________________
७४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुततो० । तद् ५-१ तस्मात्ततः "किमव्याविसर्वाद्यवैपुल्यबहोः पित्तस्” इति तस्प्रत्ययः, "ऐकायें" इति पञ्चम्या लुप् "आद्वेरः" "लुगस्यादेत्यऽपदे" ततस् १-१ "अव्ययस्य" सिलुप् “सो रुः"। हः ६-१ "लोकात्" "सो रुः" । चतुर्णा सङ्ख्यापूरणः “चतुरः" इति सूत्रेण थट्प्रत्ययः चतुर्थ १-१ "सो रुः" "रः पदान्ते." । "घोषवति" "अवर्णस्ये.” "चटते सद्वितीये"। "ततो हश्चतुर्थः" । त्रिपदमिदं सूत्रम् । वाच् ७-१ वाचि हरिः सिंहः "सिंहाचैः पूजायाम्” इति सप्तमीतत्पुरुषे वाच् हरिः इति स्थिते "चजः कगम्” इति चस्य कत्वे "धुटस्तृतीयः" इति कस्य गत्वे अनेन हस्य घः वाग्धरिः, वाग्हरिः । एवं च अच् हलौ अज्झलौ, षट् हलानि षड्ढलानि, तद् हितं तद्धितम्, ककुप् हासः ककुम्भासः ककुब् हासः ॥ ४ ॥ सूत्रम्
नोऽप्रशानोऽनुस्खारानुनासिकौ च पूर्वस्याऽधुट्परे ॥५॥ [सि० ११३८] १० पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेष्वधुट्परेषु शपसा यथासङ्खथं
स्युः । अनुखारानुनासिकौ च पूर्वस्य । भवांधारुः भवाँथारुः । भवांश्छेकः भवाँश्छेकः । भवांष्टकः भवाँष्टकः । भवाष्ठकारः भवाँष्ठकारः । भवांस्तनुः भवाँस्तनुः । भवस्थुिडति भवाँस्थुडति । प्रशान्वर्जनात् प्रशाञ्चरः । अधुडिति किम् ? भवान् त्सरुकः ।। ५॥
नोऽप्र० । न ६-१ न प्रशान् अप्रशान् तस्य अप्रशान् ६-१, उभयत्र "लोकात्” । “सोरुः" । अनु१५स्वारश्च अनुनासिकश्च अनुस्वारानुनासिक १-२ "ओदौ०" । च १-१ "अव्यय.” । पूर्व ६-१ "टाङसो. रिनस्यौ" । उभयत्र "अतोऽति." "अवर्णस्ये.” “एदोतः०”।धुट् परो यस्मात् स धुट्परः न धुटपरः अधुट्परः तस्मिन् अधुट्पर ७-१ "अवर्णस्ये.” "समानानां०" । षट्पदमिदं सूत्रम् । भवान् चारुः इति स्थिते नकारस्य शः पूर्वस्य अनुस्वारागमोऽनुनासिकादेशश्च एवं सर्वत्र । छेको विदग्धः । 'टकुण् बन्धने
टङ्कयतीति टङ्कः । ठकारः शून्यः । तनुः कृशः । 'स्थुडत् संवरणे' स्थुड वर्तमानाति "तुदादेः शः" २० स्थुडति । प्रपूर्वकः 'शमूदमूच उपशमे' प्रशाम्यतीति प्रशान् कि "अहन्पश्चमस्य०” दीर्घः “मो नो म्वोच"। इति मकारस्य नकारः। प्रशान् चर इत्यत्र प्रशान्वर्जनान्नकारस्य शकारो न भवति, ततः "तवर्गस्य श्चवर्ग." इति नस्य बः प्रशाञ्चरः । त्सरुः खड्गमुष्टिः । त्सरौ कुशलः सरुकः "कोऽश्मादेः" इति कप्रत्ययः। अत्र तकारस्य धुट्परत्वात् पूर्वोक्तं कार्य न स्यादित्यर्थः ॥ ५ ॥ सूत्रम्
द्विः कानः कानि सः॥६॥ [ सि० १॥३॥११ ] २५ द्विरुक्तस्य कानः कानि परे सः स्यात् । अनुखारानुनासिकौ च पूर्वस्य । कांस्कान् । काँस्कान् ।
द्विः । द्वौ वारौ "द्वित्रिचतुरः सुच्” क्रियाविशेषणमिदम् "अनतो लुप्" । कान् ६.१ "लोकात्" "सो रुः" "रः पदान्ते." । कान ७-१ । सः १-१ "सो रुः" "रः पदान्ते.” । चतुःपदमिदं सूत्रम् । कान इति * “षष्ठ्यान्यस्य' षष्ठ्या निर्दिष्टे यत्कार्य तदन्यस्य स्यादिति नकारस्य सत्वं
भवति । किम् २-३ "किमः कस्तसादौ च" "शसोऽता." "वीप्सायाम्" इति द्वित्वं कान् कान् , अनेन ३० नस्य सः, अनुस्वारानुनासिकौ च पूर्वस्य । सविधानात् सो रुर्न भवति । द्विरिति किम् ? कान् कान् पश्यति तत्र प्रथमः प्रने द्वितीयस्तु क्षेपे ॥ ६ ॥
नः शिश्च ॥७॥[सि० ११३।१९] पदान्तस्थस्य नस्य शे परे श वा स्यात् । भवाश् शूरः भवाब् शूरः । अश्व इत्येव३४ भवाबू श्योतति ॥ ७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org