________________
७६ ]
नित्यात्मनः सिद्धि
४५३
न्तरापेक्षयापि इति सर्वात्मनामेकात्मकत्वम् । देशादिभेदो 'विवक्षित संविदामपि इति नात्मसिद्धिः । ए[ते]न द्वितीयं व्याख्यानं चिन्तितमिति चेत्; अत्राह - स्वतोऽन्यतो वा इत्यादि । स्वा [नि] स्वसन्तानपतितानि [पराणि] पुत्राणि (दि) सन्तानान्तरभूतानि तानि च तानि चेतांसि तेषां सत्यपि विद्यमाने ( Sपि ) सहशेतर परिणामा विषये (तिशये) विसदृशपरिणामातिशये । कुतः ? इत्याह- स्वतः सोपादा (स्वोपादा) नकारणा [ तू अ] न्यतो वा सहकारिकारणात् वेति ५ समुच्चये । तदुक्तम्-*“स्वतोऽन्यतो वा विवर्त्तेत क्रमा [द्] हेतुफलन्याति (लात्मना ) ।” [सिद्धिवि०३।१९] इति । तस्मिन् सत्यपि कुतः किं कुर्वन् कः किं करोति इत्याह-सङ्करेत्यादि । जीवो य (ऽयं) स्वसंवेदनाध्यक्षविषयः तिरस्करोत्ये [व] । कम ? इत्याह- दुर्विदग्धबुद्धिं सौगतं चार्वाकं च । किं कुर्वन्तम् ? प्रतिक्षिपन्तम् । किम् ? स्वयं जीवमेव । केषां कुर्वन्ति इत्याह- स (स्व) परचेतसामस्खलत्तादात्म्यसामान्यगो [चर ] प्रत्ययविषयतां स्वचेतसाम् १० अस्खलत्तादात्म्यप्रत्ययविषयतां पराद (परचे) तसां स्वापेक्षयाऽस्खलत्सामान्यप्रत्ययविषयतां प्रथयन् प्रसिद्धिं तदा न (तन्वन् ) । कुतः ? इत्याह-सङ्कर इत्यादि । संङ्करे (रः ) स्वस्वचेतस्सु तादात्म्यप्रत्ययविषयतावत् सामान्यप्रत्ययविषयता, परचेतस्सु सामान्यप्रत्ययविषयतावत् [ता] दात्म्य प्रत्य [य] विषयता, व्यतिकरश्च स्वचेतस्सु तथाविधसामान्यप्रत्ययविषयता परचेतस्सु तादात्म्यप्रत्ययविषयता [३५९क] तयो र्व्यतिरेकोऽभावः तस्मात् तं वा प्राप्य ।
१५
नैनु सर्वत्र एक एव जीवः, इति न युक्तं 'स्वतः' इत्यादिकमिति चेत् ; अत्राह - पृथग् इति । पृथग् भिन्नः । किंभूतः ? प्रत्यात्मवेदनीयः, अत्र अस्मिन् न्याये सति जीवे वा किं नश्चिन्तया अनुमानेन ? किमर्थं तर्हि तंत्र [क्र] मोपलब्धि' इत्यादि वक्ष्यते तद् इति चेत् ? अत्राह-न च (चेत् ) इत्यादि । तमसोऽज्ञानस्य विजृम्भणं [ चेत् ] यदि न तर्हि किन्न - श्चिन्तया । तद्विजृम्भणात् तदिष्यते, तद्व्यवच्छेदार्थमिति भावः । कस्य ? इत्याह-एका २० (न्त) इत्यादि । स्वपरचेतसां तद्विषयतां प्रथयन् इति । एतदपि कुतः ? इत्याह- स्वपरेत्यादि । स्वपरयोः दर्शनं चावग्रहो विकल्पश्च स्मरणादिः तावेव क्रमपरिणामः स एव स्वभावो यस्य स तथोक्तो जीवोऽन्यपदार्थः तमन्तरेणाऽदृष्टेः । कथम् ? इत्यत्राह - एकान्तविशेषाणाम् । परस्परं विशिष्यन्ते इति विशेषा द्रव्यादयः अत एव तंद्वादी वैशेषिक इत्युच्यते, एकान्तेन विशेषा एकान्तविशेषा[:]तेषामिति । न केवलं तेषामेव अपि तु क्षणस्थिते: 'च' शब्दोऽत्र द्रष्टव्यः, २५ अदृष्टेरिति । हेत्वन्तरमाह - अनुपपत्तेश्व इति । 'एकान्तविशेषाणां क्षणस्थितेश्च' इति
सम्बन्धः ।
तदनुपपत्तिं दर्शयन्नाह - क्रमोपलब्धि इत्यादि ।
[क्रमोपलब्धिनियमात् स्यादभेदः स्वसंविदाम् ।
सुखःदुखादिभेदेऽपि सहवीक्षानियामवत् ॥६॥
(१) क्रमभाविनीनां संविदाम् । ( २ ) सर्वेषां युगपत्प्राप्तिः सङ्करः । ( ३ ) परस्परविषयगमनं व्यतिकरः । (४) अस्खलत् । (५) वेदान्तवादी प्राह । (६) जीवे । (७) अग्रिमश्लोके । (८) अनुमानम् । (९) अनुमानम् । (१०) विशेषपदार्थवादी ।
Jain Education International
For Personal & Private Use Only
-
३०
www.jainelibrary.org