________________
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहै मलघु
सौ वेतौ ॥ ७ ॥ [ सि० १२२३८ ]
सिनिमित्त ओकार इतौ परे सन्धि वा नैति । पटो-इति पटविति ४ ॥ ७ ॥
सौ न० । सि ७-१ "डिडौं” “डित्यन्त्यस्वरादेः " सौ | नवा १-१ “ अव्ययस्य" । इति ७-१ “ङिडौं” “डित्यन्त्य०” “अवर्णस्ये” सौ नवेतौ । त्रिपदमिदं सूत्रम् । “आमध्ये" इति सूत्रेण प्रथमै५कवचनं सिः । पटु १-१ " ह्रस्वस्य गुणः” पटो इति अनेन असन्धिः, पक्षे " ओदौतोऽवाव्" इत्यवादेशे पटविति, पक्षेऽस्पष्टो वकारः, पक्षे पदान्तेऽयायवावाम् इति वकारलोपे पट इति । रूपचतुष्टयसूचकचतुष्कः ॥ ७ ॥ सूत्रम्
७२
वाऽत्यसन्धिः ॥ ८ ॥ [ सि० १ २ ३१ ]
गोरोकारस्याति परेsसन्धिर्वा स्यात् । गो अग्रम् गवाग्रम् गोऽयम् ॥ ८ ॥
१०
वात्य० । वा १ - १ " अव्ययस्य" । अत् ७-१ अति । न सन्धिः असन्धिः १-१ “सो रुः" "रः पदान्ते ०” “समानानां०” “इवर्णादे० " । त्रिपदमिदं सूत्रम् । गोरप्रम् “षष्ठ्ययत्नाच्छेषे” इति षष्ठीतत्पुरुषे गो अगं, पक्षे "स्वरे वाऽनक्षे” इति विकल्पेन अवादेशः गवाग्रम्, पक्षे “एदोतः पदान्तेऽस्य लुक्” इति विकल्पद्वये त्रैरूप्यम् ॥ ८ ॥ सूत्रम् -
ऋलृति हखो वा ॥ ९ ॥ [ सि० १ २ २]
१५ ऋति लति च परे समानानां ह्रस्वो वा स्यात् । स्वविधानसामर्थ्यादसन्धिः । इदमेव हस्वस्यापि हस्वविधाने फैलम् । बाल ऋश्यः । बालः ॥ ९ ॥
ऋश्व लश्च ऋलस्तस्मिन् ऋत् ७-१ । हस्व १-१ " सो रुः” । वा १ - १ " अव्ययस्य" । " घोषवति” “अवर्णस्ये०” ऋऌति ह्रस्वो वा । त्रिपदमिदं सूत्रम् । स्वविधानसामर्थ्यादिति - यदि ह्रस्वं कृत्वापि सन्धिकरणमिष्टं स्यात्तदा ह्रस्वं किमर्थं कुर्यादिति ह्रस्वे कृते सन्धिर्न स्यादित्यर्थः । बालाया ऋश्यः बाल२० ऋश्य इति स्थिते अनेन हवे असन्धौ च बाल ऋश्यः, पक्षे "अवर्णस्ये ० " बालर्थः । एवं बालस्य ऋश्य इत्यत्र अनेन ह्रस्वस्यापि ह्रस्वः, तत्फेलं च असन्धिरेव । ऋश्यो मृगविशेषः ॥ ९ ॥ सूत्रम्-ह्रस्वोsपदे वा ॥ १० ॥ [ सि० ११२२२ ]
इ उ ऋ ऌ वर्णानामस्खे स्वरे परे हस्वो वा स्यात् । न चेत्तौ निमित्तनिमित्तिनावेकत्रपदे स्याताम् । नदि एषा । मधु अत्र । एकपदे तु नद्यौ । अ इ उ वर्णानां विरामेऽनुनासिको वा २५ सामँ साम । दधिं दधि ॥ १० ॥
इति महोपाध्याय श्रीकीर्तिविजयग णिशिष्योपाध्याय श्रीविनय विजय गणिविरचितायां हैमलघुप्रक्रियायां असन्धिः समाप्तः ।
33
हस्वो० । ह्रस्व १-१ " सो रुः " न पदं अपदं तस्मिन् अपद ७-१ "अवर्णस्ये ० । "अतोऽतिरोरुः” “अवर्णस्ये ०” “एदोतः पदान्ते०" वा १-१ “ अव्ययस्य" । त्रिपदमिदं सूत्रम् । नदी एषा इति स्थिते अनेन हवे असन्धौ च नदि एषा । नदी १-२ औ अत्र एकपदत्वात् असन्धिर्न स्यात् ततः ३० “इवर्णादेर०” नद्यौ । * अ इ उवर्णानामिति अत्रेदमनुसन्धेयम् [ अ इ उ वर्णस्याम्तेऽनुनासिकोऽनीदादेः सि० १।२।४१ इति सूत्रम् ] “ईदूदेद्विवचनम्" इत्यादिसूत्रोक्तानामेषामनुनासिको न स्याद्यथा ३२ अमी अमी किमु ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org