________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे खरान्ताः पुंलिङ्गाः । होकारोकारान्ताः ९९ प्राप्नोतीति षष्ठयेकवचनमेव । “षष्ठ्यान्त्यस्य” इति परिभाषायां प्राप्तायामपवादपरिभाषामाह "प्रत्ययस्य." इत्यादि ॥ ३५ ॥ मुनि ७-१ इ इति स्थिते सूत्रम्
डिौँ ॥ ३६॥ [सि० २४।२५] इदुदन्तात्परो डिडौँ स्यात् ॥ ३६ ॥ ङि १-१ "सो रुः" । डौ १-१ सूत्रत्वात्सिलुक् । द्विपदमिदं । मुनि औ इति स्थिते ॥३६॥ सूत्रम्-५
डित्यन्त्यखरादेः ॥ ३७॥ [ सि० २।१।११४ ] अन्त्यस्वरस्य तदादेः शब्दस्य च डिप्रत्यये लुक् स्यात् । “आद्यन्तवदेकसिन्"। मुनौ । मुन्योः । मुनिषु ॥ ३७ ॥ सम्बोधने
डियन्त्य० । ड् इत् यस्य स डित् तस्मिन् डित् ७-१ "लोकात्" । अन्ते भवः अन्त्यः अन्त्यश्चासौ स्वरश्च अन्त्यस्वरः, अन्त्यस्वरः आदिर्यस्य स अन्त्यस्वरादिस्तस्य अन्त्यस्वरादि ६-१ "डित्यदिति” १० "एदोड्यां०" "र: पदान्ते."। द्विपदमिदं सूत्रम् । ननु द्वादशानां सङ्ख्यापूरणः “सङ्ख्यायाः पूरणे डट्" इति डदप्रत्यये अनेन अन्लोपो भवतु अन्त्यस्वरादित्वात् , प्रकृते तु केवल एवान्त्यस्वर इति कथं लोप इत्याशङ्कायामाह-"आद्यन्तवदिति” एकस्मिन्नप्याद्यन्तयोरिव सतोः कार्य पर्यालोच्यते इत्यन्त्यस्वरादित्वमिति ॥ ३७ ॥ सम्बोधने प्रथमैकवचने विशेषमाह
इखस्य गुणः ॥ ३८॥ [सि० ११४४१] सिना सह । हे मुने हे मुनी हे मुनयः । एवं रविप्रभृतयः । साधुप्रभृतय उकारान्ता अप्येवम्-साधुः साधू साधवः । साधुम् साधू साधून् । साधुना साधुभ्याम् साधुभिः । साधवे साधुभ्याम् साधुभ्यः । साधोः साधुभ्याम् साधुभ्यः । साधोः साध्वोः साधूनाम् । साधौ साध्वोः साधुषु । हे साधो हे साधू हे साधवः ॥ ३८ ॥
ह्रस्व० । हस्ख ६-१ "टाङसो."। गुणः १-१ “सोरुः" "रः पदान्ते०”। द्विपदमिदं । हे मुने । एवं २० रविप्रभृतय इति पुंल्लिङ्गे इकारान्ता शब्दाः सर्वे यथोक्तमुनिशब्दवत् ज्ञेया इत्यर्थः । पुंल्लिङ्गे उकारान्ता अप्येतैरेव सूत्रैः साध्यन्ते तत्र रूपनयमाह-साधु १-१ "सोरुः" "रः पदान्ते.", साधु १-२ "इदुतो.", साधु १-३ “जस्ये.” "ओदौतो." "लोकात्” । साधु २-१ "समानाद०” साधु २-२ "इदुतो.", साधु २-३ "शसोता०" । साधु ३-१ "टः पुंसि ना" साधुना, साधु ३-२, साधु ३-३ । साधु ४-१ "डित्य.” “ओदौतो." "लोकात्", साधु ४-२ साधु ४-३ । साधु ५-१ "डित्य.” “एदोद्भ्यां०", साधु २५ ५-२, साधु ५-३ । साधु ६.१ "ङित्य.” “एदोद्भ्यां." "र: पदान्ते.", साधु६-२ "इवर्णा." "लोकात्" "सोरुः" "र: पदान्ते", साधु ६-३ "हस्वाप०" "दी? नाम्य०”। साधु ७-१ "ङिडौँ” “डित्यन्त्य०" "लोकात्”, साधु ७-२ "इवर्णा०” “लोकात्", साधु ७-३ 'नाम्यन्तस्था०" । हे साधु ११ "हस्वस्य०", साधु १-२ 'इदुतो०', साधु १-३ "जस्ये०" "ओदौ०" "लोकात्" ॥ ३८ ॥
_*(अथ इकारान्तेषु विशेषमाह)* अतिक्रान्तः स्त्रियमतिस्त्रिः।
अतिक्रान्तः स्त्रियमतिस्त्रिः, स्त्री २-१ अति १-१ इति स्थिते स्त्रियमतिक्रान्त इति विग्रहे "प्रात्यवपरिनिरादयो गतकान्तकुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः” इति तत्पुरुषसमासे “ऐकायें” इति विभक्ति-३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org