________________
९२
महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञहैमलघु
चात्मीये धने स्वाख्या प्रवर्त्तते" तत्र यदा स्वशब्द आत्मवाची आत्मीयवाची तदा सर्वादि:: - यथा स्वस्मै रोचते आत्मने रोचते इत्यर्थः, स्वस्मै पुत्राय आत्मीयायेत्यर्थः । यदा तु ज्ञातिधनवाची तदा न सर्वादि:यथा एते स्वा ज्ञातयः, स्वानां द्रव्याणामित्यर्थः । अन्तरं बहिर्योगोपसंव्यानयोरपुरीति - "मध्ये १ छिद्रे २ विशेषे च ३ व्यवधाने ४ बहिर्युते ५ । उपसंव्यान ६ इत्येवं षडर्थमन्तरं विदुः " ॥ १ ॥ बहिर्योग ५ इति बाह्येन सह योगो बहिर्भावेन सह योगो द्वयमप्युच्यते ततो बहिर्योगोपसंव्यानयोरन्तरशब्दः सर्वादि:यथा अन्तरस्मै गृहाय नगरबाह्य चाण्डालगृहयुक्ताय नगराभ्यन्तरगृहाय नगरवाह्याय चाण्डालगृहाय वा इत्यर्थः । उपसंव्यानं वस्त्रान्तरेण पिहितं परिधानवस्त्रम् - "अन्तरीयं निवसनमुपसंव्यानमित्यपि” इति वचनात्, तस्मिन्नभिधेये अन्तरशब्दः सर्वादिः - यथा अन्तरस्मै शाटकाय पटचतुष्टये परिहिते तृतीयाय चतुर्थाय वा अभ्यन्तरशाटकायेत्यर्थः । प्रथमद्वितीययोस्तु बहिर्भावेन बाह्येन च योगेन च सिद्धमेव १० सर्वादित्वम् । अपुरीति -पुरि तु वाच्यायां अन्तरशब्दः सर्वादिर्न - यथा अन्तरायै पुरे चण्डालादिबाह्यपुयै इत्यर्थः । बहिर्योगोपसंव्यानाभ्यामन्यत्र तु अन्तरशब्दो न सर्वादिः - ग्रामयोरन्तरादयमागतः मध्यादित्यर्थः । प्रयोगश्च ह्याश्रयमहाकाव्ये “चक्रुरस्यारयो वस्त्रायान्तरस्मै कृतस्पृहाः । अन्तरायाः पुरो याच्ञामन्तरस्माद् गृहादपि ॥ १ ॥ इत्यसंज्ञायां सर्वादिरिति यदा त्वेते संज्ञायां तदा न सर्वादयः - यथा सर्वो नाम कचित्तस्मै सर्वाय, गौणत्वेऽपि न सर्वादयः - यथा प्रियसर्वाय । तथैवैते सर्वादयः सर्वनाम - १५ संज्ञका भवन्ति यथोक्तम्- “सर्वादिः सर्वनामाख्यो न चेद्रोणोऽथवाऽभिधा । पूर्वादिश्च व्यवस्थायां समोsतुल्येऽन्तरोऽपुरि ॥१॥ परिधाने बहिर्योगे स्वोऽर्थज्ञात्यन्यवाच्यपि ” । उभशब्दस्य भवच्छब्दस्य द्विशब्दस्य त्वच्छब्दस्य युष्मदस्मदोश्च सर्वादिमध्ये ग्रहणं “सर्वादेः सर्वाः " ( २।२।११९ ) इति सूत्रेण हेत्वर्थैर्योगे सर्वविभक्त्यर्थम्-यथा उभौ हेतू २ उभाभ्यां हेतुभ्याम् ३ उभयोर्हेत्वोः २, द्वौ हेतू २ द्वाभ्यां हेतुभ्याम् ३ द्वयोर्हेत्वोः २, भवान् हेतु:, भवन्तं हेतुम्, भवता हेतुना इत्यादि, त्वत् हेतु:, त्वतं हेतुम् त्वता २० हेतुना, त्वते तवे इत्यादि । मतान्तरे च हेत्वर्थैर्योगे सर्वादेस्तृतीयाद्या एव सर्वा विभक्तयो भवन्ति । तथा एषां “त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽकू” [ सि० ७।३।२९] इत्यक्प्रत्ययार्थं च सर्वादिमध्ये ग्रहणम्-यथा कुत्सितौ अल्पौ अज्ञातौ वा उभौ उभकौ, एवं द्वकौ भवकान् भवकन्तौ भवकन्तः, त्वकत् इत्यादि । त्वच्छब्द: प्रायशूच्छन्दस्येव । एवं भवादृशः युष्मादृशः त्वादृशः अत्र " अन्यत्यदादेरा: " [ सि० ३।२।१५२ ] इत्यात्वम् । भवान् पुत्रोऽस्य भवत्पुत्रः अत्र “विशेषणं सर्वादिसङ्घयं बहुव्रीहौ " २५ [ ३|१|१५० ] इति पूर्वनिपातः । भवतोऽपत्यं भावतायनिः अत्र त्यदादित्वात् "अवृद्धाहोर्नवा " ( ६|१|११० ) इत्यायनि । भवत्याः पुत्रो भवत्पुत्रः अत्र “सर्वादयोऽस्यादौ " [ सि० ३।२।६१] इति पुंवद्भावः । भवन्तमश्चतीति किपि भवद्र्य अत्र "सर्वादिविष्वग्देवाडुद्रिः क्यखौ " ( ३।२।१२२ ) इति डद्रिः। एवमन्येष्वपि यथायोगं सर्वादिप्रयोजनं ज्ञेयम् । भवतु इत्यत्र उकारो ङथर्थों नामार्थो दीर्घार्थश्च भवती भवान् । तथा अस्मिन् सर्वादिगणे त्यदादिर्द्विशब्दपर्यन्तोऽष्टकस्त्यदादिः, पञ्चकोऽन्यादिश्चान्तर्गणो ३० ज्ञेयः । ऐते सर्वादयस्त्रिलिङ्गा यथा सर्वे पुरुषाः सर्वाः स्त्रियः सर्वाणि कुलानि इत्यादि ॥ १३ ॥ सूत्रम् -
जस इः ॥ १४ ॥ [ सि० १/४/९]
सर्वादेरकारान्तस्य जस इः स्यात् । सर्वे । सर्वम् सर्वौ सर्वान् । सर्वेन इति जाते ॥ १४ ॥
जस् ६- १ " लोकात् ” “सो रुः” । इ १-१ “सो रुः " "रः पदान्ते० " । मध्ये "रोर्यः " तस्य स्वरे परे लुग्वा लुक्यसन्धिश्च । द्विपदमिदं सूत्रम् । वृत्तिः स्पष्टा । अत्र " षष्ठ्यन्तस्य " इति प्राप्ते ३५*“प्रत्ययस्य” प्रत्ययस्य स्थाने विधीयमान आदेशः सर्वस्य स्यादिति परिभाषा ॥ १४ ॥ सूत्रम् -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org