________________
८३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे रेफसन्धिः प्येवम्-क: प्साति । "व्यत्यये लुग्या" [सि० १।३३५६ ] अघोषपरे शिटि परे रो लुग्वाचक्षुश्श्योतति चक्षुःश्योतति ॥ ६॥ __ ख्याग् ७-१ "लोकात्" । एकपदमिदं सूत्रम् । 'ख्यांक प्रकथने ख्यायते स्म "तक्तवतू" ख्यात १-१ "सो रुः" "रः पदान्ते."। 'शिदपरे इत्यादि वार्तिकं स्पष्टम् । 'अदं प्सांक् भक्षणे' वर्तमानातिव प्साति । चक्षुस् १-१ "अनतो लुप्" "सो रुः" 'स्च्युत भरणे' स्च्युत् "सस्य शसौं” श्युत् वर्त्त-५ मानातिव् "कर्त०" "लघोरुपान्त्यस्य” इति गुणः श्योतति । अत्र च "शिट्याद्यस्य द्वितीयो वा" इति विकल्पेन कस्य खत्वे रूपद्वयम्-चख्षु श्योतति चक्षु भ्योतति “अदीर्घाद्विरामै०" इति कस्य द्वित्वे रूपमेकम्-चक्षु भ्योतति । अदीर्घाद्विरामेति खस्य द्वित्वे "अघोषे प्रथमोऽशिटः" इति पूर्वस्य कत्वे रूपमेकम्-चक्षु ऋयोतति । एवं रूपचतुष्टयम् । एषु “ततः शिटः” इति मूर्धन्यस्य द्वित्वे रूपचतुष्टयम्-चक्षु श्योतति ४ । एवमेतानि "शषसे शषसं वा” इति रोः शत्वे द्विशान्यष्टौ रूपाणि-चक्षु-१० इश्च्योतति ८ । पक्षे रोर्विसर्गेऽष्टौ चक्षुः श्योतति ८ । पक्षे अदीर्घाद्विरामेति विसर्गस्य द्वित्वेऽष्टौचक्षुः : थ्योतति ८ एवं द्वात्रिंशद्रूपाण्येकचान्येकयानि ३२ । “शिटः प्रथमद्वितीयस्य" शिटः परयोः प्रथम द्वितीययो। रूपे वा स्यातामिति चस्य द्वित्वे द्विचान्येकयानि द्वात्रिंशत्-चक्षु च्योतति ३२ । “ततोऽस्याः” (१।३।३४) इति यस्य द्वित्वे एकचानि द्वियानि द्वात्रिंशत्-चक्षु अय्योतति ३२ । द्वयोरपि द्वित्वे द्विचानि द्वियानि द्वात्रिंशत्-चक्षु श्च्य्योतति ३२ । इत्येवमष्टाविंशत्यधिकरूप-१५ शतम् । एषु "अइउवर्णस्याम्ते." इति विकल्पेनान्तस्येकारस्यानुनासिकत्वे च षट्पञ्चाशते द्वेशते विसर्जनीयमूर्द्धन्यकखां द्वित्वे चयोरपि द्वित्वे रोः शत्वलुग्भ्यामन्त्यस्यानुनासिकतयापि वा सम्यग विवेचनीयानि वैयाकरणपुङ्गवैः चक्षु भ्योततिरूपाणि षट्पञ्चाशतं शतद्वयम् ॥ ६ ॥ सूत्रम्
अतोऽति रोरुः ॥७॥ [सि० १२३।२०] अकारात्परस्य रोरति परे उः स्यात् । “अवर्णस्पे०" इति ओत्वे "एदोतः" इत्यकारलोपे च २० कोऽर्थः । रोरिति किम् ? प्रातरत्र ॥७॥ __ अतो० । अत् ५-१ "लोकात्" “सो रुः" अत् ७.१ "लोकात्" अनेन रोरुः "अवर्णस्ये." "एदोतः०" । रु ६-१ "हित्यविति" "पदोन्या.” रः। उ १-१ "सोरुः" "र: पदान्ते.” "लोकात्"। चतुष्पदमिदं सूत्रम् । प्रातरत्रेति अत्र रोरभावात् उर्न भवति ॥ ७ ॥ सूत्रम्---
रोर्यः ॥ ८॥ [सि० १।३।२६ ] अवर्णाद् भोस् भगोस् अघोस् शब्देभ्यश्च परस्य रोः खरे परे यः स्यात्तस्य च स्वरे परे लुग्वा लुक्यसन्धिश्च । कयास्ते क आस्ते । कयिह क इह । भो यत्र भो अत्र । भगो यत्र भगो अत्र । अघो यत्र अघो अत्र । अवर्णादिति किम् ? निधिरत्र । भोस् इत्यादय आमत्रणे सकारान्ता अव्ययाः॥८॥
रु ६-१ "ङित्यदिति” “एदोझ्या.” र् । य १-१ "सो रुः" "रः पदान्ते."। द्विपदमिदं सूत्रम् । अत्रायं विशेष:-"व्योः ” [सि. १।३।२३ ] अवर्णात्परयोर्वययो?षवति परे लुक् स्यात् स चा-३० सन्धिः । वृक्षं वृश्चति इति वृक्षवृश्च विप् "अप्रयो०” किप्लोपः वृक्षवृश्चं अव्ययं वाऽऽचष्टे "णिज्बहुलं नाम्नः कृगादिषु" इति णिजि "यन्त्यस्वरादेः" इति अन्त्यस्वरादिलुपि वृक्षवयति अव्ययतीति किप् "णेरनिटि" इति णिज्लुपि वृक्षव् १-१ अव्यय १-१ "अप्रयोगीत्" विप्लोपः 'दीर्घ०" सिलोपः अप्रे याति ततो वकारयकारलोपे वृक्षयाति अव्ययातीति सिद्धयति । तथायमपि विशेष:-"अस्पष्टा-३४
५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org