________________
७८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
__न शात् ॥ १७ ॥[सि० १॥३६२] शात्परस्य तवर्गस्य चवर्गो न स्यात् । प्रश्नः ॥ १७ ॥ न १-१ "अव्ययस्य" । श ५-१ "उङस्यो.”। द्विपदमिदम् । 'प्रच्छत् ज्ञीप्सायाम्' प्रच्छयति "स्वपिरक्षियतिप्रच्छो नः" इति नप्रत्ययः "अनुनासिके च छः शूट्” इति छस्य शः, प्रश् नः इति ५ स्थिते "तवर्गस्य श्ववर्ग" इति प्राप्तं चवर्गत्वमनेन निषिध्यते ॥ १७ ॥ सूत्रम्
पदान्ताहवर्गादनामनगरीनवतेः ॥ १८॥ [सि० १॥३॥६३ ] पदान्तस्थादृवर्गात्परस्य तवर्गस्य टवर्गः सस्य च षो न स्यात् । षट् नयाः। षण्नयाः। षट्सु । नामनगरीनवतीनां तु स्यात्-षण्णाम् । षण्णगरी । षण्णवतिः ॥ १८ ।। __पदा० । पदस्यान्तः पदान्तः तस्मात् पदान्त ५-१ "लेखस्यो.” टवर्ग ५-१ "डेङस्यो.” । नाम् च १० नगरी च नवतिश्च नामनगरीनवतिः, न विद्यते नामनगरीनवतिर्यस्मिन् स अनामनगरीनवति ६-१
"डित्यविति” एत्वम् “एदोड्या ऊसिम्सो रः" "र: पदान्ते." । "तवर्गस्य श्चवर्ग.” "धुटस्तृतीयः।" पदान्तादृवर्गादनाम्नगरीनवतेः । त्रिपदमिदं सूत्रम् । षट् १-३ अवयवा अस्य "अवयवात्तयट्” षष् तय इति स्थिते "धुटस्तृतीयः” इति षड् "अघोषे०" षट्, नय १-३ "अत आः स्या.” "तवर्गस्य.” इति
तकारस्य टत्वं प्राप्तमनेन निषिध्यते। षष् १-३ "डति णः०," नया १.३ "अत आः०" "धुटस्तृतीयः" इति १५षस्य डः "तृतीयस्य पञ्चमे" षण् नया इति । तवर्गेति प्राप्तं नकारस्य णत्वमनेन निषिध्यते । षष् ७-३ सु
"नामसिद०" इति पदसंज्ञा "धुटस्तृतीयः" इति षस्य डः "अघोषे प्रथमो०” डस्य टः “सस्य शषौ" इति प्राप्तं सकारस्य षत्वमनेन निषिध्यते । अनानगरीनवतेरिति सूत्रावयवस्य तात्पर्यतालाघवाय व्यावृत्तिमुखेनैवाह-नामनगरीनवतीनां तु स्यादिति, तवर्गस्य टवर्गत्वं स्यादित्यर्थः । षष् ६-३ "सङ्ख्यानां र्णाम्"
इत्यामो नाम् "धुटस्तृतीयः" षस्य डः "तृतीयस्य पञ्चमे” डस्य णः "तवर्गस्य श्ववर्ग०” इति नस्य णः २०षण्णाम् । षण्णां नगरी षष् नगरी इति स्थिते "धुटस्तृतीयः" "तृतीयस्य.” “तवर्गस्य." षण्णगरी । षभिरधिका नवतिः षष् नवतिरिति स्थिते "धुटस्तृ०" "तृती.” 'तवर्ग०' षण्णवतिः ॥ १८ ॥ सूत्रम्
षि तवर्गस्य ॥ १९ ॥ [सि० १३६४ ] पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् । तीर्थकृत् षोडशः शान्तिः ॥ १९ ॥
पि० । ए७-१ "लोकात्" तवर्गस्य ६-१ "टाङसो०"। द्विपदमिदं सूत्रम् । तीर्थ २-१ "समाना०," २५ 'डुकृग् करणे कृ, तीर्थ करोतीति तीर्थकृत कि "हस्वस्य तः पित्कृति" इति तोऽन्तः "अप्रयोगीत्" विप्लोपः “दीर्घङया०" "इस्युक्तं कृता" इति तत्पुरुषसमासः “ऐकायें” इति विभक्तिलोपः तीर्थकृत् । षभिरधिका दश "एकादशषोडशषोडषोढाषड्डा" इति षस्य उत्वे दस्य डत्वे षोडशन् इति सिद्धम् । षोडशानां सङ्ख्यापूरणः “सङ्ख्यापूरणे डट्" "डित्यन्त्यखरादेः" इति अन्लोपे षोडशः, तीर्थकृत् षोडशः इत्यत्र तवर्गस्य टवर्गमनेन निषिध्यते ॥ १९ ॥ सूत्रम्
लि लौ ॥ २०॥ [ सि० १२३६५] पदान्तस्थस्य तवर्गस्य ले परे लौ स्याताम् । तत्र नकारस्य सानुनासिको ला शेषाणां निरनुनासिकः । तद् लूनं तल्लूनम् । भवान् लिखति, भवॉल्लिखति ॥ २०॥ ३३ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायो व्यजनसन्धिः समाप्तः ।
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org