________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनसन्धिः
अनाङ्माङो दीर्घाद्वा छः
१४ ॥ [ सि० १३/२८ ]
दीर्घाद् दीर्घस्थानीयाच्च प्लुतात् स्वरात्परश्छो द्विर्वा स्यात् । कन्याच्छत्रं कन्याछत्रम् । मुने ३ च्छत्रं मुने ३ छत्रम् । आमाभ्यां तु नित्यम् । आच्छाया । माच्छिदत् ॥ १४ ॥
७७
अना० । आङ् च माङ् च आङ्माद न आङ्माङ् अनाङ्माङ् तस्मात् अनाङ्माङ ५-१ "लोकात्” “सो रुः” “अन् स्वरे" । दीर्घ ५-१ " डेङस्योर्यातौ ” दीर्घात् । वा १-१ " अव्यय ० " छू ५ ६- १ “लोकात्” “सो रुः " "रः पदान्ते० " । "घोषवति" "अवर्णस्ये” “घुटस्तृतीयः” । चतुष्पदमिदं सूत्रम् । 'दीर्घस्थानीयाच्च प्लुतादिति “पुताना ” [सि० १|३|२९] इति सूत्रस्यार्थः सङ्गृहीतः । मुने ३, " दूरादामत्रयस्य” इति लुतः । सूत्रे अनाङ्माङ इति यदुक्तं तस्य सूत्रावयवस्य तात्पर्यं लाघवार्थं व्यावृत्तिमुखेनैवाह-आङ्माङ्भ्यां तु नित्यमिति - आङ्माभ्यां तु परस्य छस्य नित्यं द्वित्वं स्यादित्यर्थः । यथा आ ईषत् छाया १-१ “स्वरेभ्यः” इति सिद्धं नित्यं द्वित्वम्, माङ्पूर्वकः 'छिपी द्वैधीक- १० रणें' छिद् अग्रतनीदि "ऋदिच्छ्विस्तम्भू०” इति अङ्प्रत्ययः “स्वरेभ्यः” इति छस्य द्वित्वं "अघोषे . " छस्य चः "विरामे वा " दस्य तः "अड्धातोरादिर्ह्यस्तन्यां चामाङा" इति माङ्योगे अडागमाभावः, माच्छिदत् ॥ १४ ॥ सूत्रम्
वर्गस्य श्वष्टवर्गाभ्यां योगे चटवर्गों ॥ १५ ॥ [ सि० ११३६० ] तवर्गस्य शचवर्गयोगे चवर्गः षटवर्गयोगे टवर्गः स्यात् । तत् शास्त्रं तच् शास्त्रम् । तत् चारु, १५ तच्चारु । पिष् तं पिष्टम् । तत् टकारः, तट्टकारः । ईट् ते ईट्टे ॥ १५ ॥
च
/
तवर्ग० । तवर्ग ६-१ “टाङसोरिनस्यौ” तवर्गस्य । श च चवर्गश्च श्ववर्गं । ष च टवर्गश्च ष्टवर्ग, raigad raष्टवर्गे ताभ्यां वर्गष्टवर्गाभ्यां ३-२ "अत आः स्यादौ ० " । योग ७-१ "अवर्णस्ये ०" चश्च दश्च चटौ चटयोर्वगौं १-२ “ऐदौत्सन्ध्य ०" । चतुष्पदमिदं सूत्रम् । तद् १-१ “अनतो लुप्” “अघोषे प्रथमोऽशिटः” इति तत्, शास्त्रम् १-१ अनेन तवर्गस्य चवर्गत्वं तत्रापि तकारस्य प्रथम- २० श्वकारो यथासङ्ख्यन्यायात् । एवं स्वामिन् जयेति तवर्गपञ्चमस्य नस्य चवर्गपञ्चमो यः । अनेन वर्गप्रहणप्रयोजनं दर्शितम् | योगश्चात्र पूर्वतः परतो वा सम्बन्धः । तत्र पूर्वतः सम्बन्धं दर्शयति 'पिष्लंपी सचूर्णने ' पिषू पिष्यते स्म " क्तक्तवतू" अनेन क्तप्रत्यये पिष् त इति स्थिते अनेन तवर्गस्य टवर्गत्वं पिष्टम् । तत् टकार इति स्थिते अनेन टवर्गत्वम् । 'ईडिक् स्तुतौ' ईड् ते अनेन तस्य टत्वं “अघोषे प्रथमोऽशिटः” इति डस्य टः ॥ १५ ॥ सूत्रम्
सस्य शषौ ॥ १६ ॥ [ सि० १/३/६१ ]
सकारस्य शचवर्गाभ्यां योगे शः षटवर्गाभ्यां च योगे षः स्यात् । वृस् चति वृश्चति । दोस् षु दोष्षु | पेदान्तापदान्तयोरयं विधिः ॥ १६ ॥
Jain Education International
I
सस्य० । स ६-१ "टाङसो ० " शश्च षश्च शषौ । द्विपदमिदं सूत्रम् । 'ओब्रस्वौत् छेदने' ब्रस्च वर्त्तमाना तिव् “तुदादेः शः” “ग्रहत्रश्च ० " इति रकारस्य ऋकार वृसूच ति इति स्थिते अनेन सस्य शः । दोस् ३० ७- ३ सुप् “नामसिदय्यञ्जने" इति पदसंज्ञा "सो रुः " सस्यरः "शषसे ० " रस्य सः । "नाम्यन्तस्था " इति सूत्रे शिड्नान्तरेऽपीति वचनात् सकारस्य व्यवधानेऽपि सस्य षत्वे दोस् षु इति स्थिते अनेन सस्य षः । " तवर्गस्य चवर्ग" इति "सस्य शषौ” इति सूत्रद्वयोको विधि: पेदान्तेऽपि अपदान्तेऽपि भवतीति ज्ञेयम् ॥ १६ ॥ सूत्रम्
For Personal & Private Use Only
२५
३४
www.jainelibrary.org