________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरान्ताः पुंल्लिमाः । हवदीर्धकारान्ताः वर्णात्मको यो विधिः सः सर्वस्य स्यादित्यर्थः । तत्सम्बन्धिविज्ञानादिति अयं भावः-त्रिशब्दो यदा गौणीभूतस्तदान्यसम्बन्धिन्यामि त्रय आदेशो न भवति यथा त्रीनतिक्रान्ता अतित्रयस्तेषामतित्रीणामिति । किं १-१ मानमेषां इति वाक्ये *“यत्तत्किमः सङ्ख्याया डतिर्वा” (७।१।१५०) सङ्ख्यारूपं यन्मानं तदर्थेभ्य एभ्यः स्यन्तेभ्यः षष्ट्यर्थे सङ्खथेये डतिर्वा स्यादिति डतिप्रत्यये "डित्यन्त्य०" इत्यन्त्यस्वरादिलोपे कतिततियतिशब्दाः सिद्धाः ॥ ४६ ॥ सूत्रम्
डतिष्णः सङ्ख्याया लुप् ॥ ४७ ॥ [सि० १।४।५४ ] डतिषनान्तानां सङ्ख्यावाचिनां स्वजसू-शसोलुप् स्यात् । कति २ । कतिभिः । कतिभ्यः २ । कतीनाम् । कतिषु । खेति किम् ? प्रियकतयः प्रियकतीन् । एवं यति-ततिशब्दौ ॥४७॥
डति० । डतिश्च ष् च न च डतिष्ण तस्य डतिष्ण ६-१ "लोकात्” “सो रुः" । "रः पदान्ते."। सङ्ख्या ६-१ "आपो डिग्तां०” “सो रुः" । लुप् १-१ “दीर्घङया०”। मध्ये 'अवर्ण०” रुलुक् । त्रिपद-१० मिदं सूत्रम् । ननु शतानि सहस्राणीत्यत्र सङ्ख्याया नान्तत्वात् जसूशसादेशस्य शेः स्थानिवद्भावेन लुक प्राप्नोति । सत्यम् । सन्निपातलक्षणन्यायान्न भवति-शिनिमित्तेन नकारेण सङ्ख्याया नान्तत्वं तत् शिविघाताय न भवतीति । इति सविशेषाः पुंल्लिंगा इकारान्ताः शब्दा उक्ताः ॥ ४७ ॥
*ईकारान्तो नीशब्दः । नयतीति नी: अथ दीर्घकारान्ता उच्यन्ते तथाचाह-ईकारान्तो नीशब्द इति, 'णींग प्रापणे' णीधातुः “पाठे १५ धात्वादेो नः" नयतीति नीः विप् "अप्रयो०" नी १-१ "सो रुः" "र: पदान्ते." नी १-२ स्थिते सूत्रम्-.
धातोरिवर्णोवर्णस्येयुत् खरे प्रत्यये ॥४८॥ [सि० २।१।५० ] सप्तम्या आदिः। धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये इयुवौ स्याताम् । नियौ । नियः । निया। नीभ्याम् ३ । निये । नियः २॥४८॥
धातो० । धातु ६-१ "डित्यदि०" इवर्णश्च उवर्णश्च इवोवणं तस्य इवर्णोवर्ण ६-१ "टाङसो०"। इय् च उव् च इयुव् १-१ "दीर्घङया०” । स्वर ७-१, प्रत्यय ७.१ उभयत्र "अवर्णस्ये.” । पञ्चपदमिदं सूत्रम् । सप्तम्या आदिरिति सप्तम्यन्तस्य विशेष्यस्य यद्विशेषणं तत्तस्यादिरवयवो भवति ततश्वानया परिभाषया स्वरे प्रत्यये इत्यत्र स्वरादौ प्रत्यये परे इति व्याख्येयमित्याह धातोरित्यादि ॥४८॥ सप्तम्येकवचने विशेषमाह सूत्रम्---
___ २५ निय आम् ॥ ४९॥ [सि० ११४५१ ] नियः परस्य डेराम् स्यात् । नियाम् । हे नीः। एवं लूः लुवौ लुवः। लुवि । हे लूः । ॥४९॥ सेनानीशब्दस्य विशेषः । सेनां नयतीति सेनानीः ।
निय० । नी “धातोरिवर्णो.” “लोकात्” “सो रुः”। आम् १-१ "दीर्घड्या०” । “रोर्यः” तस्य स्वरे लुक् असन्धिश्च । द्विपदमिदं० । “लोकात्" नियाम् । एवं लूरिति 'लूगशू छेदने' लुनातीति लूः३० कि "अप्रयो०" अनेन उव् आदेशः॥४९॥ सेनानीशब्दस्य विशेष इति ‘णींग प्रापणे' णी 'पाठे धात्वादे." नी सेनां २-१नयतीति विप् "अप्रयो०” * "डस्युक्तं कृता” इति सूत्रेण “गतिकारकङस्युक्तानां विभक्त्युत्पत्तेः प्रागेव समास” इति तत्पुरुषसमासे "ऐकायें" इति विभक्तिलुपि सेनानी १-१३३
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org