________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरान्ताः पुंल्लिङ्गाः । अकारान्ताः
९३
रघुवर्णानो ण एकपदे ऽनन्त्यस्याऽलचटतवर्गशसाऽन्तरे ॥ १५ ॥ [ सि०
२३।६३ ]
रेफषकारऋवर्णेभ्यः परस्य एभिः सहैकपदस्थस्याऽनन्त्यस्य नो णः स्यात् । लादीन्विना शेषव - र्णव्यवधानेऽपि भवति । सर्वेण । एकपद इति किम् ? अग्निर्नयति चर्मनासिकः । अनन्त्य इति किम् ? सर्वान् । लादिवर्जनं किम् ? विरलेन मूर्च्छनम् दृढेन तीर्थेन रशना रसना । सर्वाभ्याम् ५ सर्वैः ॥ १५ ॥
रश्च षू च ऋवर्णश्च रषृवर्णं तस्मात् रषूवर्ण ५-१ "ङङस्योर्यातौ” रषृवर्णात् । न् ६-१ “लोकात्” " सो रुः” । ण १-१ " सो रुः” । एकं १ १ च १-१ तत् १ १ पदं १ १ च १-१ “ पूर्वकालैक ०" इति कर्मधारये एकपद ७ - १ " अवर्णस्ये ० " । अन्ते भवः अन्त्यः "दिगादिदेहांशाद्यः” “अवर्णेवर्णस्य” इति अकारलोपे अन्त्यः न अन्त्यः अनन्त्यः ६-१ “टाङसो० ” । “घुटस्तृतीयः " तस्य द: " तृतीयस्य १० पञ्चमे " दस्य नः तथा "घोषवति" अवर्णस्ये ०" तथा "रोर्यः " तस्य स्वरे परे लुग्वा लुक्यसन्धिश्व, तथा “एदोतः पदान्तेऽस्य लुक्” चश्च टश्च तच चटताः चटतानां वर्गाः चटतवर्गाः शश्च सश्च शसौ लश्च चटतवर्गाश्च शसौ च लचटतवर्गशसाः न लचटतवर्गशसाः अलचटतवर्गशसाः अलचटतवर्गशसैः अन्तरम् अलचटतवर्गशसान्तरम् तस्मिन् अलचटतवर्गशसान्तर ७-१ "अवर्णस्ये ० " । षट्पदमिदं सूत्रम् । लादीन्विनेति - लादीनामष्टादशानां वर्णानां व्यवधाने न भवति शेषवर्णव्यवधाने तु भवति-यथा सर्वेण १५ इत्यत्र वकारैकारयोरन्तरेऽपि णत्वं सिद्धम्, चर्मनासिक इत्यत्र समासाश्रयेणैकपदत्वेऽपि 'प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं भवति' इति समासान्तर्वर्त्तिविभत्त्याश्रयणाद्भिन्नपदत्वे सति न णत्वम् ||१५|| सूत्रम् - सर्वादेः स्मैस्मातौ ॥ १६ ॥ [ सि० १४७ ]
सर्वादेरकारान्तस्य डेङस्योः स्मैस्मातौ स्याताम् । सर्वमै सर्वाभ्याम् सर्वेभ्यः । सर्वस्मात् सर्वा - भ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः ॥ १६ ॥
1
२०
1
सर्व आदिर्यस्य स सर्वादिस्तस्मात् सर्वादि ५-१ "हित्यदिति” “एदोद्भ्यां०” । स्मै च स्माच्च स्मैस्मातौ, मैस्मात् १ - २ " लोकात् ” । द्विपदमिदं सूत्रम् । सर्वेभ्य इत्यत्र “एद्बहुस्भोसि” इत्येत्वम् ।। १६ ।। सूत्रम् - अवर्णस्यामः साम् ॥ १७ ॥ [ सि० १।४।१५]
अवर्णान्तस्य सर्वादेरामः सामू स्यात् । ऐत्वषत्वे । सर्वेषाम् ॥ १७ ॥
अवर्ण ० । अवर्ण ६-१ “टाङसो ०" । आम् ६-१ “लोकात्” “सो रुः” “रः पदान्ते ०" । साम् १-१२५ “दीर्घङथा०”। त्रिपदमिदं सूत्रम् । एत्वषत्वे इति - "पुनरेषाम्" इत्यादिसूत्रनिर्देशात् ज्ञापकात्, सन्निपातलक्षणन्यायस्यानित्यत्वात् (च) “एद्रहुस्भोसि" इत्येत्वे "नाम्यन्तस्था ०" इति षत्वमित्यर्थः ॥ १७॥ सूत्रम् -
ङेः स्मिन् ॥ १८ ॥ [ सि० १४८ ]
सर्वादेरकारान्तस्य ङेः स्मिन् स्यात् । सर्वस्मिन् । सर्वयोः । सर्वेषु । हे सर्व, हे सर्वौ, हे सर्वे ॥ १८ ॥ ङे: ० ङि ६-१ “ङित्यदिति” “एदोद्भ्यां०” “रः पदान्ते० " । स्मिन् १-१ " दीर्घङया ०" । द्विप- ३० दमिदं सूत्रम् । सर्वयोरिति- "एहु ०" एत्वे "एदैतो ० " । सर्वेषु इति - "एहु ०" एत्वे "नाम्यन्तस्था० " इति षः । हे सर्वे इत्यत्र “जस इः " ॥ १८ ॥ सूत्रम् -
३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org