________________
७३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनसन्धिः यां शिष्योऽब्रुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे ___ राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया__ वृत्तौ क्षिप्रमसन्धिरेष सुखकृत्पूर्णः प्रवीणप्रियः ॥ १ ॥
अथेति-असन्धिकथनानन्तरं व्यञ्जनान् सन्धिः कथ्यते इति शेषः । वाक्-मह इति स्थिते
धुटस्तृतीयः॥१॥[सि० २।१७६] पदान्ते धुटां स्वस्तृतीयः स्यात् । वाग् मह इति भवति ॥ १॥
धुट० । धुट ६-१ "लोकात्" "सो रुः" र् । त्रयाणां सङ्ख्यापूरणः "स्त च” इति तीयप्रत्यये १० त्रिशब्दस्य तृ आदेशे च तृतीय १-१ "सो रुः" "रः पदान्ते०", "चटते सद्वितीये" इति रेफस्य सः। द्विपदमिदं सूत्रम् । ककारस्य स्वस्तृतीयो गकार इति गकारो भवति ॥ १॥ वाग्मह इति जाते कार्यान्तरमाह-सूत्रम्
तृतीयस्य पञ्चमे ॥ २॥ [सि० १॥३॥१] वेति पदान्त इति अनुनासिक इति चानुवर्तते । एवमन्यत्राप्यपेक्षितं पदं सूत्रान्तरादनुवर्तनी-१५ यम् । पदान्तस्थस्य वर्गतृतीयस्य पञ्चमे परे स्वः पञ्चमो वा स्यात् । वामहः वाग्महः ॥ २ ॥
तृतीय ६-१ "टाङसोरिनस्यौ” । पञ्चम ७-१ "अवर्णस्ये.” । द्विपदमिदं सूत्रम् । वेतीत्यादि-"सौ नवेतौ” इति सूत्रात् वा इत्यनुवर्त्तते, “एदोतः पदान्तेऽस्य लुक्” इति सूत्रान् पदान्ते इत्यनुवर्त्तते, "विरामेऽनुनासिको वा" इत्यतोऽनुनासिक इत्यनुवर्तते । एवमन्यत्रापीति-यत्र यस्य पदस्यानुवर्त्तने एव कार्यसिद्धिर्नान्यथा तत्र तत्पदमपेक्षितम् । अनुनासिकशब्देन चात्र स्वस्ववर्गस्य पञ्चम एव लभ्यते २० तथैव स्पष्टत्वाय फलितमर्थ व्याचष्टे-स्वः पञ्चम इति । एवं वाग् उवते वाडवते, वाग् बकारः वाङ्अकारः, ककुब् मण्डलं ककुम्मण्डलम् ॥ २ ॥ अत्र विशेषसूत्रम् ।
. प्रत्यये च ॥ ३॥ [सि० १३२२]
प्रत्ययस्थे पञ्चमे परे च नित्यम् । वाग्मयं वाङ्मयम् ॥ ३॥ प्रत्यय ७-१ "अवर्णस्ये.” । च १-१ "अव्ययस्य" । द्विपदमिदं सूत्रम् । प्रत्ययस्थे पञ्चमे च परे २५ नित्यं स्वः पञ्चमः स्यादिति शेषः । चकार उत्तरत्र विकल्पानुवृत्त्यर्थः । वाच ६-३ वाचा विकारः "एकस्वरान्मयद" इति वाङ्मयम् । एवं "प्रायोऽतोयसट् मात्रट्" इति मात्रट्प्रत्यये यावन्मानं तावन्मात्रमित्यादि ॥ ३ ॥ सूत्रम् ।
ततो हश्चतुर्थः ॥ ४ ॥ [सि० १३३ ] पदान्तस्थात्तृतीयात्परस्य' हस्य पूर्वतृतीयसवर्गश्चतुर्थो वा स्यात् । वाग्धरिः वाग् हरिः। तत् । हितम् तद्धितम् तद् हितम् ।। ४ ॥
है• प्रका• पूर्वा० .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org