________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे रेफसन्धिः लि. । लू ७.१ "लोकात्" लि । ल च ल च । लौ १-२ "स्यादावसङ्ख्येयः" एकलस्य लोपः । द्वयोर्लकारयोः प्रयोजनमाह-तत्र नकारस्य सानुनासिको ल इत्यादि । तद् १-१ "अनतो लुप्" 'लग्श् छेदने लू, लूयते स्म लूनं क्लीबे क्तः "ऋल्वादेरषां तो.” इति तस्य नः । भवान् लिखति अनेन नकारस्य सानुनासिको लः । ननु नकारस्यानुनासिकत्वात् स्थान्यासन्नोऽनुनासिक एव लकारो भविष्यतीति किं लौ इत्यत्र द्विवचनेनेति ? अत्रोच्यते-अत्र द्विवचनग्रहणेन ज्ञाप्यते कचिदनुनासिकस्थाने अननुनासिकोऽ-५ प्यादेशो भवति यथा “वाष्टन आः स्यादौ” इत्यत्र नकारस्य स्थानेऽननुनासिक एवाकारः स्यादिति ॥२०॥
यां शिष्योतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यंधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ खोपज्ञसत्प्रक्रिया
वृत्तौ व्यञ्जनसन्धिरेष सुखकृत् पूर्णः प्रतीतः सुखम् ॥ १ ॥
१०
# अथरे फसन्धिः
अथेति व्यञ्जनसन्धिकथनानन्तरं रेफसन्धिः, उच्यते इति शेषः । कम चारु इति स्थिते किम् १-१ "किमः कस्तसादौ च” इति किमः कादेशे कस् चारुः । अथ सन्धिमाह-सूत्रम्
। सो रुः ॥१॥[सि० २११७२] पदान्ते सो रुः स्यात् । *उकारः स्वाभाविकरेफा दज्ञापनार्थ इत् ॥१॥ कर चारु इति स्थिते सो० । स् ६-१ "लोकात्" अनेनैव सूत्रेण "सो रुः" । रुः १-१ अनेनैव रुः, "र: पदान्ते." "घोषवति" "अवर्णस्ये.” । “सो रुः" । द्विपदमिदं सूत्रम् । * उकार इति-स च इत्संज्ञक इति प्रयोगे नानुवर्तते ॥ १ ॥ कर चारुरित्यत्र कार्यान्तरमाह सूत्रम्
चटते सद्वितीये ॥२॥ [सि० १३७] पदान्तस्थस्य रस्य चटतेषु सद्वितीयेषु परेषु यथासङ्ख्यं शपसा नित्यं स्युः । कश्चारुः। 'निरनुबन्धग्रहणे सामान्यग्रहणम्-प्रातश्चरति । कच्छन्नः । कष्टः । कष्ठः । कस्तः। कस्थः ॥२॥
चट० । चश्च टश्च तश्च चटतं तस्मिन् चटत ७-१ "अवर्णस्ये०" सह द्वितीयेन वर्तते यत् तत् सद्वितीयं "सहस्तेन" इति सहार्थबहुव्रीहिः "सहस्य सोऽन्यार्थे” इति सहस्य सः। द्वितीय ७-१ "अवर्णस्ये." । द्विपदमिदं सूत्रम् । निरनुबन्ध इत्यादि न्यायादत्र द्विविधोऽपि रेफो गृह्यते तथैवो-२५ दाहरति प्रातश्चरतीति । कस् प्राग्वत् 'छदण संवरणे' "चुरादिभ्यो णिच्” छाद्यते "क्तक्तवतू" क्तप्रत्ययः * "णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम्" दमादीनां णौ क्तान्तानामेते वा निपात्यन्ते इति छन्न इति सिद्धम् । कष्ट इत्यादि । टो ध्वनौ; ठो महेश्वरे शून्ये वृहद्धनौ चन्द्रमण्डले; तकारः तस्करे क्रोडपुच्छयोः, थो भीत्राणे महीधे । एतदनुसारेण टठतथाः प्रभानुसन्धानेन समर्थनीयाः ॥ २ ॥ सूत्रम्
शषसे शषसं वा ॥३॥[सि० ११३६ ] पदान्तस्थस्य रस शपसेषु परेषु शपसा वा स्युः। कश्शेते ॥३॥ पक्षे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org