________________
९५
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरान्ताः पुंल्लिङ्गाः । अकारान्ताः तथा "तृतीयान्तात् पूर्वावरं योगे" (सि० १।४।१३) तृतीयान्तात्परौ पूर्वावरौ योगे सम्बन्धे सति सर्वादी न स्याताम् । मासेन पूर्वाय मासपूर्वाय, दिनेनावराय दिनावराय, दिनेनावराः दिनावराः। तृतीयान्तादिति किम् ? प्रामात्पूर्वस्मै मासेन । योग इति किम् ? यास्यति चैत्रो मासेन, पूर्वस्मै दीयतां कम्बलः ॥ २२ ॥ सूत्रम्
तीयं डित्कार्ये वा ॥ २३ ॥ [सि० १।४।१४ ] तीयान्तं डेङसिडिषु सर्वादिर्वा स्यात् । द्वितीयसै द्वितीयाय । द्वितीयसात् द्वितीयात् । द्वितीयस्मिन् द्वितीये। तृतीयसै तृतीयाय । तृतीनसात् तृतीयात् । तृतीयस्मिन् तृतीये । शेषं देववत् ।
उभशब्दो नित्यं द्विवचनान्तः । उभौ २ । उभाभ्याम् ३ । उभयोः २ । उभयशब्दस्य द्विवचनाभावः । एवं च द्वित्वे उभशब्द एकत्वबहुत्वयोश्चोभयशब्दः प्रयोज्यः-उभयो मणिः उभये देवमनुष्याः । मासशब्दस्य 'विशेषः ॥ २३ ॥
तीयं० । तीय १-१ "अतः स्थमोऽम्” “समाना०" । ङितां कार्य ङित्कार्य तस्मिन् डिस्कार्य ७-१ "अवर्णस्ये.” । वा १-१ "अव्ययस्य" । त्रिपदमिदं सूत्रम् । तीयान्तमिति तीयप्रत्ययान्तौ द्वितीयतृतीयशब्दावित्यर्थः । ङसो ङित्वेऽपि सर्वादिकार्याभावादत्रानुपादानमित्याह-डेङसिङीनां कार्ये इति । अत्रैव सर्वादित्वं नान्यत्र तेनाक् न भवति, तथा च कप्प्रत्यये सति स्वार्थिकप्रत्ययान्तादग्रहणात् स्मैप्रभृतयो न भवन्ति कुत्सितोऽल्पोऽज्ञातो वा द्वितीयो द्वितीयकस्तस्मै द्वितीयकायेत्यादि भवतीति । द्वयोः ६-२१५ सङ्ख्यापूरणः १-१ "द्वेस्तीयः" इति द्वितीयः । त्रयाणां ६-३ सङ्ख्यापूरणः १-१ * 'नेस्तीयस्तृत्वं चास्ये'ति तृतीयः । द्वितीयस्मै द्वितीयायेति चतुर्थ्येकवचने, पञ्चम्येकवचने द्वितीयस्मात् द्वितीयात् , सप्तम्येकवचने द्वितीयस्मिन् द्वितीये । एवं तृतीयस्मै तृतीयाय । उभयो मणिरिति १-१ उभयं २-१ उभयेन ३-१ उभयस्मै ४-१ उभयस्मात् ५-१ उभयस्य ६-१ उभयस्मिन् ७-१ उभये १-३ उभयान २-३ उभयैः ३-३ उभयेभ्यः २ [४-३।५-३] उभयेषां ६-३ उभयेषु ७-३ इति। उभयशब्दस्य द्विवचनं नास्तीति २० कैयटः अस्तीति हरदत्तः इति सिद्धान्तकौमुद्याम् । तथा समासविषये उभशब्दस्य स्थाने उभयशब्दप्रयोग एव साधुः, यदाह कैयट:-उभादुदात्तो नित्यमिति नित्यग्रहणस्येदं प्रयोजनम् वृत्तिविषये उभशब्दप्रयोगो माभूत् , उभयशब्दस्यैव यथा स्यादित्युभयपुत्र इत्यादि भवतीति । पुनरपि अकारान्तशब्देषु विशेषमाह ॥ २३ ॥ सूत्रम्
मासनिशाऽसनस्य शसादौ लुग्वा ॥ २४ ॥ [सि० २।१।१००] २५ शसादौ स्यादावेषां लुग्वा स्यात् । षष्ठया निर्दिष्टेऽन्त्यस्य कार्यम्' । मासः मासान् मासा भासेन ॥ २४ ॥ ___ मास० । मासश्च निशा च आसनं च मासनिशासनं १-१ तस्य मासनिशासन ६.१ "टाङसो."। शस् १-१ आदिः १-१ यस्य स शसादिः तस्मिन् शसादि ७-१ "ङिडौं” “डित्यन्त्य०" । लुग् १-१ "दीर्घ०" । वा १-१ "अव्ययस्य" । चतुष्पदमिदं सूत्रम् । "अष्ठ्यान्त्यस्य” इति परिभाषा । मास-३० भ्याम् इति स्थिते अनेन अकारलोपे मास् भ्याम् इति स्थिते कार्यान्तरमाह-॥ २४ ॥ सूत्रम्
नाम सिदयूव्यञ्जने ॥ २५ ॥ [ सि० १११।२१] सिति प्रत्यये यवर्जव्यञ्जनादौ च परे नाम पदं स्यात् । अवर्णभोरिति रुलुकि माभ्याम् । ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org