________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे खरान्ताः पुंल्लिङ्गाः । दीर्घेका रोकारान्ताः
१०५
भूः प्लवगः “शालुरजिह्वव्यङ्गदर्दुरा" इति हैमकोशवचनात् पुंल्लिङ्गोऽयम्, हलायुधस्तु प्लवङ्गमः प्लवगः स्यात् ॥ कारो निश्चयः कारे कारेण वा भवतीति कारभूः । अग्रेरिति ह्याश्रयवृत्तौ । उत्तमर्णाधमर्णयोर्वस्तुमूल्यनिश्चायको 'दलाल' इति केचित् । करभूशब्देनापीच्छन्त्यन्ये । कर भूशब्देनापि अग्रेगूरेवेति याश्रवृत्तौ । काराशब्देनाप्यपरे काराभूरिति । नियमार्थमिदमिति ।
दशप्रकाराणि हि सूत्राणि भवन्ति तथाहुः - " संज्ञा च 'परिभाषा चाधिकारो विधिरेव च । ५ "प्रतिषेधश्च नियमो विकल्पश्च समुच्चयः । 'अतिदेशानुवादौ च दशधा सूत्रमिष्यते ॥ १ ॥ क्रमेण सूत्राणि “औदन्ताः स्वराः” ( सि० १1१1४ ) । १ । “प्रत्ययः प्रकृत्यादेः” (७|४|११५) । २ । “घुटि” (१।४।६८) । ३ । “नाम्यन्तस्थाकवर्गात् पदां०” (२।३।१५) । ४ । “न स्तं मत्वर्थे” (१।१।२३) । ५ । “हन्पुनर्वषाकारैर्भुवः” ( २।१।५९ ) इति । ६ । “सौ नवेतौ” ( १।२।३८ ) । ७ । “ वरुणेन्द्ररुद्रभवशर्ममृडादान् चान्तः” ( २।४।६२ ) । ८ । तयोः समूहवच्च बहुषु" ( ७।३।३ ) । ९ । “हेमा- १० दिभ्यो ०” (६।२।४५) इति सूत्रादारभ्यैतत्सूत्रप्रपञ्चप्रकरणम् । १० । तथा "शसोडता सश्च नः पुंसि" (१।४।४९) इत्याद्यन्वाचयसूत्रमित्येकादेशोऽपि प्रकार ः प्रतीयते ।
तत्र 'सिद्धे सत्यारम्भो नियमार्थ' इति नियमस्य फलमाह - तेनान्यो भूशब्दो लूशब्दवदिति स चैवम् "दिद्युद्ददृज्जगज्जुहू॰” इति सूत्रवृत्तौ संज्ञायामेव भूः पृथ्वी शम्भूः शिवः आत्मभूः कामः मनोभूः स एव स्वयम्भूर्ब्रह्मा स्वयम्भूर्विष्णुश्च मित्रभूर्नामकश्चित् प्रतिभूरुत्तमर्णाधमर्णयोरन्तः स्थसाक्षी 'प्रतिभूर्लग्नक : १५ साक्षीति कोषे एषां सर्वेषामपि शब्दानां “धातोरिवर्णोवर्णस्येयुव्०" इत्युवेव न तु “क्विवृत्तेर०” इति वक्त्रमिति । ये तु “शंसंस्वयंविप्राद्भुवो डु: ” (५।२।८४) इति डुप्रत्ययान्ताः शम्भुः शङ्करः सम्भुर्जनयिता स्वयम्भुः विभुर्व्यापकः प्रभुः स्वामी । बहुलाधिकारात् शम्भुः संज्ञायामन्ये त्वसंज्ञायामपि । एवं व्युत्पादिताः शब्दास्ते साधुशब्दवत् ज्ञेयाः ॥ ५१ ॥ 'डुक्रींग्श् द्रव्यविनिमये' यवान् क्रीणातीति किपू “अप्रयोगीत्" यवक्रीः । यवक्री १-२ औ इति स्थिते “क्किवृत्तेर ० " इति वत्वे प्राप्ते अपवादसूत्रमाह-सूत्रम् — २० संयोगात् ॥ ५२ ॥ [ सि० २ १/५२]
संयोगात्परयोर्धातोरिवर्णोवर्णयोः स्वरादौ इयुवौ स्याताम् । क्विवृत्तेरित्यस्यापवादः । यवविक्रयः । ' एवं कटप्रूशब्दोऽपि ॥ ५२ ॥ सुश्रीशब्दस्य ङित्सु विशेषः ।
संयो० । संयोग ५-१ ङेङस्यो०” “समानानां ०" । एकपदमिदं सूत्रम् । एवं कटप्रूशब्दोऽपीत्यादि ' च्युङ् - पुंङ्' - गतौ कटेन प्रवते इति कटप्रू : "दिद्युद्ददृज्ज० " इति क्किबन्तो निपातः ।। ५२ ।। सुश्री - २५ शब्दस्य ङित्सु विशेष इति, अन्यत्र तु यवक्रीशब्दवदिति भावः । सूत्रम् --
युवोऽस्त्रियाः ॥ ५३ ॥ [ सि० १ ४ ३०]
इयुव्स्थानिनौ यौ नित्यस्त्रीलिङ्गावीदूतौ तदन्तात् स्त्रीवर्जात्परेषां स्यादेर्डिंतां दै दास दास् दामो वा स्युः । सुश्रियै, सुश्रिये । सुश्रियाः सुश्रियः, २ । ॥ ५३ ॥
"3
वा १-१ “अव्ययस्य” । इय् च उब् च इयुव् “चार्थे द्वन्द्वः० तस्मात् इयुव् ५-१ “लोकात् " ३० " सो रुः” । न स्त्री अस्त्री तस्याः अस्त्री ५-१ 'स्त्रियाः' इति इयू | मध्ये "अतोऽति रो रुः" "अवर्णस्ये ० ' “एदोतः०” । त्रिपदमिदं० । सुश्रियाः सुश्रियः इत्यत्र द्विकेन पञ्चमीषष्ठयेकवचनयोस्तुल्यरूपमिति सूचितम ॥ ५३ ॥ बहुवचनेऽपि विशेषमाह सूत्रम्-
है० प्रका० पूर्वा० १४
Jain Education International
For Personal & Private Use Only
३३
www.jainelibrary.org