SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे खरान्ताः पुंल्लिकाः । इकारान्ताः १०१ सखि ६-१ । “न नाङिदेत्” एत्वनिषेधः "इवर्णा०" "खितिखीतीय उर्" इति उस उर् । इत् ६-१ "लोकात्" "सो रुः" न शिः अशिः तस्मिन् अशि ७-१ "डिडौँ” “डित्यं०" ऐत् १-१ "दीर्घङया०" । मध्ये “अतोति०" "अवर्णस्ये.” "एदोतः०" "ओदौतो.” । चतुष्पदमिदं सूत्रम् । शिवर्जे इति जस्शसादेशशिवर्जनात् अतिसखानि कुलानि सन्ति पश्येत्यत्र ऐत्वं न भवति । प्रथमैकवचने तु से विधानादैत्वं न भवति ततः प्रथमाद्वितीयाद्विवचनयोरमि शसि चेति चतुषु ऐत्स्यादित्यर्थः ।५ स्वसम्बन्धिन्यन्यसम्बन्धिनीत्यभिधानात् प्रियसखायौ प्रियसखायः इत्यादि । इदन्तस्येति किम् ? इमे सख्यौ-सखायमिच्छति सखीयति सखीयतीति सखीः, सख्यौ इत्यत्र ऐत्वं न भवति । इदमेवेद्ग्रहणं ज्ञापयति "नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्” “एकदेशविकृतमन्यवत्" इति च, अन्यथा ड्यन्तस्य किबन्तस्य च सखीशब्दस्य सखिग्रहणेऽग्रहणादिग्रहणमनर्थकं स्यात् ॥ ४१ ॥ सूत्रम् न नाङिदेत् ॥ ४२ ॥ [ सि० ११४.२७ ] केवलसखिपतेर्यष्टाया ना डिति परे एचोक्तः, स न स्यात् । सख्या सख्ये । केवलेत्युक्तेः समस्तस्य स्यात् । प्रियसखिना प्रियसखये ॥ ४२ ॥ पञ्चमीषष्ठ्येकवचनयोरेत्वनिषेधात् "इव देः" इति यत्वे न १-१ "अव्ययस्य" ङिति एत् डिदेत् ना च डिदेच नाङिदेत् १-१ "दीर्घड्या.” द्विपदमिदं सूत्रम् । समस्तस्येति समासस्थस्य सखिशब्दस्य नादयो भवन्तीत्यर्थः ॥ ४२ ॥ सूत्रम्- १५ खितिखीतीय उर् ॥ ४३॥ [सि० ११४॥३६] एतत्सम्बन्धियात्परयोर्डसिङसोरुर् स्यात् । सख्युः । सख्युः ॥ ४३ ॥ खिति । खिश्च तिश्च खीश्च तीश्च खितिखीत्यः खितिखीतीनां य खितिखीतीय तस्मात् खितिखीतीय ५-१ "लोकात्" "सो रुः" । उर् १-१ "दीर्घड्या०" "रोर्यः" तस्य स्वरे परे लुग्वा लुक्यसन्धिश्च । द्विपदमिदं सूत्रम् । अत्र ह्रस्वान्तौ खितिशब्दो सखिपतिशब्दसम्बन्धिनौ दीर्धान्तौ खीतीशब्दौ नामधातु-२० सखीपतीशब्दसम्बन्धिनौ । सखि २-१ पति २-१ सखायं पतिं चेच्छति “अमाव्ययात् क्यन् च” इति क्यन्प्रत्ययः “ऐकायें" इत्यम्लुप् “दीर्घश्वि०" इति दीर्घ सखीय पतीय इति नामधातू सिद्धौ ततः सखीयति पतीयति इति क्विप् "अतः” इति अलुप्, “य्वोः प्व्यव्यञ्जने लुक्” इति यलुक सखीः पतीः इति सिद्धम् । अथवा सह खेन वर्त्तते इति सखः सखं सुखं चेच्छतीति क्यनि किपि सखी: सुखीः पततीति पतः पतं सातं चेच्छति इति क्यनि विपि पतीः सातीः “योऽनेकस्वरस्य” इति यत्वे सख्यौ २५ सुख्यौ पत्यौ सात्यौ। अनेन ङसिङसोरुरादेशे सख्युः सुख्युः पत्युः सात्युः "ऋल्वादेरेषां तो नोऽप्र" इति क्तस्य नत्वे लूनं पूनं चेच्छति लूनी: पूनीः लून्यौ पून्यौ ॥ *"शुषिपचो मकवम्” एभ्यः परस्य क्तयोस्तकारस्य यथासङ्ख्यं मकवाः स्युः । क्षामः क्षामवान् शुष्कः २ पक्कः २ क्षाममिच्छतीति क्षामीः क्षाम्यौ ॥ *"प्रात्तश्च मो वा” प्रात्केवलात्परस्य स्त्यायतेः क्तयोः परयोः स्ती आदेशः क्तयोस्तकारस्य च वा मकारो भवति । प्रस्तीमः प्रस्तीमवान् प्रस्तीतः २ प्रस्तीममिच्छति प्रस्तीमीः प्रस्तीम्यौ। अत्र च ३० "क्तादेशोषि" (सि० २।१।६१) कोपलक्षितो यः क्तक्तवतुक्तिक्त्वानां तकारस्तस्य य आदेशः स षादन्यस्मिन्परे कार्ये स्यादिविधौ च कर्त्तव्येऽसन् स्यात् । क्षामस्यापत्यं क्षामिः सोऽत्रास्तीति क्षामिमान् अत्र मत्वस्यासत्वान् "मावर्ण०" इति मो वो न स्यात् । शुष्किका अत्र ककारस्यासत्त्वात् "स्वज्ञाज०” इत्यादिना इत्वविकल्पो न स्यात्, "अस्यायत्तत्" इति नित्यमेवेत्वम् । पकमित्यत्र वस्यासत्त्वाद' ३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy