________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनसन्धिः न ६-१ "लोकात्" "सोरुः" "रः पदान्ते." श् ७-१ "लोकात्" । १-१ । त्रिपदमिदं सूत्रम् । भवान् शूर इत्यत्र नकारस्य न् आदेशे भवाञ्च् शूरः । अश्व इत्येवेति-सूत्रान्तरात् ["ः सः त्सोऽश्वः” सि० १।३।१८ इत्यस्मात् ] अश्च इत्यनुवर्त्तनीयं तस्य चायमर्थः-चावयवे शकारे परे श्चादेशो न स्यात्ततः “तवर्गस्य श्चवर्ग०” इति बत्वे भवाब् छ्योतति इति ॥ ७ ॥ अत्र कार्यान्तरमाह-सूत्रम् ।
प्रथमादधुटि शश्छः ॥८॥[सि० १३॥४] पदान्तस्थात्प्रथमात्परस्य शस्याऽधुटि परे छो वा स्यात् । भवाञ्छूरः भवाञ्च् शूरः इति विकल्पद्वये त्रैरूप्यम् । अधुटीति किम् ?,वाक श्योतति ॥ ८॥
प्रथ० । प्रथम ५-१ "डेडस्यो०" न धुट् अधुट् तस्मिन् अधुट् ७-१ "लोकात्" । श् ६-१ "लोकात्" "सो रुः" "चटते सद्वितीये” इति रस्य शः । छ १-१ “सो रुः" "र: पदान्ते." "धुटस्तृतीयः”। प्रथमादधुटि शश्छः । चतुष्पदमिदं सूत्रम् । अनेन शस्य छत्वे भवाञ्च् छूरः । पक्षे भवाञ्च् शूरः ।१० उभयाभावे "तवर्ग.” इति नस्य बत्वे भवान् शूरः । त्रैरूप्यमिति अनेन प्रकारेण यत्र कापि विकल्पद्वयं भवति तत्र रूपत्रयं भवतीत्यर्थः।
नत्वत्र रूपत्रयमेव तथाहि श्चादेशे रूपमेकं १ ततः "शिव्याद्यस्य द्वितीयो वासि० ॥ ३।५९] प्रथमस्य शिटि परे द्वितीयो वा स्यादिति चस्य छत्वे रूपमेकम् , एवमेते द्वे रूपे एकशकारे । ततश्च "ततः शिटः" [सि० १॥३॥३६ ] प्रथमद्वितीयाभ्यां परस्य शिटो द्वे रूपे वा स्यातामिति १५ शकारस्य द्वित्वे द्विशकारे द्वे रूपे । "प्रथमादधुटि." इति शस्य छत्वे रूपमेकं वादेशाभावे रूपमेकम् एवं षट् रूपाणि । चकारान्तादेशविधानसामर्थ्यात् श्चादेशे च "चजः कगम्" इति कत्वं न भवति । अधुटीति किमिति 'चुतस्चुतस्च्युत क्षरणे' स्च्युत् “सस्य शषौ" शः, वर्तमानातिव् “कर्तर्यनद्यः शव्" "लघोरुपान्त्यस्य" इति गुणे श्योतति इति । अत्र शकारस्य धुटपरत्वात् छो न भवति ॥ ८ ॥ सूत्रम्
णोः कटावन्तौ शिटि नवा ॥९॥[सि० १॥३१७] २० पदान्ते । प्राक् शेते । प्राक् छेते । प्राङ् शेते । सुगण्ट शेते । सुगण्टु छते । सुगण शेते ।
ङ् च ण् च ौ तयोः ण ६-२ ओस् "लोकात्” “सोरुः" "रः पदान्ते.”। कश्च टश्च कटौ कट १-२ "ऐदौ०" । अन्त १-२ "ऐदौ०" । "ओदौतो."। शिट् ७.१ । नवा १-१ "अव्ययस्य"। पञ्चपदमिदं सूत्रम् । अत्र लाघवाय अपेक्षितं वृत्त्यंशमाह-पदान्ते इति, ततश्च सूत्रेण सह योगेऽर्थव्यक्तिर्भवति । तथाहि-पदान्तस्थयोः शोः शिटि परे कटावन्तौ वा स्यातामिति कारस्य कोऽन्तः, णकारस्य च २५ टोऽन्तः । नवेत्यखण्डमव्ययं वार्थे । प्रपू० 'अन्नू गतौ च' प्राश्चतीति प्रान् कि "अञ्चोऽनायाम्" इति नलोपः "अप्रयोगीत्" विपूलोपः "अचः" इति स्वरात्परो नोऽन्तः "दीर्घङया.” सिलोपः "पदस्य” च्लोपः "युजञ्चक्रुश्चो नो " प्राइ । 'शी स्वप्ने वर्तमानाते "शीङ ए: शिति" शेते अनेन कोऽन्तः ततखैरूप्यम् , प्राच्यां शेते इत्यर्थः । सुपूर्वकः 'गणण सङ्ख्याने गण चुरादिणिच् "ध्यन्यस्वरादेः” इति णस्य अलोपः सुष्टु गणयतीति किए "अप्रयोगीत्" किप्लोपः सुगण् १.१ "दीर्घ-३० ज्या०", शेते प्राग्वत् , अनेन टोऽन्तः ततखैरूप्यम् । उभयत्र प्राग्वत् पाप्यमपि ॥ ९ ॥ सूत्रम्
तौ मुमो व्यञ्जने खौ ॥ १०॥ [सि० ११३।१४] मु इत्यागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव खावनुखारानुनासिकौ साताम् । चंक्रम्यते चक्रम्यते । त्वम् चारुः त्वं चारु: त्वञ्चारः। त्वं टकः त्वण्टकः १ । यः कँय्यः। पुरो ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org