________________
१०२
महामहोपाध्यायश्री विनय विजयगणिविरचिते खोपज्ञ हैमलघु
1
धुटि "चजः कगम्" इति कत्वं भवति । बुद्धा दग्ध्वा अत्र क्त्वादेशस्य धकारस्यासत्वाद् " गडद - बादेः ०” इत्यादेश्चतुर्थो न स्यात् । स्यादिविधौ च - लून्युः पून्युः क्षाम्युः प्रस्तीम्युः एषु नकारादीनामसत्त्वात् खितिखीतीत्याश्रित उर् भवति । अषीति किम् ? वृक्णः अत्र तादेशस्य नस्य सत्त्वात् " यजसृज ०" इति धुनिमित्तः षो न स्यात् कत्वे त्वसत्त्वाद्भवत्येव । परे स्यादिविधौ चेत्येव-लमः मग्नः ५ अत्रास्यादिविधौ पूर्वसूत्रकार्ये “अघोषे प्रथमोऽशिट : " इति प्रथमत्वे नत्वस्यासत्वाभावादघोषनिमित्तः प्रथमो न भवति । एवं क्षामेण शुष्केणेत्यादौ पूर्वं णत्वं प्रति मत्वकत्वयोः सत्त्वात्तकारेण व्यवधानं नास्तीति णत्वं भवति । शुष्कमिच्छति शुष्कीः पक्कीः इत्यत्र तु "संयोगात्” इतीयादेशे शुष्कियौ viral ङसिङसोरपि शुष्कियः पक्किय इत्येव भवतीति ज्ञेयम् । खीतीसम्बन्धी यो यकारस्तस्मात् परयोर्डसिङसोः उर् स्यादित्यर्थः ॥ ४३ ॥ सूत्रम् -
केवलसखिपतेरौः ॥ ४४ ॥ [ सि० १।४।२६ ]
केवलसखिपतिभ्यामिदन्ताभ्यां परो ङिरौः स्यात् । सख्यौ । केवलेत्येव । प्रियसखौ । केवलः पतिशब्दः प्रथमाद्वितीययोर्मुनिवत्, तृतीयादौ च सखिवत् । पत्या । पत्ये । पत्युः २ । पत्यौ । समस्तश्च सर्वत्र मुनिवत् - मुनिपतिना ॥ ४४ ॥ द्विशब्दो नित्यं द्विवचनान्तः
१०
केव० । सखा च पतिश्च सखिपति केवलं च तत् सखिपति च केवलसखिपति तस्मात् केवलसखि - १५ पति ५-१ । अत्र समाहारद्वन्द्वस्य क्लीबत्वेऽपि सूत्रत्वान्नोऽन्ताभावे ? "ङित्यदिति” इत्येत्वं "एदोद्भ्यां०” । औ १-१ “सो रुः” “र: पदान्ते ०” । द्विपदमिदं सूत्रम् ॥ ४४ ॥ द्विशब्दो नित्यं द्विवचनान्त इति द्वि १-२ इति स्थिते सूत्रम् -
आद्वेरः ॥ ४५ ॥ [ सि० २ १/४१]
द्विशब्दपर्यन्तानां त्यदादीनां स्वसम्बन्धिनि स्यादौ तसादौ च परे अः स्यात् । द्वौ द्वौ । २० द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् । द्वयोः द्वयोः । खसम्बन्धिनीति किम् ? प्रियद्वी नरौ । त्रिशब्दो नित्यं बहुवचनान्तः - त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः २ ।। ४५ ।।
I
आद्वे० । आ १-१ " अव्ययस्य" । द्वि ५- १ " ङित्य०” “एदोन्यां०" । अ १-१ " सो रु” “५: पदान्ते ०” । त्रिपदमिदं सूत्रम् । द्वि १-२ अनेन इकारस्य अत्वे देवशब्दवत् सर्वत्र रूपाणि । त्रिशब्दो नित्यं बहुवचनान्त इति अस्य च उपलक्षणत्वात् चतुर्प्रभृतयोऽष्टादशपर्यन्ताः सङ्ख्याशब्दाः कतिप्रभृ२५ तयो डतिप्रत्ययान्ताश्च नित्यं बहुवचनान्ता इति ज्ञेयम् । गौणत्वे त्वेकवचनान्ता द्विवचनान्ता अपि स्युः यथा प्रियद्विः पुमान्, प्रियत्री इमौ इत्यादि । जसिशसिभिसिभ्य सोश्च त्रिशब्दो मुनिशब्दवत् ॥ ४५ ॥ आमि विशेषमाह सूत्रम् -
:
Sat: 11 88 11 [ fão 218138]
आमि त्रेस्त्रयः स्यात् ॥ *"अनेकवर्णः सर्वस्य " त्रयाणाम् । तत्सम्बन्धिविज्ञानात् प्रियत्री - ३० णाम् । त्रिषु । कितिशब्दो नित्यं बहुत्वे ॥ ४६ ॥
त्रि ६-१ “ङित्यदि०” “एदोयां०" । त्रय १-१ "सो रुः” “रः पदान्ते० " । " चटते." द्विपदमिदं सूत्रम् । ननु त्रिशब्दस्य बहुवचनान्तत्वात्कथं सूत्रे त्रेरित्येकवचनम् ? अत्रोच्यते नायं त्रिशब्दः सङ्ख्यावाची किन्तु संख्यावाचित्रिशब्दस्यानुकरणशब्दोऽनुकार्येणार्थवान् प्रकृत्यन्तरमित्यस्मादेकवचनमदुष्ट३४मिति। “षष्ठयान्त्यस्य” इति प्राप्ते विशेषपरिभाषामाह - "अनेकवर्णः" इत्यादि षष्ट्या निर्दिष्टे द्वित्रादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org