________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअत्र च घालबोधाय प्रक्रियाकारः सूत्रतात्पर्यमेव स्पष्टं लिखति-सि औ जस् इति प्रथमा इत्यादि। इकार इत् इति “सौ नवेतौ” इत्यादौ, कारो विशेषणार्थ इति "जस इ:" इत्यादौ विशेषणार्थः ॥२॥ सूत्रम्
अत आः स्यादौ जस्भ्याम्ये ॥३॥[सि० १४१] स्यादौ जसि भ्यामि ये च परे अत आः स्यात् । ततः "समानानां तेन दीर्घः" इति दीर्घ देवाः । ५ "अदी| दीर्घतां याति नास्ति दीर्घस्य दीर्घता । पूर्वदीर्घखरं दृष्ट्वा परलोपो विधीयते" ॥१॥
यद्वा "पर्जन्यवल्लक्षणप्रवृत्तिः" इति दीर्घस्यापि दीर्घत्वम् । द्वितीयैकवचने देव अम् ॥३॥
अत आः । अत् ६-१ "लोकात्" "सो रुः" आ १-१ “सो रुः" "र: पदान्ते.” “रोर्यः” तस्य लुगसन्धिश्च । स्यादि ७-१ "ण्डिौँ” “डित्यं०" जस् च भ्यां च यश्च जस्भ्यांयं तस्मिन् जस्भ्यांये
७-१ "अवर्ण०” । चतुष्पदमिदं सूत्रम् । “समानानां तेन.” इति दीर्घ सिद्धेऽत्र जस्ग्रहणं "लुगस्या१० देत्यऽपदे” इत्यकारलुगबाधनार्थम् । ननु अनेन अकारस्य आत्वे देवा अस् इति जाते पिष्टपेषणन्यायेन
"समानानां तेन.” इति सूत्रेण किं करिष्यते इत्याह-अदी| दीर्घतां यातीत्यादि । नन्वत्र समानानां तेनेति सूत्रं व्यर्थ कथं प्रवर्त्तते इत्यस्वरसादाह-यद्वेति-यथा पर्जन्यो मेघः फलाभावेऽपि समुद्रादौ वर्षत्येव तथा सूत्रमपि फलाभावेऽपि प्रवर्तते इति दीघे सत्यपि पुनरपि समानानां तेनेति दीर्घः स्यादिति
भावः । स्यादौ जसीति किम् ? 'जसूच् क्षेपणे' बाणान् जस्यतीति किए बाणजः अस्मिन् जसि परे १५ दीर्घो न स्यादित्यर्थः ॥ ३ ॥ सूत्रम्
समानादमोऽतः॥४॥[सि० ४।४६] समानात्परस्यामोऽकारस्य लुक् स्यात् । देवम् , देवौ । बहुवचने देव शस् । शकारः प्राग्वत् ॥४॥
समाना० । समान ५-१ "डेडस्यो०" "समानानां०" । अम् ६-१ "लोकात्" "सो रुः”। अत् ६-१ "लोकात्" "सो रुः" "रः पदान्ते." । मध्ये "धुटस्तृतीयः” इति तस्य दः, "अतोऽति." २० "अवर्णस्ये.” 'एदोतः०" । त्रिपदमिदं सूत्रम् । शकारः प्राग्वदिति “शसोऽता सश्च नः पुंसि" इत्यादौ विशेषणार्थः ॥ ४ ॥ सूत्रम्
शसोऽता सश्च नः पुंसि ॥ ५॥ [ सि० ११४४९ ] शससम्बन्धिनाऽकारेण सह पूर्वसमानस्य दीर्घः स्यात् । तत्सन्नियोगे च पुंलिङ्गे शसः सो नः स्यात् । देवान् । तृतीयैकवचने देव टा, टकार इत् ॥५॥ २५ शसो० । शस् ६-१ "लोकात्" "सो रुः", अत् ३-१ "लोकात्" "अतोऽति." "अवर्णस्ये."
"एदोतः०"। स् ६-१ "लोकात्" "सो रुः"। च १-१ "अव्ययस्य" "चटते." रस्य शः । न १-२ "सो रुः" "रः पदान्ते.” । पुम्स् ७-१ "शिड्हेऽनुवारः” । षट्पदमिदं सूत्रम् । अकारेण सहेति द्वयोः स्थाने एको दीर्घः स्यात् । शसोऽकारस्य स्थानित्वेऽपि प्रधानस्थान्यासन्नो दीर्घः स्यादिति ।
चीयते धान्यादिरक्षार्थ "चिमे चडचौ” (उणा १२२) इति डच्चे चश्चा तृणादिमयः पुरुषः, ३० खरकुटीव कुटी खरकुटी एवं यष्टिः, अभेदोपचारेण हि शब्दोऽर्थान्तरे वर्तमानः शब्दशक्तिस्वाभा
व्यात् स्वलिङ्गमत्यजन्नेव वर्तते इति चश्चादयः शब्दाः पुरुषे वर्तमाना अपि स्त्रीत्वं न त्यजन्तीति ३२ नो न भवति चञ्चाः खरकुटीः यष्टीः पुरुषान् पश्य । यदा तु शब्दस्य पुंल्लिङ्गत्वं तदा वस्तुनः स्त्रीत्वे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org