________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरान्ताः पुंल्लिकाः । अकारान्ताः *संहितेति श्लोकः-यत्र पद-विभक्त्यन्तम् , एकपदे नित्यमविरामो भवति ततश्च नित्यं संहिता सन्धिर्भवति यथा-देवेन, भवति । धातूपसर्गयोर्यथा उपैति । समासे यथा परमेश्वरः । वाक्ये तु सा विवक्षामपेक्षते इति विरामविवक्षया न सन्धिरविरामविवक्षया तु सन्धिरिति ।
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ खोपज्ञसत्प्रक्रियावृत्तौ बन्धुर एव (एष ?) पूर्तिमभजद्रेफस्य सन्धिः सुखम् ॥ १ ॥ ठाननाpaDarpan
अथ विभक्तिर्विभाव्यते
BIGQHOJa
ROOPPR
orOOLTDEOHOROG0foad
अथेति सन्धिप्रकरणकथनानन्तरं विभक्तिप्रकरणं निरूप्यते-सूत्रम्
अधातुविभक्तिवाक्यमर्थवन्नाम ॥१॥ [ सि० १।१।२७ ] धातुविभक्त्यन्तवाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात् । ततः स्यादयः सप्त विभक्तयो योज्यन्ते ॥१
अधातु० । धातुश्च विभक्तिश्च वाक्यं च धातुविभक्तिवाक्यं, न धातुविभक्तिवाक्यं अधातुविभक्तिवाक्यं, अधातुविभक्तिवाक्य १-१ "अतःस्य०" समाना० । अर्थोऽस्यास्तीति १-१ "तदस्यास्त्य.” इति मतुः "मावर्णान्तो.” मो वः अर्थवत् १-१ "अनतो लुप्" । नामन् १-१ "अनतो.” “नाम्नो नो०”।१५ त्रिपदमिदं सूत्रम् । धात्वादिवर्जनात् 'भू सत्तायाम्' भू इत्यत्र धातुत्वात् , 'देवस्य' इत्यत्र विभक्त्यन्तत्वात् , 'चैत्रः पठति' इत्यत्र वाक्यत्वात् नामसंज्ञा न स्यात् । नामसंज्ञायां चैषां स्याद्युत्पत्तिः प्रसज्यते । विभक्तिरिति केवलाया विभक्तरर्थवत्त्वाभावादप्रयोगाच्च विभक्त्यन्तं गृह्यते । वाक्यं प्राग्लक्षितमेव । अधातुविभक्त्यन्तवाक्यं नाम इत्युक्ते मन्याद्युम्चारितानां निरर्थकशब्दानां हस्ततालिकाद्यव्यक्तशब्दानां च नामत्वं प्रसज्यते इति तद्वारणाय अर्थवच्छब्दरूपमिति । अर्थवच्छब्दरूपं नाम इत्युक्ते धात्वादीनामपि नामसंज्ञा स्यादिति २० तनिषेधाय अधात्विति । नामसंज्ञायाः फलमाह-तत इत्यादि-सप्तविभक्तयो योज्यन्ते "नाम्नः प्रथमैकद्विवहौ" "कर्मणि" इत्यादिसूत्रैः प्राप्नुवन्तीत्यर्थः । तानि सूत्राणि च कारकाधिकारे वक्ष्यन्ते ॥ १ ॥
स्यौजसित्यादि ॥२॥ सि औ जस् इति प्रथमा । अम् औ शस् इति द्वितीया । टा भ्यां भिस् इति तृतीया । डे भ्यां भ्यस् इति चतुर्थी । उसि भ्यां भ्यस् इति पञ्चमी । ङस् ओस् आम् इति षष्ठी । डि ओस् सुप् २५ इति सप्तमी । तत्राप्यर्थैकत्वविवक्षायां प्रथमैकवचनं सिः । इकार उच्चारणार्थ इत् । देवस् इति स्थिते । “सो रुः" "रः पदान्ते विसर्गस्तयोः" देवः । द्वित्वे-देव औ “ऐदौत्सन्ध्यक्षरैः" इति देवौ । बहुत्वे देव जस् । जैकारो विशेषणार्थः ॥२॥
स्यौजसित्यादि । अत्र च महाव्याकरणसूत्रं सूचितं तच्चेदम्-"स्यौजसमौशस्टाभ्यांभिसःभ्यांभ्यसूङसिभ्यांभ्यसूङसूओसाम्योस्सुपां त्रयी त्रयी प्रथमादिः” (सि० १॥१॥ १७) अयं भावः-एषु प्रथमवचनत्रयं प्रथमासंज्ञं भवति [द्वितीयवचनत्रयं] द्वितीयासंज्ञमित्यादि ।३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org