SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ । ततो महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु"धुटतृस्तीयः" इति दत्वे माझ्याम् । मासाभ्याम् । सर्वविभक्तिषु वा लुगिति 'कैचित्-माः, मासः॥२५॥ नाम । नामन् १-१ "अनतो लुप्" "नानो नो." । स् इत् यस्य स सित्, न विद्यते य् यत्र तद् अय, अय् च तद्व्यञ्जनं च अव्यञ्जनं सिच्च अयव्यञ्जनं च सिदयव्यञ्जनं ७-१ "अवर्णस्ये०"। ५ द्विपदमिदं सूत्रम् । सिति प्रत्यये इति तस्योदाहरणमेवम्-भवतः ६-१ अयम् १-१ भवदीयः "भवतोरिकणीयसौ” इति ईयस् । अस्य सित्वात्पदसंज्ञायो "धुटस्तृतीयः” इति तस्य दः। यवर्जनात् ये परे नानः पदसंज्ञा न भवति-वाच वाचमिच्छति “अमाव्ययात् क्यन् च" इति यप्रत्यये वर्तमानातिय "कर्त्तर्य." "लुगस्या०” वाच्यति, यदि त्वत्र पदसंज्ञा स्यात्तदा "चजः कगम्" इति कत्वे वाक्यतीति स्य ऽनेन पदसंज्ञायां “सो रुः” इति सस्य रुः ततो अवर्णभोरिति रुलुक । पक्षे "धुटस्तृतीयः" इति १० दत्वे इति-'दन्त्या लतुलसा' इति वचनात् स्थान्यासन्नः सकारस्य तवर्गसम्बन्धी तृतीयो दकारो भवतीत्यर्थः। 'केचिदिति सारस्वतीयाः । तथाहुः-'मासस्यालोपो वा' मासशब्दस्याकारस्य लोपो वा भवति सर्वविभक्तिषु परतः, मा मासः इत्यादि । निशाशब्दः स्वरान्तस्त्रीलिङ्गे आसनशब्दश्च स्वरान्तनपुंसकलिङ्गे वक्ष्यते । पुनरप्यकारान्तानां शब्दानामेव विशेषमाह-॥ २५ ॥ सूत्रम् दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नु१५दन्दोषन्यकञ्शकन् वा ॥ २६ ॥ [सि० २।१।१०१] शसादौ स्यादौ परे दन्तादीनां दशानां दत्प्रभृतयो दशादेशाः वा स्युः । दतः दन्तान् । दयाम् दन्ताभ्याम् । पदः पादान् । पझ्याम् पादाभ्याम् ॥२६॥ दन्त० । दन्तश्च पादश्च नासिका च हृदयं च असृग् च यूषश्च उदकं च दोस् च यकृच्च शकृच्च दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृत् तस्य दन्त० ६.१ "लोकात्" "सो रुः" दत् च पत् च २० नस् च हृद् च असन् च यूबन च उदन च दोषन् च यकन् च शकन् च दत्पन्नसहृदसन्यूषचुदन्दोपन्यकशकन् १-१ "अनतो लुप्" । वा १-१ "अव्ययस्य" । त्रिपदमिदं सूत्रम् । दन्तपादयूषा अत्र प्रस्तुताः, शेषा यथास्थानं वक्ष्यन्ते। दतः दन्तानिति शसि रूपम् , दता दयां दद्भिः दत्सु । एवं पदः पदा पद्भ्यां पत्सु। पक्षे तु सर्वाणि रूपाणि देववत्। यूषशब्दस्य यूपन्नादेशे यूषन् २-३ अस् इति स्थिते कार्यान्तरमाह ॥ २६ ॥ सूत्रम् अनोऽस्य ॥२७॥ [ सि० २।९।१०८ ] ड्यामधुखरे च अनोऽस्य लुक् स्यात् । यूष्णः, यूपान् ॥ २७ ॥ अनो० । अन् ६-१ "लोकात्" "सोरुः” । अ ६-१ "टाङसो०" । "अतोऽति." "अवर्ण०"। "एदोतः०" । द्विपदमिदं सूत्रम् । अनेन अकारलोपे "रघुवर्णा०" पक्षे यूषान् । तृतीयैकवचने यूष्णा, यूषेण । तृतीयाद्विवचने यूषन भ्यामिति स्थिते कार्यान्तरमाह ॥ २७ ॥ सूत्रम् नानो नोऽनह्नः ॥ २८ ॥[सि० २१९१] पदान्ते नानो नस्य लुक् स्यात् स चेदहो न स्यात् । यूषभ्याम् । यूषाभ्याम् ॥ २८॥ नान्नो० । नामन् ६-१ "अनोऽस्य" इत्यल्लुपि “लोकात्" "सो रुः" । न ६-१ "लोकात्" "सो ३३ रुः" । न अहन् अनहन् तस्य अनहन् ६.१ "अनोऽस्य" "लोकात्" "सो रुः" "र: पदान्ते."। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy