________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुनवभ्यः पूर्वेभ्य इस्मास्मिन्वा ॥ १९ ॥ [ सि० ११४११६] पूर्वादिनवका जस्ङसिङीनाम् इसास्मिनो वा स्युः । पूर्वे पूर्वाः। पूर्वसात् पूर्वात् । पूर्वमिन् पूर्वे । नवकादिति किम् ? त्ये ॥ १९॥
नव० । नवन् ५-३ भ्यस् "नानो नो०" "सो रुः” “रः पदान्ते."। पूर्व ५-३ भ्यस् “एद्वहु." ५“सो रुः" । "रोर्यः" तस्य लुगसन्धिश्च । इच्च स्माच्च स्मिन् च इस्मास्मिन् १-१ "अनतो लुप्" । वा १-१ "अव्ययस्य" । चतुष्पदमिदं सूत्रम् ॥ त्यद् १-३ "आढेरः" "लुगस्या.” त्य “जस इ:" "अवर्णस्ये." ॥ १९ ॥ सूत्रम्
नेमा प्रथमचरमतयायाल्पकतिपयस्य वा ॥ २०॥ [सि० १।४।१०]
नेमादीनां शब्दानां तयायप्रत्ययान्तानां च जस इर्वा स्यात् । नेमे नेमाः। द्वितये द्वितयाः। १० त्रये त्रयाः । अत्र नेमशब्दस्य सर्वादित्वानित्यं प्राप्ते, शेषाणां चाप्राप्ते विकल्पः॥ २०॥
नेम० । नेमश्च अर्द्धश्च प्रथमश्च चरमश्च तयश्च अयश्च अल्पश्च कतिपयश्च नेमार्द्धप्रथमचरमतयायाल्पकतिपयं तस्य नेमार्द्ध० ६-१ "टाङसो०” । वा १-१ "अव्ययस्य" । द्विपदमिदं सूत्रम् । नेमादीनां शब्दानां षण्णामित्यर्थः, तयायप्रत्ययान्तानां चेति द्वितयद्वयादिशब्दानामित्यर्थः । द्वौ अवयवौ येषां
ते *"अवयवात्तयट्" (७।१।१५१) अवयववृत्तेः सङ्ख्यार्थात् स्यन्तात्षष्ठ्यर्थेऽवयविनि तयट् स्यात् । १५"ऐकायें” इति विभक्तिलुपि "उक्तार्थानामप्रयोगः” इति अवयवशब्दाप्रयोगे द्वितय १-३ अनेन विकल्पेन "जस इ:" द्वितये द्वितयाः, एवमेकतयत्रितयचतुष्टयपञ्चतयषट्तयसप्ततयाष्टतयनवतयदशतयविंशतितयशततयसहस्रतयलक्षतयप्रभृतयो ज्ञेयाः। *"द्वित्रिभ्यामयड़ा" (७।१।१५२ ) आभ्यामवयवार्थाभ्यां स्यन्ताभ्यां षष्ठ्यर्थेऽयड् वा स्यात् । द्वये द्वयाः । तयट् अयट् इत्यत्र टित्वात् स्त्रियां "अणजे
येकण्ननष्टिताम्" ( २।४।२०) इति ड्यां द्वितयी द्वयी इत्यादि भवति । शेषाणां चाप्राप्ते इति २० अर्द्धप्रथमचरमतयायाल्पकतिपयानां सर्वादित्वाभावादप्राप्ते विकल्प इति भावः ॥ २० ॥ सूत्रम्
द्वन्द्वे वा ॥ २१ ॥[सि० ११४।११] द्वन्द्वसमासे सर्वादीनां जस इर्वा स्यात् । पूर्वापरे पूर्वापराः ॥२१॥
द्वन्द्वे० । द्वन्द्व ७-१ अवर्णस्ये० । वा १-१ “अव्ययस्य" । द्विपदमिदं सूत्रम् । पूर्वे च परे च पूर्वापरे १-३ पक्षे पूर्वापराः ॥ २१ ॥ सूत्रम्२५
न सर्वादिः ॥ २२ ॥ [ सि० ११४१२] द्वन्द्वे सर्वादिः सर्वादिर्न स्यात् । पूर्वापराय । कतरकतमानाम् ॥ २२॥
न। न १-१ "अव्ययस्य" । सर्व आदिर्यस्य स सर्वादिः १-१ "सो रुः" "र: पदान्ते."। द्विपदमिदं सूत्रम् । पूर्वश्च अपरश्च पूर्वापरं तस्मै पूर्वापर ४-१ "डेङस्यो.” "अत आः स्यादौ०" द्वयो
मध्ये प्रकृष्टः कः “यत्तत्किमन्यात्" इति किम्शब्दात् डतरः कतरः १-१, बहूनां मध्ये प्रकृष्टाः के इति ३०"बहूनां प्रश्ने डतमश्च” इति किम्शब्दात् डतमः "डियन्त्यस्वरादेः” कतरश्च कतमश्च कतरकतम ६-३
"हस्खापश्च" "दी| नाम्य०"। दक्षिणोत्तरपूर्वाणामित्यत्र "सर्वादयोऽस्यादौ' इति पुंवद्भावो भवत्येव तत्र ३४ भूतपूर्वस्यापि सर्वादेम्रहणात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org