________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरान्ताः पुंल्लिकाः । अकारान्ताः इत्यत्र सस्य षत्वं न स्यात् । कृतस्येति किम् ? विसम्-अन "उणादयोऽव्युत्पन्नानि नामानि" इति वचनात् 'विसच् प्रेरणे' विस्यतीति के निष्पन्नत्वाद्वा सकारस्य न सूत्रकृतत्वमिति न षत्वम् ॥ १२ ॥ सूत्रम्
अदेतः स्यमो क् ॥ १३ ॥ [ सि० १४४४] अकारान्तादेकारान्ताच सेस्तदादेशस्याऽमश्च सम्बोधने लुक् स्यात् । सम्बोधनाभिव्यक्तये हेशब्दस्य प्राक्प्रयोगः । हे देव । हे देवौ । हे देवाः । एवं घटपटादयोऽकारान्ताः पुंल्लिङ्गाः। ५
सर्वादीनां तु विशेष:-सर्व विश्व उभ उभयट् अन्य अन्यतर इतर इतर डतम त्व त्वत् नेम। समसिमौ सर्वार्थों । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् भवतु असद् किम् । इत्यसंज्ञायां सर्वादिः । एते सर्वादयस्त्रिलिङ्गाः । तत्र पुंल्लिङ्गे रूपाण्युच्यन्ते । सर्वः । सौं ॥१३॥
१० अदे० । अश्व एच्च अदेत् तस्मात् ५-१ "लोकात्" "सो रुः" "र: पदान्ते." । सिश्च अम् च स्यमौ तयोः स्यम् ६-२ । लुक् १-१ दीर्घड्या."त्रिपदमिदं सूत्रम् । तदादेशस्य अमश्चेति नपुंसकलिङ्गे यः सेरादेशोऽम् तस्यापि सम्बोधने लुक् स्यात् । यथा हे कुल १-१ "अतः स्यमोऽम्” इति सेरम् तस्य अनेन लुक् । एवं सर्वेऽप्यकारान्ताः पुंल्लिङ्गाः। प्रयोगश्चैवम्-“देवः स्तात्सुखदोऽस्तु वो जिनपतिर्देवं भजे चेतसा, देवेनेयमलङ्कृता वसुमती, देवाय तुभ्यं नमः । देवाहूरमियाय दोषपटली, १५ देवस्य भृत्योऽस्म्यहं, देवे ज्ञानमनुत्तरं विजयते हे देव देहि श्रियः” ॥ १॥
सर्वादीनां तु विशेषः-कथ्यते इति शेषः । के ते सर्वादय इत्याह-सर्व विश्व इत्यादि-पञ्चत्रिंशत्परिमितः सर्वादिर्गण इति । अत्र विश्वशब्दस्य सकलार्थवाचकत्वे सर्वादित्वं न तु जगद्वाचकत्वे । उभशब्दो व्यर्थे । उभयदशब्दो ब्यवयवार्थे, उभयट् इत्यत्र टकार इत् स्त्रीलिङ्गे ड्यर्थः ततश्च "अणयेकण्ननटिताम्" इति इयां उभयी प्रकृतिः । अन्याऽन्यतरे तरे अन्यदर्थे । डतरडतमौ प्रत्ययौ २० ततो डतरडतमप्रत्ययान्तौ शब्दौ सर्वादी । "प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम्” इति न्यायात् डतरडतमप्रत्ययान्तग्रहणे सिद्धेऽपि डतरडतमग्रहणमन्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वनिषेधार्थ तेन सर्वतमायेत्यत्र न सर्वादित्वम् , अत्र “प्रकृष्टे तमप्” इति स्वार्थिकस्तमप् । डतरग्रहणेनैव सिद्धे अन्यतरग्रहणं डतमप्रत्ययान्तस्य अन्यशब्दस्य सर्वादित्वनिषेधार्थ यथा अन्यतमाय । एके वाहुः-'नायं डतरप्रत्ययान्तोऽन्यतरशब्दः किन्त्वव्युत्पन्नस्तरोत्तरपदस्तरबन्तो वा, तन्मते डतमान्तस्याप्यन्यशब्दस्य २५ सर्वादित्वम्-अन्यतमस्मिन् । त्वो अन्यदर्थे । त्वत् हेत्वर्थे, समुच्चयार्थे इति केचित् । नेम खण्डार्थे "खण्डेऽर्धशकले भित्तं नेमशकलदलानि च" इति वचनात् । समसिमौ सर्वार्थाविति-यदा तु समशब्दोऽविषमार्थस्तुल्यार्थश्च तदा न सर्वादिः यथा 'समे भूतले प्रासादः' 'राज्ञः समाः पण्डिताः' । पूर्वादयः सप्त व्यवस्थायां वाच्यायां सर्वादयः । स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्था स्वस्याभिधेयो दिग्देशकालस्वभावस्तमपेक्षते तेन वाऽपेक्ष्यते इति स्वाभिधेयापेक्ष ईदृशो योऽवधिर्मर्यादानियमोऽवश्यं-३० भावादभ्रंशो व्यवस्था उच्यते, यथा अयमस्मात्पूर्व इति पूर्वादयो यदा दिग्देशकालवाचिनस्तदा सर्वादयःयथा पूर्वा दिन पूर्वो देशः पूर्वः कालः । परे त्वाहुरित्यादावपि परत्वस्यापेक्षिकत्वादर्थतो व्यवस्थावाचि. त्वमस्त्येव, एवं दक्षिणशब्दो यदा दिग्देशवाची तदा सर्वादिः। यदा तु दक्षिणशब्दः शृङ्गारिनायकवाची प्रवीणवाची च, दक्षिणाशब्दश्च यज्ञान्तदानवाची तदा न सर्वादिः । उत्तरशब्दोऽपि प्रत्युत्तरवाची न सर्वादिः । अधरस्य हीनार्थत्वे सर्वादित्वं नत्वोष्ठवाचकत्वे । खमज्ञातिधनाख्यायामिति-"ज्ञातावात्मनि ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org