________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुतन्मते हाहाशब्दसम्बन्धिन आतो लोपो न स्यात् । हाहान् २-३ हाहा ३-१ हाहै ४-१ हाहाः ५-१ हाहाः ६-१ हाहौः ६-२ ७-२ हाहे ७-१ इत्यादि भवति । 'शेषं विश्वपाशब्दवत् ॥ ३० ॥
*(इकारान्तो मुनिशब्दः-मुनिः __ अथ इकारान्ता शब्दा उच्यन्ते । मुनिः, मुनि १-२ औ इति स्थिते सूत्रम्
इदुतोऽस्त्रेरीत् ॥ ३१॥ [ सि० १।४।२१ ] स्नेरन्ययोरिदुतोरौता सह दीर्घः स्यात् । मुनी ॥३१॥ __ इदुतो० । इञ्च उच्च इदुत् ६-१ "लोकात्" "सोरुः" न स्त्रिः अस्त्रिः ६-१ "ङित्यदिति” “एदोड्यां." ईच्च ऊच्च ईदूत् १-१ "अनतो." । त्रिपदमिदं सूत्रम् ।। ३१ ॥ मुनि १-३ अस् इति स्थिते सूत्रम्
जस्येदोत् ॥ ३२॥ [सि० १।४।२२] १० इदुदन्तयोर्जसि परे एदोतौ स्याताम् । मुनयः । मुनिम् । मुनी । मुनीन् ॥ ३२॥
जस् ७-१ "लोकात्" । एच ओच्च एदोत् १-१ "अनतो." । द्विपदमिदं सूत्रम् ॥ ३२ ॥ मुनि ३-१ आ इति स्थिते सूत्रम्
टः पुंसि ना ॥३३॥ [सि० १।४।२४] इदुदन्ताभ्यां पुंसि टाया ना स्यात् । मुनिना । मुनिभ्याम् । मुनिभिः॥ ३३॥ १५ टा ६-१ "लुगातो.” लोकात्" "सोरुः" "रः पदान्ते.” । पुम्स् ७-१ "लोकात्" "शिड्हेऽनु__ स्वारः" । ना १-१ सूत्रत्वाल्लोपः । त्रिपदमिदं सूत्रम् ॥ ३३ ॥ मुनि ४-१ ए इति स्थिते सूत्रम्
ङित्यदिति ॥ ३४ ॥ [सि० १४।२३ ] दिद्वर्जिते डिति स्यादौ परे इदुतोरेदोतौ स्याताम् । मुनये । मुनिभ्याम् । मुनिभ्यः ॥ ३४ ॥
ङि० । ङ् इत् यस्य स डिन्त् ७-१ "लोकात्” । द् इत् यस्य स दित् न दित् अदित् तस्मिन् अदित् २०७-१ "लोकात्"। "इवर्णा०" । द्विपदमिदं सूत्रम् । बुद्धि ४-१ इत्यादौ डितां दैदासाद्यादेशेऽपि स्थानि
वद्भावेन ङित्वादेदोतौ प्राप्नुत इत्यत आह अदितीति, "एदैतो०” मुनये । मुनि ५-१ मुनि ६-१ अस् इति स्थिते डित्यदितीत्येत्वे ॥ ३४ ॥ सूत्रम्
एदोद्भयां ङसिङसो रः ॥ ३५॥ [ सि० ११४३५] प्रत्ययस्य स्थानिनो विधिः सर्वस्य स्यात् । मुनेः । मुनिभ्याम् । मुनिभ्यः । मुनेः। मुन्योः । २५मुनीनाम् ॥ ३५॥
एदो० । एञ्च ओच्च एदोतौ ताभ्यां एदोत् ५-२ भ्याम् "धुटस्तृ०" । ङसिश्च ङस् च ङसिङस् तस्य ङसिङस् ६-१ "लोकात्” “सो रुः”। रः १-१ “सो रुः" "रः पदान्ते."। "घोषवति" "अवर्णस्ये"। त्रिपदमिदं । "इवर्णादेरस्खे स्वरे यरलवम्” “धेनो व्यायाम्” इत्यादिसूत्रनिर्देशात् "लक्षणप्रतिपदोक्त
योः” इति परिभाषाया अनित्यत्वात् लाक्षणिकयोरपि मुनेः साधोरित्येतयोरेदोतोर्ग्रहणमन्यथा लक्षणप्र३० तिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति अतिहेगोप्रभृतेरेव ग्रहणं प्रसज्येत । “गोर्नाम्यवोऽक्षे” इत्यादि
निर्देशाच "कृत्रिमाकृत्रिमयोः कृत्रिमे" इत्यस्याप्यनित्यत्वं विज्ञायते, ततश्च स्वरूपग्रहणार्थकेन तका३३रेणोभयोरप्येदोतोर्महणं सिद्धमिति । ङसिङसोरित्यत्र षष्ठीद्विवचने “यथासङ्ख्यमनुदेशः समानाम्” इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org