________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे रेफसन्धिः शिड्वर्जे ख्यागवर्जे च अघोषे परे रेफो भवति अनुस्वारानुनासिकौ च पूर्वस्य । ततश्च *"पुंस" [सिं० २।३।३ ] पुंस्शब्दसम्बन्धिनो रेफस्य कखपफि सः स्यात् । पुंस्कामा (स्कामा, पुंस्कोकिलः २ पुस्खातः २ पुंस्पाकः २ पुंस्फलम् २ । अघोष इति किम् ? पुंदासः। अशिटीति किम् ? पुंशिरः। अख्यागिति किम् ? पुंख्यातः । “शिरोऽधसः पदे समासैक्ये” (सि० २।३।४ ) अनयो रेफस्य पदशब्दे सः स्यात् समासैक्ये-तौ चेन्निमित्तनिमित्तिनावेकत्रसमासे स्याताम् । शिरस्पदं अधस्पदं "अव्ययं५ प्रवृद्धादिभिः” इति समासः। पद इति किम् ? शिरः खण्डम् । समासेति किम् ? शिरः पदं अधः पदम् । ऐक्य इति किम् ? परमशिरः पदं परमाधः पदम् । “अतः कृकमिकंसकुम्भकुशाकर्णीपात्रेऽ. नव्ययस्य" [सि० २।३।५ ] अकारात्परस्यानव्ययसम्बन्धिनो रेफस्य कृकम्यादिसप्तकस्थेषु कखपफेषु सः स्यात् समासैक्ये । अयस्कृत् अयस्कारः अयस्कृतं यशस्कामः अयस्कंसः अयस्कुम्भः । द्वन्द्वे अयस्कुम्भकपालानि । अयस्कुशा अयस्कर्णी अयस्पात्रम् । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् अयस्कुभी, १० अयस्पात्री, शुनस्कर्ण इति तु कस्कादिः । अत इति किम् ? गी:कारः, भास्कर इति तु कस्कादिः । अनव्ययस्येति किम् ? स्वः कारः, प्रातः कामः । समासेत्येव-यशः करोति । ऐक्य इत्येव-उपपयः कारः परमयशः कामः । अयसः कुम्भकपालं अयःकुम्भकपालम् , अत्र हि निमित्तनिमित्तिनौ नैकसमासस्थौ । यदा त्वेवं समास:-अयसः कुम्भोऽयस्कुम्भस्तस्य कपालं तदा भवत्येव अयस्कुम्भकपालमिति । इह कृकम्योः केवलयोः समासो न भवतीति प्रत्ययान्तयोर्महणम् । अथ किबन्ता धातुत्वं न जहतीति किब-१५ न्तयोरेव कस्मान्न भवति ? “गतिकारकस्य.” इति सूत्रे किग्रहणात् । नान्यप्रत्ययान्तानां धातूत्तरपदानामग्रणे किग्रहणमर्थवद्भवति, अयं भावः-यदि धातुग्रहणेनान्यप्रत्ययान्तानां धातूनामग्रहणं स्यात्तदा किग्रहणमनर्थकं स्यात् । कमिग्रहणात् कामयतेनं भवति पयः कामयते पयःकामा "शीलिकामि०" इति णः कमेस्त्वणि पयस्कामीति भवति । कमनं कामः पयसि कामोऽस्या इति बहुव्रीहिणा तु पयस्कामा इत्यपि भवति । कमिग्रहणेनैव कंसे लब्धे कंसग्रहणं ज्ञापकम् अस्तीदमपि दर्शनम्-"उणादयोऽव्युत्पन्नानि २० नामानि" इति । "प्रत्यये”[सि० २।३।६] अनव्ययसम्बन्धिरेफस्य प्रत्ययसम्बन्धिकखपफेषु सः स्यात्। पाशप्कल्पप्काः प्रयोजयन्ति । काम्ये विशेषविधानादन्यस्य चाभावात् पयस्पाशं, यशस्कल्पं, पयस्कम् । अनव्ययस्येति किम् ? स्वः पाशम् । प्रत्यय इति किम् ? पाशो बन्धः, कल्पो विधिः, कं शिरः । पयः पाशः, पयः कल्पः, पयः कम् । "रोः काम्ये" [सि० २।३७] अनव्ययसम्बन्धिरेफस्य रोरेव काम्यप्रत्यये सः स्यात् । विपरीतनियमस्तु वर्चस्केतिनिर्देशात् 'प्रत्यये, रोः काम्ये वा' इत्येकयोगाकरणाद्वा २५ न। पयस्काम्यति । रोरिति किम् ? द्वाः काम्यति, अहः काम्यति । प्रत्यय इति किम् ? पुरुषैः काम्यम् । अनव्ययस्येत्येव-अधः काम्यति । "नामिनस्तयोः षः" [सि० २।३।८ ] तयोरिति “प्रत्यये” इति सूत्रसङ्गृहीतानां पाशप्कल्पप्कानां "रोः काम्ये” इति यथानिर्दिष्टस्य काम्यस्य च ग्रहणम् । तयोः परयोर्नामिन उत्तरस्य रेफस्य षः स्यात् । सर्पिष्पाशं धनुष्पाशं, गीष्पाशा धूष्पाशा, सर्पिष्कल्पं धनुष्कल्पं गीष्कल्पः सर्पिष्कं सार्पिष्कः सर्पिष्काम्यति धनुष्काम्यति । तयोरिति किम् ? मुनिः करोति भिन्द्युः३० पापानि । रोः काम्य इत्येव-गीःकाम्यति धूःकाम्यति । “निर्बहिराविष्प्रादुश्चतुराम्" [ सि० २।३।९] एषां षण्णां रेफस्य कखपफेषु षः स्यात् । बहुवचनं निस्दुसो निरोश्व परिग्रहार्थम् । निष्कृतं निष्खातं निष्पीतं निष्फलम् । दुष्कृतं दुष्खातं दुष्पुष्टं दुष्फलम् । बहिष्कृतं बहिष्खातं बहिष्पीतं बहिएफुल्लम् । आविष्कृतम् । प्रादुष्कृतम् । चतुष्कण्टकं चतुष्खातं चतुष्पात्रं चतुष्फलम् । कथं नि३ष्कुल दु३पुरुष नैष्कुल्यं दौष्कुल्यम् ? “एकदेशविकृतस्यानन्यत्वात्" । "सुचो वा” (सि० २।३।१०) सुजन्सानां रेफस्य कखपफेषु षो वा स्यात् । द्विष्करोति त्रिष्खनति चतुष्पचति चतुष्फलति, पक्षे जिह्वामू-३६
है• प्रका० पूर्वा० ११
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org