________________
८२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपनहैमलघुलीयोपध्मानीयविसर्गा भवन्ति । द्वि ४ करोति । द्विः करोति त्रि ४ खनति त्रिः खनति । चतु पचति २ चतु « फलति २ । सुजन्तस्य चतुरः परत्वादनेन विकल्पो न तु पूर्वेण नित्यो विधिः । कखपफ इत्येय-द्विश्वरति । "वेसुसोऽपेक्षायाम्" [सि० २।३।११] इस उस् प्रत्ययान्तसम्बन्धिनो रेफस्य कखपफेषु षो पा स्यात् । सर्पिष्करोति सर्पिष्खादति सर्पिष्पिबति सर्पिष्फेनायते । धनुष्करोति धनु५खण्डयति धनुष्पतति धनुष्फलति । परमसर्पिष्करोति परमसर्पिष्पिबति परमधनुष्करोति परमधनुष्प
सति । पक्षे जिह्वामूलोयोपध्मानीयविसर्गाः सर्पि-करोति परमसार्पः करोतीत्यादि। इसुस इति किम् ? पय: करोति पय - पिबति । इसुसोः प्रत्यययोर्ग्रहणादिह न भवति-मुनि ४ करोति नदीभिः क्रियते, मुहु ४ पचति, मुहुरित्यव्युत्पन्नमव्ययम् । इसा साहचर्यादुस औणादिकस्य ग्रहणं तेनेह न भवति-चक्रु ४ कुलानि । त्याद्युस्युसोरपीच्छत्यन्यः ? । अपेक्षायामिति किम् ? तिष्ठतु सर्पिः पिब त्वमुदकं । एकार्थीभावे च १० न भवति-परमसर्पिः कुण्डं, भिन्नपदयोरेय अपेक्षा करोत्युक्ते किं करोति ? सर्पिष्करोतीत्यादि, समासे
तु समर्थपदानामेकप्रयत्नोच्चार्यत्वादपेक्षानिवृत्तिः । “नैकार्थेऽक्रिये” (सि० २।३।१२) नास्ति क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे समानाधिकरणे पदे यत्कखपर्फ तस्मिन्परे इसुस्प्रत्ययान्तसम्बन्धिरेफस्य षो न स्यात्, "वेसुसोऽपेक्षायाम्" इत्यस्यायं प्रतिषेधो नान्यस्य तद्विषय एवारम्भात् । सपिः
कालकम् यजुः पीतकम् । एकार्थ इति किम् ? सर्पिष्कुम्भे २ । धनुष्पुरुषस्य २ । अक्रिय इति किम् ? १५ सर्पिष्क्रियते २ धनुष्प्राप्तम् २ । “समासेऽसमस्तस्य”[सि० २।३।१३ ] पूर्वेणासमस्तस्येसुस्प्रत्ययान्तस्य रः कखपफेषु षः स्यात् , समासे-तौ चेनिमित्तनिमित्तानावेकत्र समासे स्याताम् । सर्पिष्कुम्भः असर्पिः सर्पिः कृत्वा सर्पिष्कृत्य सर्पिष्खण्डं सर्पिष्पानं सर्पिष्फलम् । धनुष्कृत्य धनुष्खण्डं धनुष्पृष्ठं धनुष्फलम् । समास इति किम् ? तिष्ठतु सर्पिः पिब त्वमुदकम् । असमस्तस्येति किम् ? परमसर्पिःकुण्डम् ,
इन्द्रधनुःखण्डम् । पूर्वेणापि न भवति-समासे सत्यपेक्षाया अभावात् । इदमेबासमस्तस्येति वचनं ज्ञाप२० कम्-इसुसोः “प्रत्ययः प्रकृत्यादेः" इति नियमो न भवति तेन परमसर्पिष्करोति परमसर्पि:करोतीत्यत्र "वेसुसो." इत्यधिकस्यापि विकल्पः स्यात् । किं च यद्यपि परमं सर्पिः परमसर्पिः करोति इत्युत्तरपदार्थप्रधाने समासे प्रधानस्यापेक्षाया योगात् षत्वं सिद्ध्यति तथापि परमं सर्पिर्यस्य सर्पिषः समीप सर्पिषो निष्क्रान्तमिति परमसर्पि:करोति उपसर्पिxकरोति निःसर्पिxकरोतीत्यत्र न सिद्ध्यति । सर्पिःशब्दस्य क्रियायाश्च व्यपेक्षाया अभावादिति किम् ? तदर्थमिदं ज्ञापकं तेन सर्पिःशब्दान्तस्यापि क्रियया २५ सापेक्षत्वे विकल्पो भवति । बहुसर्पिष्कुण्डमित्यत्र बहुप्रत्ययादेरप्यसमस्तत्वादनेन नित्यं भवति । इत्या
दिकरणात्सर्वमपीदं रेफप्रकरणमिहानुसम्धेयम्-[भ्रातुष्पुत्रकस्कादयः ( सि० २।३।१४) साधवः] ___ तथा "नृनः पेषु वा" [सि० १।३।१० ] ननिति शसन्तस्य नृशब्दस्यानुकरणम् । ननः पे परे रो वा स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य । → पाहि १ न पाहि २ नः पाहि ३ नॅ: पाहि ४ नृन्पाहि
५, एवं रेफस्योपध्मानीयत्वे पक्षे विसर्गत्वे पूर्वस्यानुस्वारानुनासिकत्वाभ्यां च चत्वारि रूपाण्येकपानि, ३० ततश्च "शिटः प्रथमद्वितीयस्य” [सि० १।३।३५] शिटः परयोः प्रथमद्वितीययोझै रूपे वा स्यातामिति पकारस्य द्वित्वे चत्वारि, नकारस्य रत्वाभावे एकमेवं नव, अन्त्यस्यानुनासिकत्वेऽपि नवेत्यष्टादश रूपाणि ॥ ५ ॥ अथात्र विशेषमाह-सूत्रम्
ख्यागि ॥६॥ [सि० १॥३५४ ] ३४ रोनित्यं विसर्गः । कः ख्यातः । "शिव्यघोषात्” [ सि० १।३।५५] शिदपरेऽघोष परे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org