________________
१००
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहैमलघु
लोपे “प्रथमोक्तं प्राक्” इति अतिशब्दस्य प्राग्निपाते गौणस्य ङयाबन्तस्यान्तस्थस्य ह्रस्वो वक्तव्यः इति ह्रस्वे अतिस्त्रि १-१ "सो रुः” “रः पदान्ते० " । अतिस्त्रि १-२ इति स्थिते सूत्रम् - स्त्रियाः ॥ ३९ ॥ [ सि० २ १/५४ ]
स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । अतिस्त्रियौ । जसि, तृतीयादौ च मुनिवत् । ५ अतिस्त्रियः ॥ ३९ ॥
1
स्त्रि० । स्त्री ६-१ "स्त्रीदूतः” इति ङसो दासादेशः अनेनैव इयादेशे स्त्रियाः । एकपदमिदं सूत्रम् । अतिस्त्रियौ इति “इदुतोऽस्त्रेरीदूत्" इत्यत्र त्रिशब्दवर्जनात् न दीर्घः । इदमेव स्त्रिशब्दवर्जनं ज्ञापकम् यत्परेणापि इयादेशेनेत्कार्यं न बाध्यते, तेन "जस्येदोत्" "ङित्यदिति” “टः पुंसि ना” “ङिडौं” इत्येतेषु विधिषु अतिस्त्रिशब्दो मुनिशब्दवद्विज्ञायते; अन्यथा “स्त्रियाः” इतीयादेशे न्यायप्राप्ते स्त्रिवर्जनमन१० र्थकं स्यात् एतन्मनसि विचिन्त्याह 'जसि तृतीयादौ च मुनिवत्' इति ॥ ३९ ॥ अम्शसो विशेषमाहवामशसि ॥ ४० ॥ [ सि० २२११५५ ]
स्त्रिया इय् । अमि शसि च वा । अतिस्त्रिम् अतिस्त्रियम् । अतिस्त्रियः अतिस्त्रीन् । अतिस्त्रिणा अतिस्त्रये । अतिस्त्रेः २ । अतिस्त्रौ । ओसि च इयादेशः - अतिस्त्रियोः २ । तथोक्तम्"ओस्यौकारे च नित्यं स्यादम् - शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने " ॥ 11
१५
अनामश्यस्य सखिशब्दस्य सेर्डा वक्तव्यः [ "ऋदुशनस्पुरुदंशोऽनेहसच सेर्डा " सि० १।४।८४ ] सखा । अतिसखा । आमन्त्रणे तु हे सखे ॥ ४० ॥
वा १-१ “अव्ययस्य” अम् च शस् च अम्शस् तस्मिन् अम्शस् ७- १ " लोकात् ” । द्विपदमिदं सूत्रम् । शेषाणि रूपाणि मुनिवत् । अथातिस्त्रिशब्दस्य यत्र इयादेशो नित्यं भवति यत्र विकल्पेन भवति यत्र च न २० भवति तत्सर्वं स्पष्टयितुं सिद्धान्तकौमुद्युक्तं श्लोकमाह-ओस्यौकारे चेति - ओसि षष्ठीसप्तमीद्विवचनयोः, औकारे चेति प्रथमाद्वितीयाद्विवचनयोः, एषु चतुर्षु नित्यम्; अम्शसोस्तु विभाषयेति विकल्पेन, अन्यत्र अचि स्वरादौ जसूटाङेङसिङस्सु इयादेशो न भवतीति भावः । स्त्रिया इति स्त्रीशब्दस्य पुंस्युपसर्जने इति गौणस्येत्यर्थः “गुणोपसर्जनोपाप्राण्यप्राधान्ये" इति हैमाभिधानचिन्तामणौ ॥ अनामत्रयस्येति "सख्युरितोऽशावैत्" इति सूत्रात् इत इत्यनुवर्त्तनीयम्, ततश्चानामव्यस्य इकारान्तस्य सखिशब्दस्य सेर्डा २५ वक्तव्य इति "डित्यन्त्य०” सखा । अनामत्र्यस्येति किम् ? आमन्त्रणे तु हे सखे इति "ह्रस्वस्य गुणः " इति गुणः । इकारान्तस्येति किम् ? सखायमिच्छति सखीयतिं, सखीयतीति सखीः अत्र सेर्डा न भवति । सिद्धान्तकौमुद्यां तु सखायमिच्छति सखीयति ततः किप् अल्लोपयलोपौ अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते कौ लुप्तं स्थानिवत् एकदेशविकृतस्यानन्यतयाऽनङ्गणित्वे सखा सखायौ सखायः हे सखीः । अमिपूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात् सख्युरसम्बुद्धाविति प्रवर्त्तते सखायं सखायौ शसि ३० यण् सख्यः इत्युक्तमिति ज्ञेयम् ॥ ४० ॥ सखि १-२ इति स्थिते सूत्रम् -
सख्युरितोऽशात् ॥ ४१ ॥ [ सि० १ ४ ८३ ]
इदन्तस्य सखिशब्दस्य खसम्बन्धिन्यन्यसम्बन्धिनि वा शिवर्जे शेषे घुटि ऐत् स्यात् । सखायौ ३३ सखायः । सखायम् सखायौ सखीन् ॥ ४१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org