________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे स्वरान्ताः पुंल्लिङ्गाः । हखदीर्घाकारान्ताः
९७
एकत्र "घोषवति" अन्यत्र “अतोऽति०” “अवर्णस्ये ०" "एदोतः ०" । त्रिपदमिदं सूत्रम् । स चेदह्रो न स्यादिति स नकार दहनशब्दसम्बन्धी न स्यात्तदा लोपः स्यात् । अहनशब्दसम्बन्धिनकारस्य तु लोपो न स्यादित्यर्थः । यथा अहनुभ्यामित्यत्र पदसंज्ञासद्भावेऽपि अनेन नकारलोपनिषेधात् " अह्नः " तस्य रुत्वे अहोभ्याम् । स्त्रीलिङ्गे "स्त्रियो नृतो०” ( २।४।१ ) इति विहितायां ङयामध्यनो नकारस्य लोपो भवति यथा राज्ञी । सप्तम्येकवचने यूषन् ७-१ इति स्थिते “अनोऽस्य " इति सूत्रे प्राप्ते ५ विशेषसूत्रमाह ॥ २८ ॥ सूत्रम् —
ईवा ॥ २९ ॥ सि० २।१।१०९ ] ईकारे ङौ च परेऽनोऽस्य लुग्वा स्यात् । यूष्णि, यूषणि, यूषे ॥ २९ ॥
T
ईश्च ङिश्च ईङि तस्मिन् ईङि ७-१ "डिडौं” “डित्यन्त्य०” । वा १-१ "अव्ययस्य" । द्विपदमिदम् । रूपत्रयं स्पष्टम् । नपुंसकलिङ्गे "औरीः” इति जाते ईकारेऽपि अनो लोपो वा प्रियराज्ञी प्रियराजनी १० कुले । दन्तपादौ प्रतीतौ । यूषा नाम अन्नरसः; “ शिखरिण्यथ यूर्यूषो रसो” इति वचनात् । एवं निर्जर शब्दस्यापि " एकदेशविकृतमनन्यवत्" इति " जराया जरखा" इति अन्यसम्बन्धिन्यपि स्वरादौ स्यादौ जरसादेशविधानात् निर्जरसौ निर्जरौ २, निर्जरसः निर्जराः निर्जरसं निर्जरम् ; निर्जरसः, निर्जरान् । टाङसोः परत्वान्नित्यत्वाच्च प्रागेव जरसादेशेऽकारान्तत्वाभावादिनस्यौ न स्याताम् - निर्जरसा निर्जरसः । अन्ये तु प्रागेवेनादेशं सन्निपातलक्षणन्यायस्यानित्यत्वाश्रयणात् पश्चाज्जरसादेशं चेच्छन्तो निर्जरसेन १५ इत्यपि मन्यन्ते, पक्षे निर्जरेण निर्जरस्य । निर्जर भिस् इति स्थिते भिस ऐस्त्वे निर्जरसैः अत्र * “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" यो यस्माज्जातः स तस्य विघाताय न भवतीति अकारनिमित्तक ऐसादेशोऽकारविघाताय न स्यादिति जरसादेशो न प्राप्नोति, परं एस् इत्येव सिद्धे ऐसा देशकरणेनायं न्यायोऽनित्यो ज्ञाप्यते, ऐस्करणं हि निर्जरसैरिति रूपसिद्ध्यर्थम् । केचित्तु निर्जरैरित्येवेच्छन्ति । एवं पञ्चम्येकवचनेऽपि निर्जरसः निर्जरसात् निर्जरात् इति रूपत्रयम् । शेषा रूपपद्धतिः स्पष्टा ॥ २९ ॥ २० आकारान्तो विश्वपाशब्दः । विश्वपाः विश्वपौ विश्वपाः । “समानादमोतः " विश्वपाम्, विश्वपौ
आकारान्तो विश्वपाशब्द इति, विश्वं पातीति विश्वपा १-१ " सो रुः” “रः पदान्ते० " । विश्वपा १-२ “ऐदौ०” । विश्वपा १-३ “समानानां ०” “सो रुः” “रः पदान्ते ०” । विश्वपा २-१ “समानाद ० " विश्वपा २-२ “ऐदौ० ” । विश्वपा शस् इति स्थिते सूत्रम् -
'
"
लुगातोsनापः ॥ ३० ॥ [ सि० २।१।१०७ ]
२५
आवर्जस्याकारस्य ङयां शसादौ खरे परे च लुक् स्यात् । विश्वपः । विश्वपा । विश्वपाभ्याम् । अदेतःस्यमोरित्यत्रात एव लुक उक्तत्वात् सम्बोधने सिलोपाभावः । हे विश्वपाः । एवं सोमपाप्रभृतयः ॥ ३० ॥
""
३०
लुक् १ - १ “दीर्घ ० " । आत् ६-१ “लोकात्” “सो रुः” । न आप् अनाप् तस्य अनापू ६-१ “लोकात् " " सो रु” “रः पदान्ते ०" । "घुटस्तृतीयः” इति कस्य गः " अतोति ०" "अवर्णस्ये ० "एदोतः पदान्ते ०” । त्रिपदमिदं सूत्रम् । एवं सोमपाप्रभृतय इति आपूवर्जस्य आकारस्य सामान्यतो लुक्कथनात् हाहाशब्दस्याकारलोपो भवति यथा हाहः २-३ हाहा ३-१ हाहे ४-१ हाह: ५-१ हाहः ६-१ हाहो : ६-२ हाह्रां ६-३ हाहि ७-१ इत्यादि भवति । अन्ये तु धातुसम्बन्धिन एव आकारस्य लोपमिच्छन्ति ३३ है• ० प्रका० पूर्वा० १३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org