________________
१०४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"सो रुः "र: पदान्ते०" । सेनानी १-२ इति स्थिते "धातोरिवर्णोवर्णस्ये.” इति इयादेशे प्राप्ते अपवादसूत्रमाह सूत्रम्
किवृत्तेरसुधियस्तौ ॥५०॥ [ सि० २११५८] किबन्तेनैव या वृत्तिः समासस्तस्याः सुधीशब्दवर्जितायाः सम्बन्धिनो धातोरिवर्णोवर्णयोः ५स्वरादौ स्यादौ यवौ स्याताम् । सेनान्यौ । सेनान्यः ४ (१-३,२-३,५-१,६-१)। सेनान्यम् , सेनान्याम् । सप्तम्येकवचने "निय आम्" सेनान्याम् हे सेनानीः । एवं ग्रामणीप्रभृतयः । सुलू: सुल्वौ सुल्वः । सुल्वां । सुल्वि । हे सुलूः । एवं खलपूप्रभृतयः । अत्र सुधीशब्दवर्जनात्तस्य नीशब्दवत्प्रक्रिया । सुधीः । सुधियो । सुधियाम् । सुधियि ॥५०॥ .
किप० । किपा वृत्तिः "कारकं कृता” इति तत्पुरुषः “ऐकायें” किवृत्तिः तस्याः किवृत्ति ६.१ १०"डित्यदि." "एदोयां०" । न सुधीः असुधीः तस्या असुधी ६-१ "धातोरिवर्णो०" इय् "लोकात्"
"सोरुः" । तद् १.२ "आढेरः" "लुगस्या०" "लोकात्" "ऐदौत्सन्ध्य."। मध्ये "चटते."। त्रिपदमिदं सूत्रम् । षष्ठीबहुवचने यत्वे सेनान्यां सप्तम्येकवचनेऽपि निय आमादेशे सेनान्यामित्येव रूपम् । सेनानीर्दण्डनायकः । सेनापतिरित्यर्थः । एवं प्रामणीप्रभृतय इति ग्रामं नयतीति विप् "अप्र.” “डस्युक्तं."
"ऐकायें" "प्रामामान्नियः" इति णत्वे ग्रामणीः ग्राममुख्य इत्यर्थः । सुलूरिति “लूग्श् छेदने' सुष्टु लुना१५ तीति कि "अप्रयो०" सुल्लूः अनेन वत्त्वे सुल्वौ इत्यादि । 'पुग्श पवने' खलं पुनातीति किप् “अप्रयो०”
खलपूः क्षेत्रभूमिशोधक इत्यर्थः । सुधीरिति "डुधांग्क् धारणे च” सुष्टु दधातीति सुधीः अथवा 'ध्य चिन्तायाम्' सुष्टु ध्यायतीति सुधीः । किप् “दिद्युद्ददृज्जगज्जुहूवाक्प्राधीश्रीदूस्रज्वायतस्तूकटप्रूपरिव्राद्धाजादयः क्विप्” इति निपातनात् सुधीः । विद्वान् इत्यर्थः । असुधिय इति सूत्रांशेन सुधीशब्दवर्जनात्
"क्विब्वृत्ते.” इति सूत्रेण न यत्वं किन्तु अपवादबाधे उत्सर्ग एव प्रवर्त्तते "धातोरिव!." इति २० इयेव सुधियौ इत्यादि ॥ ५० ॥ सूत्रम्-- -
दृन्पुनर्वर्षाकारैर्भुवः ॥ ५१ ॥ [सि० २११५९] हनादिपूर्वस्य भुवः स्वरादौ स्यादौ वः स्यात् । इन्भ्वौ । इन्भ्वः । विवृत्तेरिति वत्वे सिद्धे नियमार्थमिदम् । 'सिद्धे सत्यारम्भो नियमार्थ' इति तेनान्यो भूशब्दो लूशब्दवत् स्वयम्भूः ।
खयम्भुवौ ॥५१॥ यवान्क्रीणातीति यवक्रीः। . इन्पुन । हन् च पुनश्च वर्षाश्च कारश्च इन्पुनर्वर्षाकाराः "चार्थे द्वन्द्व:०" तैः हन्पुनर्वर्षाकार ३-३
"भिस ऐस्" "ऐदौत्सन्ध्य०" । भू ६-१ "धातोरिवर्णो०": "लोकात्" "सो रुः" "र: पदान्ते." । द्विपदमिदं० । दनादिपूर्वस्य भुव इति, दृन्निति नान्तो हिंसार्थोऽव्ययः हन् हिंसन् भवतीति भूधातोः विपि इन्भः सविषः कीटविशेषः । इन्भूर्यसनसहाय इति "दिद्युद्दज्जगज्जुहूवाक्०” इति सूत्रवृत्तौ । अस्य इन्भूशब्दस्यानेन सूत्रेण स्वरादौ वत्त्वम् । यस्तु 'भैत् ग्रन्थे' *"हभिचपेः स्वरान्नोऽन्तश्च" (उ० ८४१) आभ्यामूः प्रत्ययः स्वराच्च परो नोन्तो भवतीति हन्भूः सर्पजातिवनस्पतिर्ग्रन्थकारः बाहलकानकारस्य "नां धुड्वर्गेऽन्त्यो पदान्ते” इति न भवति । एवं व्युत्पादित औणादिको इन्भूशब्दस्तस्यानेन वत्त्वं न भवति । "इवर्णादेः०” इति वत्त्वे हन्भ्वौ हन्भ्वः हन्नं । एवं पुनर्भवति इति पुन
भरोषधिविशेषः पुनरूढा स्त्री च । तथोक्तं हमकोषे"दिधिषूस्तु पुनर्भूxिरूढाऽस्या दिधिषूः पतिः” इति ३४ पुनर्भशब्दः स्त्रीलिंगः। वर्षासु भवतीति वर्षाभूः औषधिविशेषः भेकश्च यादवकोषवचनानन्तरं “वर्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org