________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुयथा देवानां मुनीनां साधूनां पितॄणां होतॄणाम् । आषन्तात् यथा मालानाम् । स्त्रीदूदन्तेभ्यो यथा नदीनां वधूनामिति ॥ १० ॥
दी| नाम्यतिसृचतमृरः ॥ ११ ॥ [ सि० ११४४७] तिस-चतसृ-परान्तवर्जसमानस्य नामि परे दीर्घः स्यात् । देवानाम् । सप्तम्येकवचने देवे । ५द्विवचने देवयोः । बहुवचने "एबहुस्भोसि" इत्येत्वे देवे-सु इति स्थिते ॥११॥
दीर्घो० । दीर्घ १-१ “सो रुः" । नाम् ७-१ "लोकात्" । तिसा च चतसा च षु च र् च तिसचतसृष्र् न तिसृचतसृष्ट अतिसृचतसृष्र् तस्य अतिसृचतसृष्र् ६-१ "लोकात्" "सो रुः" "रः पदान्ते.” । मध्ये "घोषवति" "अवर्णस्ये.” "इवर्णादे.” । त्रिपदमिदं सूत्रम् । तिस्रादिवर्जनात् तिसृणां चतसृणां षण्णां चतुर्णामित्यादिषु दीर्घो न भवतीति । ननु सप्तम्या निर्दिष्टे पूर्वस्य तच्चानन्तर१० स्याव्यवहितस्य स्यादिति षण्णां चतुर्णामित्यत्र षकाररेफाभ्यां समानस्य व्यवधानादीर्घप्राप्तेरभावात् किं
प्रतिषेधेनेत्यत्रोच्यते-अध्र इति प्रतिषेधेन 'येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्' इति ज्ञाप्यते, ततश्च पञ्चानां सप्तानामित्यादौ नकारेण व्यवहितेऽपि नामि दीर्घः स्यादिति ॥ ११ ॥
नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्नाऽन्तरेऽपि ॥ १२॥ [सि० २२३६१५] १५ नाम्यन्तस्थाकवर्गेभ्यः परस्य पदमध्ये वर्तमानस्य केनचित् सूत्रेण कृतस्य सस्य षः स्यात् । शिटा नकारेण च व्यवधानेऽपि स्यात् । देवेषु ॥ १२॥
नाम्य० । नामी च अन्तस्थाश्च कवर्गश्च नाम्यन्तस्थाकवर्ग तस्मात् नाम्यन्तस्थाकवर्ग ५-१ "डेङस्यो."। पदस्य अन्तर्मध्ये पदान्तः ७.१ "अव्ययस्य" । कृत ६.१ "टाङसो०"। स् ६-१ "लोकात्" "सोरुः"
"रः पदान्ते." । शिट् च नश्च शिड्नौ, शिड्नाभ्यामन्तरं शिड्नान्तर ७-१ । अपि १-१ "अव्ययस्य"। २० "एदोतः" । पञ्चपदमिदं सूत्रम् । नाम्यन्तस्थाकवर्गभ्य इति द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभि
सम्बध्यते इति प्रत्येकं पञ्चमी योज्यते। क्रमेणोदाहरणानि-नामिनः-आशिषा नदीषु वायुषु वधूषु पितृषु देवेषु गोषु नौषु । अन्तस्थाः-गीर्षु हल्छु । कवर्ग-शक्ष्यति क्रुषु । शिड्नान्तरेऽपि-सर्पिष्षुसर्पिस् सु इति स्थिते "नामसिद०" इति पदसंज्ञायां "सो रुः" "शषसे शषसं वा” इति रोः सत्वे
सव्यवधानेऽपि सुपः षत्वे ततः "सस्य शषौ” इति पूर्वसस्यापि षत्वम् , पक्षे सर्पिःषु अत्र हि "रः २५ पदान्ते.” इति विसर्गे कृते तस्य शिट्त्वात् एतब्यवधानेऽपि षत्वम् , एवं यजूंषि इत्यत्र "शिड्हेऽनुस्वारः" इत्यनुस्वारे कृते षत्वम् । नकारस्यावश्यमनुस्वारभवनात् शिड्महणेनैव सिद्धे नकारोपादानं नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थ तेन मकारानुस्वारेण न स्याद्यथा पुंसु । [शिटा नकारेण चान्तरे इति] प्रत्येकं वाक्यसमाप्तेः शिड्नकारयोर्द्वयोर्व्यवधाने षत्वं न भवति-णिसुकि चुम्बने' निस्से । कृतस्येति
सूत्रविधानेन विहितस्य तत्सम्बन्धिनोऽपि-तत्र कृतस्य यथा एषा, कृतसम्बन्धिनो यथा देवेषु । ३० पदान्तरिति किम् ? दधिसेक, अत्र हि *"वृत्त्यन्तोऽसषे” [सि० १।१।२५] परार्थाभिधायि
समासादिवृत्तिस्तस्या अन्तोऽवसानं पदं न स्यात् । यथा बहुदण्डिनौ बहवो दण्डिनो ययोस्तौ इत्यब्रान्तर्वतिविभक्त्याश्रयेण प्राप्तं पदत्वमनेन निषिध्यते ततो"नानो नोऽनह्नः" इति नलोपो न भवति । ३३ असष इति किम् ? सस्य तु षत्वे पदमेवेति वचनात् सेक इत्यस्य पदसंज्ञायां पदादित्वात् दधिसेक्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org