्यर्थः । डाप्रत्ययस्य डित्वमन्त्यस्वरादिलोपार्थम् । ऋका. रलोपे पिता । अतिपितेति अत्र स्वसम्बन्धिनो अन्यसम्बन्धिनो वा सेर्डा भवतीत्यर्थः । एवमप्रेतनसूत्रद्वयेऽपि । क्लीवे गौणत्वे अतिपितृ २, अतिपितॄणी २। कर्तृवत् स्त्रियां डयां अतिपित्री ॥ ५८ ।। पितृ १-२ इति स्थिते।
अौं च ॥ ५९॥ [सि० ११४३९] ऋतो डौ च घुटि च परे अर स्यात् । पितरौ पितरः । “सम्बोधने हखस्य गुणः" [सि० १४४१] । हे पितः । पितरम् पितरौ पितॄन् । पित्रा पितृभ्याम् पितृभिः। पित्रे पितृभ्याम् पितृभ्यः ॥ ५९॥
अर् । अर् १-१ "दीर्घड्या०" । ङि ७-१ "ङिडौं” “डित्यन्त्य०" "लोकात्" "जलतुम्बिका."। च १-१ "अव्ययस्य" । त्रिपदमिदं सूत्रम् । रूपपद्धतिः सुगमा ॥ ५९॥ पितृ ५-१ पितृ ६-१ ३० इति स्थिते सूत्रम्
ऋतो डर ॥६०॥[सि० ११४॥३७] ऋतः परयोईसिङसोर्डर स्यात् । पितुः २ । पित्रोः २ । पितृणाम् । पितरि । पितृषु । एवं नृ-भ्रातप्रभृतयः॥ ६०॥ किन्तु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org