________________
१०
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे रेफसन्धिः
रो लुप्यरि ॥ १२॥ [सि० २११७५] रेफवर्जिते वर्णे परे पदान्तस्थस्याहो नस्य सादिलपि सत्यां : स्यात् । अहरधीते । अहगणः ॥ १२॥ 'लुकि तु
रो०। ६-१ "लोकात्" "सोरुः" "अवर्णस्ये."। लुप् ७-१ "लोकात्"। नअर् ७-१ "लोकात्" "इवर्णादे०" । त्रिपदमिदं सूत्रम् । अहन् २-१ "कालाध्वनोाप्तौ” इति द्वितीया "अनतो लुप्" इत्यम्-५ लुप् ; अधिपूर्वक 'इकु अध्ययने अधीते ततश्च अनेन रः। अहन् ६-३ "अनोऽस्य” इत्यकारलोपे अह्नाम् , गण १-१ "सो रुः" "रः पदान्ते.” । “षष्ठ्ययत्नाच्छेषे” इति षष्ठीतत्पुरुषे "ऐकायें" इति विभक्तिलुपि निमित्ताभावे नैमित्तिकस्याप्यभाव इति अकारलोपनिवृत्तौ अहन् गण इति स्थिते अनेन रः ॥ १२ ॥+यत्र तु लुप् न भवति तत्र सूत्रान्तरमाह
अहः ॥१३॥[सि०२।१।७४] अहन्सम्बन्धिनो नस्य पदान्ते रुः स्यात् । दीर्घाहो निदाघ । अरीति किम् ? अहोरूपम् ॥१३॥
अह्नः । अहन् ६-१ "अनोऽस्य" "लोकात्” “सो रुः" "रः पदान्ते.” । एकपदमिदं सूत्रम् । दीर्घानि अहानि यस्मिन् स दीर्घाहा निदाघः तस्य सम्बोधनं हे दीर्घाहन् “दीर्घडया०" इति सिलुक् "नामध्ये” इति नलोपाभावः, निदाघ इत्यत्र "अदेतः स्यमोलुंक्" इति सिलुक् । अत्र लुबभावात् नस्य रुः ततश्च "घोषवति" इत्युत्वमिति रुरेफयोर्विशेष: हे दीर्घाहो निदाघ । एवं दीर्घाहा निदाघ इति १५ अत्रासदधिकारविहितत्वेन रुत्वस्यासत्त्वानोऽन्तलक्षणो दीर्घः स्यात् । प्रशस्तं अहः इति वाक्ये अहन् १-१ "त्यादेश्च प्रशस्ते रूपप्” इति रूपप्प्रत्ययः, "ऐकायें” इति विभक्तिलुपि अहन् रूप इति स्थिते अत्र लुपि सत्यामपि “रो लुप्यरि" इत्यत्र रेफवर्जनात् रो न भवति किन्तु "अह्नः" इति रुरेव । अन्ये तु रात्रिरूपरथन्तरेष्वेव [रथन्तरमिति रथं रथस्थं तरत्यतिक्रामति "भूजि०" इति खः] रेफादिषु परेषु रेफप्रतिषेधमिच्छन्ति ॥ १३ ॥ सूत्रम् ।
वाऽहर्पत्यादयः॥ १४ ॥ [ सि० १॥३॥५८] एषु 'विसर्गाद्यभावो वा स्यात् । अहर्पतिः अह पतिः अहःपतिः । गीतिः गी पतिः गीः पतिः ॥१४॥
वाऽह० । १-१ "अव्ययस्य" अहर्पतिरादिर्येषां ते अहर्पत्यादयः १-३ “जस्येदोत्" "एदै." "लोकात्" "सो रुः" "रः पदान्ते.” । द्विपदमिदं सूत्रम् । अह्नः ६-१ पतिः १-१ अनेन विकल्पेन विसर्गाभावे २५ अहर्पतिः पक्षे "र: पदान्ते.” इति विसर्गे "रः कखपफयोः०” इति पत्वे च रूपत्रयम् । पक्षे "अदीर्घाद्विरामै०" इति विकल्पेन विसर्गद्वित्वे :पद्वित्वे पञ्चत्रपाणि एकपानि । “हादईस्वरस्यः" इति "शिटः प्रथमद्वितीयस्य" इति च पाक्षिके पद्वित्वे दश । अदीर्घाद्विरामेति अन्त्यविसर्गस्य द्वित्वे विंशतिरिति ॥ गिरां ६-३ पतिः १-१ गिर पतिरिति स्थिते “पदान्ते” इति दीर्घ अनेन विसर्गाभावे गीपतिः पक्षे विसर्गः (प इति रूपत्रयं शेषं प्राग्वत् । 'विसर्गाद्यभाव इत्यत्र आदिशब्दात् कचित् ३० "घोषवति" इत्युत्वमपि निषिध्यते यथा प्रगतं प्रकृष्टं वा चेतो यस्य सः प्रचेताः अत्र सम्बोधनं क्रियते हे प्रचेतः प्रचेतस् १-१ राजन् १-१ "आमत्र्ये” इति उभयत्र सिः “दीर्घड्या०" सिलुक "सो रुः" इति रुत्वं अनेन रोः उत्वाभावे "रो रे लुग्०” इति दीर्घः हे प्रचेता राजन् पक्षे उत्वे हे प्रचेतो राजन् ॥ १४ ॥ सूत्रम्
२०
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org