________________
८४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुववर्णात्वनुभि वा” ( १।३।२५) अवर्णभोभगोअधोभ्यः परयोः पदान्तस्थयोर्वययोः स्थानेऽस्पष्टावीषत्स्पष्टतरौ वयौ स्याताम् । अवर्णात्तु परयोोरुन्वर्जे स्वरेऽस्पष्टौ वा भवतः । पटवु वृक्षावु असावु कयु देवायु भोयत्र भोयु भगोयत्र भगोयु अघोयत्र अघोयु । अवर्णात्त्वनुनि वा, पटविह पटइह असाविन्दुः असा इन्दुः तयिह त इह तस्मायिदं तस्मा इदं कयिह क इह देवायाहुः देवा आहुः । ५अनुनीति किम् ? उनि अस्पष्टावेव यथा स्याताम् तथा चोदाहृतम् ॥ ८ ॥ सूत्रम्
अवर्णभोभगोऽघोलुंगसन्धिः ॥ ९॥ [सि० १।३।२२] अवर्णाद् भो इत्यादिभ्यश्च रो?षवति परे लुक् स्यात्, स च न सन्धिहेतुः [ असन्धिः इत्युत्तरार्थम्-सि० १।३।२३-२४ ] देवा यान्ति । भो यासि । भगो हस । अघो वद ॥९॥
__ अवर्ण० । अवर्णश्च भोश्च भगोश्व अघोश्च अवर्णभोभगोऽघो ५-१ "एदोद्भ्यां ङसिङसो रः" । लुक् १०१-१ "दीर्घ०" "धुटस्तृतीयः" । असन्धिः असन्धि १-१ "सो रुः" "र: पदान्ते."। भो भगो अघो एते त्रयः प्लुतसकारा भोस् भगोस् अघोस् इत्येषामनुकरणशब्दा ज्ञेयाः। त्रिपदमिदं सूत्रम् । भोस् इत्यादि आमश्रणे सकारान्ता अव्यया इति बहुसम्मतम् । केचित्तु भवद्भगवदघवतां सम्बोधने सौ परतो वशब्दस्योत्वं तकारस्य च रुत्वं कृत्वा एतानि रूपाणीच्छन्ति तेषां द्विवचनबहुवचनयोः स्त्रियां च न सिद्ध्यति, भोः ब्राह्मणौ भोः ब्राह्मणाः भोः ब्राह्मणि इत्यादि ॥ ९ ॥ सूत्रम्
घोषवति ॥ १०॥ [सि० १।३।२१ ] ___ अतः परस्य रो?षवति उ: स्यात् । धर्मो जयति । "सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् । पेरेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥१॥"
रोरित्येव-प्रातर्याति ॥ १०॥ घोष० घोषोऽस्यास्तीति घोषवान् "तदस्यास्त्यस्मिन्निति मतुः" "मावर्णान्तो०” मो वः घोषवत् २०७-१ "लोकात्" । एकपदमिदं सूत्रम् । ननु धर्मो जयतीत्यत्र अवर्णभोरिति रुलुक् कथं न प्राप्नोतीत्य
त्राह-सामान्यशास्त्रत इत्यादि-तत्र "बहुव्यापकं सामान्यं अल्पव्यापको विशेषः", अवर्णभोरिति सूत्रमवर्णात्प्राप्नोति इति सामान्यं घोषवतीति च अकारादेव प्राप्नोतीति विशेषस्ततश्च अवर्णभोरिति सूत्रं बाधित्वा घोषवतीति प्रवर्तते इति भावः । यद्वा अवर्णभोरिति सूत्रं देवा यान्तीत्यादौ सावकाशं घोष
वतीति सूत्रं तु यदि अवर्णभोरिति सूत्रेण बाध्यते तदा निरवकाशं स्यात्ततो "निरवकाशं सावकाशात् २५ बलीय” इति घोषवतीत्येव प्रवर्त्तते । पैरेणेत्युत्तरार्द्ध तु प्रसङ्गादुक्तं नात्रोपयोगीति ॥ १० ॥
___ रो रे लुग् दीर्घश्चादिदुतः ॥ ११॥ [सि० ३६४१] रस्य रेफे परे लुक् स्यात्तत्सनियोगे च पूर्वस्थानां अ इ उ इत्येषां दीर्घः । मुनी राजते, साधू राजते, पुना रमते । अकारात्परस्य रोस्तु घोषवतीत्युकारः-जिनो राजते ॥ ११ ॥
रो० । र ६-१ "लोकात्” “सो रुः”। “घोषवति" रो रुः "अवर्णस्ये”। र ७-१ "अवर्णस्ये." । ३०लुग् १-१ "दीर्घ०" । दीर्घ १-१ “सो रुः” । च १-१ "अव्यय०" अञ्च इच्च उच्च अदिदुत् ६-१
"लोकात्" "सो रुः" "र: पदान्ते."। "चटते.” "समानानां०"। षट्पदमिदं सूत्रम् । पुना रमते इतिनिरनुबन्धरेफस्य लोपे इदमुदाहरणम् । ननु 'जिनो राजते इत्यत्र “सर्वेभ्यो लोपः" इति लोपस्य बलीय
स्त्वात् परत्वाद्वाऽनेन रो लुकि दीर्घ च जिना राजते इति कथं न भवतीत्यत्रोच्यते-अनान्वित्यधिकारा३४त्पूर्वमेव घोषवतीति रोरुत्वे एतत्सूत्राप्रवृत्तिरिति ॥ ११ ॥ सूत्रम्----
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org