________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे असन्धिप्रकरणम् अत्र प्रथमतृतीयरूपयोः “इवर्णादेर०" इति वत्वे प्राप्ते अनेन असन्धिः स्यात् । अदस् १-३ "आढेरः” स अ "लुगस्यादेत्यऽपदे" "लोकात्" इत्यकारयोगे अद इति जाते "मोऽवर्णस्य" इति दस्य मः अम इति जाते “जस इः" "अवर्णस्ये०" अमे इति जाते "बहुष्वेरी:" एकारस्य ई: अमी अश्वाः १-३ "अत आः स्या०” अनेन असन्धिः ॥ ४ ॥ सूत्रम्
चादिः स्वरोऽनाङ् ॥ ५॥ [सि० १॥२॥३६ ] आवर्जश्वादिः स्वरः सन्धि नैति । अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवम् मन्यसे । अनाङिति किम् ? आ इहि एहि ॥५॥
चादि०। च आदिर्यस्य स चादि १-१ “सो रुः" "र: पदान्ते०", स्वर १-१ “सो रुः" र, न आङ् अनाङ्, अनाङ् १-१ "दीर्घङया." "अतोऽति रोरुः" "एदोतः पदान्तेऽस्य लुक" । त्रिपद. मिदं सूत्रम् । स्वराश्चादिष्वव्ययेषु पठ्यन्ते । अ.१-१ "अव्ययस्य" अपपूर्वक 'इणक् गतौ' पञ्चमी-१० हि अपेहि अत्रानेन असन्धिः । इ १-१ "अव्ययस्य" इन्द्र' २-१ "समानादमोऽतः” इन्द्रं दृश्रृं प्रेक्षणे' "श्रौतीत्यादिना" दृशः पश्यादेशः "अतः प्रत्ययालुक्” हिलुप् पश्य । उ १-१ "अव्ययस्य" उत्पूर्वक 'ष्ठां गतिनिवृत्ती' ष्ठाधातुः “षः सोष्टयै०” षः सः, निमित्ताभावे नैमित्तिकस्याप्यभाव इति ठस्य थः स्था पञ्चमीहि श्रौतीत्यादिना तिष्ठादेशः "अतः प्रत्य०” उत्तिष्ठ । अ इति निर्भर्त्सने यथा अ अपेहि दूरीभव । इ इति सम्बोधने विस्मये वा । उ इति सम्बोधने रोषोक्तौ वा । आ एवम् १-११५ "अव्ययस्य" 'बुधिं मनिंच ज्ञाने' मन्, वर्तमाना “दिवादेः श्यः" मन्यसे । आवर्जनात् आङः सन्धिः स्यात् , आङ् 'इण्क् गतौ' पञ्चमीहि "अवर्णस्ये." एहि । उक्तं च "ईषदर्थे क्रियायोगे मर्या विधौ च यः । एतमातं डिन्तं विद्याद्वाक्यस्मरणयोरङित्" ॥१॥ क्रमेणोदाहरणानि आ ईषत् उत्तमः आत्तमः, क्रियायोगे आ ईक्षसे एक्षसे । आ अमृतात् आमृतं मोक्षं मर्यादीकृत्य । आ इन्द्रतः ऐन्द्रतः इन्द्रम. भिव्याप्येत्यर्थः । आ इति आक्षेपे, आ एवं किल मन्यसे इति वाक्ये, आ एवं जिनवचनमिति स्मरणे, २० अनयोरर्थयोरङित् अत्र सन्धिर्न भवति । मर्यादा च अभिविधिश्च तस्मिन् मर्यादाभिविधावित्यत्र नपुंसकत्वेऽपि लिङ्गानुशासनमनित्यमिति न नोऽन्तः ॥ ५ ॥ सूत्रम्
ओदन्तः ॥ ६॥ [सि० १२॥३७ ] चादिः खरे सन्धि न भजते । अहो अत्र ॥ ६ ॥
ओद० । ओत् अन्ते यस्य स ओदन्त १-१ "सो रुः” रः पदान्ते०” । एकपदमिदं सूत्रम् । अत्र २५ सूत्रस्यातिस्पष्टत्वात् सापेक्षं वृत्त्यंशमाह-चादिः स्वर इति, ततश्च सूत्रवृत्त्योः सङ्कलितयोरर्थव्यक्तिर्भवति, ओदन्तश्चादिः स्वरे सन्धि न भजते इति । एवमन्यत्रापि सूत्रवृत्त्योः सङ्कलनेऽर्थव्यक्तिज्ञेया । अहो १-१ अत्र १-१ "अव्ययस्य” अनायं विशेष:-"ॐ चोञ्" [ सि० १।२।३९] उज चादिरितौ परेऽसन्धिर्वा स्यात् असन्धौ च ॐ दीर्घोऽनुनासिको वा स्यात् । उ इति ॐ इति विति । अञ्वर्गात् खरे वोऽसन्" [सि० ११२।४०] बकारवर्जवर्गेभ्यः पर उञ् स्वरे परे वकारो ३० वा भवति सचासन् । क्रुास्ते क्रुङ् आस्ते । किम्वावपनं किमु आवपनम् असत्वात् "हस्वान् पनो द्वे” इति द्वित्वं भवति "तौ मुमो व्यञ्जने वौ” इति न भवति-किम्वुष्णं किमु उ उष्णं, किम्विति किम इति, किम्विति ॥६॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org