________________
19.
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
ईदूदेद्विवचनम् ॥ ३॥ [सि० १॥२॥३४] एते त्रयो द्विवचनान्ताः सन्धि नाप्नुवन्ति । मुनी इह । साधू एतौ। माले इमे । पचेते इति ॥३॥
ईदू० । ईञ्च ऊच्च एच ईदूदेत् १-१ "अनतो लुप्" द्वावौँ वक्तीति द्विवचनं "रम्यादिभ्यः कर्त्तरि" इति अनट्प्रत्ययः १-१ "अतः स्यमोऽम्” । द्विपदमिदं सूत्रम् । मुनी १-२ “इदुतोऽस्लेरीदूत्” मुनी इह। ५साधु १-२ “इदुतो०" साधू एतौ । माला १-२ "औता" माले इमे । 'डुपची पाके' पच् वर्तमानाआते “कर्तर्यनद्यः श” अ. “आतामाते आथामाथे आदिः" इ, पचेते इति । *"विशेषणमन्तः" अभेदेनोक्तोऽवयवो विशेषणं तद् विशेष्यस्य समुदायस्यान्तः स्यात् । ततो द्विवचनान्तमीदूदेत् सन्धि न प्रामोतीति ईदूदेतो विशेष्यत्वे द्विवचनस्य विशेषणत्वे माले इत्यत्र प्राप्नोति न तु पचेते इत्यत्र, ईदू
देदन्तं द्विवचनं सन्धि न प्राप्नोतीति द्विवचनस्य विशेष्यत्वे ईदूदेतो विशेषणत्वे पचेते इत्यत्र प्राप्नोति न १० तु माले इत्यत्र, उभयोर्विशेषणत्वे समुदायस्य विशेष्यत्वे न कोऽपि दोष इत्याह-ई ऊ ए इत्येवमन्तं द्विव
चनान्तमिति । नन्वेवं कुमार्योरगारं कुमार्यगारमित्यत्राप्यसन्धिः प्राप्नोति कुमारी इत्यस्य ईदाद्यन्तत्वात्प्रत्ययलक्षणेन द्विवचनान्तत्वाच मैवम् अत्र सन्ध्यधिकारे प्रत्ययलक्षणानाश्रयणात् । भाष्येऽप्येवमयं पक्षः समर्थितोऽस्तीति ज्ञेयम् । द्विवचनान्तमिति स्यादित्यादिविभक्तिद्विवचनान्तमिति ज्ञेयम् । यत्तु केचित्
"मणीवोष्ट्रस्य लम्बेते [प्रियौ वत्सतरौ मम"] इत्यादिप्रयोगदर्शनान्मणीवादिगणवर्जमसन्धिरिति वदन्तो १५मणीव, दम्पतीव, रोदसीवेत्यादिषु सन्धि मन्यन्ते तदपरे न सहन्ते, "मणी इवोद्भिन्नमनोहरत्विषा” इति दर्शनात्पूर्वोक्तप्रयोगस्य च वशब्देनैवोपमार्थेन सिद्धत्वाच्च । यत्तु नैषधीये "स्फुटोत्पलाभ्यामलिदम्पतीव तद् विलोचनाभ्यां कुचकुड्मलाशया । निपत्य बिन्दू हृदि कजलाविलौ मणीव नीलौ तरलौ विरेजतुः ॥ १॥” इति । तत्रापि वशब्द एवौपम्ये । तथोक्तमनेकार्थे-“वः पश्चिमदिगीशे स्यादौपम्ये
पुनरव्ययम्” इति । प्रयोगेऽपि "शात्रवं व पपुर्यशः" इति कालिदासः । अन्यत्रापि “कादम्बखण्डित२० दलानि व पङ्कजानि" इत्यादि ॥ ३ ॥ सूत्रम्
अदो मुमी ॥ ४॥ [सि० २३५] अदस्सम्बन्धिनौ मुमी सन्धि नामुतः । अमुमु ईचा । अमी अश्वाः ॥४॥
अदो० । मुश्च मीश्च मुमी अदसो मुमी अदो मुमी १-२ सूत्रत्वात् औलोपः । एकपदमिदं सूत्रम् । अदस् १-१ 'अञ्चू गतौ च' अञ्चूधातुः अमुमश्चति इति कि "अञ्चोऽन याम्” इति नलोपे अदस् २५अच् इति स्थिते "सर्वादिविष्वग्देवाडद्रिः क्यञ्चौ” ( ३।२।१२२) किबन्तेऽश्वौ परे एभ्यो डद्रिः स्यादिति अदस्परो इद्रिः प्रत्ययः । “अप्रयोगीत्" किप्लोपः "डित्यन्त्यस्वरादेः” इति अचूलोपे अदद्रि अच् इति स्थिते । “वाद्रौ” (२।११४६) अदसोऽद्रावन्ते दोम्या स्यात् । तत्र मतचतुष्टयं तथाहु:-"परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिदिच्छन्ति
नोभयोः"॥१॥ इति द्वितीयदकारस्य मत्वे * "मादुवर्णोऽनु" (२।१।४७) अदसो मः परस्य वर्णस्य उवर्णः ३० स्यात् इति रकारस्य उत्वे अदमु ३ अच् इति स्थिते "इवर्णादे." इकारस्य यत्वे अदमुयच् इति जाते १-१
"अचः नुमागमः "पदस्य" इति लोपे "युजञ्चक्रुश्चो नो ङः” इति नकारस्य कारः ततः अदमुयङ् इति सिद्धं पूर्वदकारस्य मत्वे तत्सम्बन्धिनः अकारस्य उत्वे अमुव्यङ् उभयोकारयोर्मत्वे अमुमुयङ् उभयोरपि मत्वाभावे अदयङ् एवं सर्वत्र रूपचतुष्टयं भवति । ततश्च अदमु इ अच् ३-१ आ इति स्थिते
"अच् प्राग्दीर्घश्च" (२।१।१०४) इति सूत्रेण शसादौ खरे परे अचश्च इत्यादेशः पूर्वस्वरस्य च दीर्घः ३५ ततस्तृतीयैकवचनेऽपि धातुरूपं स्यात् । अदमु ईचा १ अमुद्रीचा २ अमुमु ईचा ३ अदद्रीचा ४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org