________________
४५२
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः प्रकारेणेव अर्थग्रहणप्रकारेणापि अन्यस्यापि प्रसङ्गभयात (ङ्गः स्यात् ) अथवा, क्षणिकद्व (कत्व)प्रकारेणेव नीलादिप्रकारेणापि, अत्रापि विकल्पापेक्षणात् । यदि वा अनभ्यास [प्रकारेणेव अभ्यास] प्रकारेणापि, तदापि दृश्यप्राप्यैकत्वसमारोपभावात् [३५८ क] कथमन्यथा प्रत्यक्षं [भाविनि]प्रमाणम् ? तर्हि क [स्याः] स्यादिति चेत् ? अत्राह-संवृतीत्यादि। भेदसंवरणात् संवृतिः ५ अवयव्यादिविज्ञान (नं) तत्प्रभृतेः तदाः प्र (तत्प्र)भृतिशब्देन स्मरणादिपरिग्रहः, विकल्पस्यैव स्यात् । भवतु को दोष इति चेत् ; अत्राह-तच्च इत्यादि । प्रमाणनियमा[भावा]पत्तेः इ[ति भावः ।
__ एवं सुगतस्य 'तत्त्वदेशना कीदृशी' इति सामान्येन प्रतिपाद्य संप्रति तदुक्तनैरात्म्यलक्षणमार्गनिषे(निरो)धविशेषणा कीदृशी तत्त्वदेशना' इत्येतद् दर्शयन्नाह-नीत्ये(ते)त्यादि ।
[नीता नैरात्म्यशङ्कास्तं निर्विकल्पेतरात्मना।
सहक्रमभवान्योऽन्यव्यावृत्तकात्मसंविदाम् ॥५॥ स्वतोऽन्यतो वा स्वपरचेतसां सत्यपि सदृशेतरपरिणामातिशये , जीवोऽयं पृथक् प्रत्यात्मवेदनीयः सङ्करव्यतिकरव्यतिरेकात् स्वपरचेतसामस्खलत्तादात्म्यसामान्यगोचर
प्रत्ययविषयतां प्रथयन् स्वयं प्रतिक्षिपन्तं दुर्विदग्धबुद्धिं तिरस्करोत्येवेति अत्र किन्नश्चि१५ न्तया ? न चेत्तमोविजृम्भणम् । स्वपरदर्शनविकल्पक्रमपरिणामस्वभावजीवमन्तरेण एकान्तविशेषाणां क्षणस्थितेरदृष्टेरनुपपत्तेश्च ।] ।
नीता प्रापिता अस्तम् अभावम् । का ? इत्याह-नैरात्म्य शङ्का नेन (केन ?) इत्याह-निर्विकल्पतरात्मना इति । निर्विकल्प इतरश्च स्व (स)विकल्पः आत्मा स्वभावो
यस्य विकल्पज्ञानस्य तेन । तदुक्तम् अत्रैव प्रथमपरिच्छेदे *"प्रतिभासैक्यनियम" [सिद्धिवि० २० १।१०] इत्यादिना । केषाम् ? इत्याह-सह इत्यादि । सहक्रमाभ्यां भवती (न्ती)ति सह
क्रमभवाः ताश्च ताः अन्योऽन्यं परस्परं व्यावृत्ता स्वे (श्च) पुनरपि तास्ताः एकात्मनः(त्मानः) एकसन्तानश्च (नाश्च) संविदश्च तासाम् इति ।
अन्ये 'क्रमभावान्यान्यतावृत्ते कात्मसंविदा'. (क्रमभवान्योऽन्यव्यावृत्तैकात्मसम्बन्धिसंविदाम् ) इति पठन्ति । तत्रायमर्थः-कमभवाश्च अन्योऽन्यव्या२५ वृत्ताश्च सुखाद (य) स्तेषु एकस्यात्मनो जीवस्य या सम्बन्धितया(धिन्यः)[संविदः तासाम्] इति । स्वरप (स्वपर) प्रसिद्ध्या युक्त (क्त) द्वयमत्र ।
स्यान्मतम्-क्वचिज्ज्ञाने सविकल्पेतराकारयोः एकत्वदर्शनानुक्र (नात् क्रम)संविदामेकत्वसाधनमयुक्तम् , अन्यथा अर्के कटुकत्वदर्शनार्थ (नात्) गुडेऽपि किन्न तत्साध्यते ? प्रत्यक्षबाधनं क्रमविदामेकत्वसाधनेऽपि । [३५८ ख] । ___ तास (ननु न तासा) मेकत्वं चेतनारूपतां विहाय अपरं प्रत्यक्षगम्यम् । तेंद्र पता च सन्ताना
(१) सुगतोक्त । (२) निर्वाण । (३) ग्रन्थे । (४) व्याख्याकाराः । (५) कटुकत्वम् । (६) तासां क्रमसंविदाम् । (७) चेतनारूपता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org