________________
४५४
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः भेदैकान्तेऽपि क्षणिकस्य उत्पत्तिविनाशयोस्तादात्म्यं सिद्धं क्रमोपलम्भनियमात् । हेतुफलविनाशोत्पादयोः समानकालोपलम्भाभ्युपगमात् । न च स्थितिरेव भावस्य विनाशः यतः सहोपलम्भनियमः । विधिमुखप्रतिषेधफलो हि नियमः । क्षणस्थितेः प्रत्यक्षानुपलम्भयोः बहिरपेक्षया विना एकस्वभावविषयतानुपपत्तेः। तथा च सहोपलम्भनियमात् ५ हेतुफलविनाशोत्पादयोरैक्यं स्यात् , यतः 'पूर्वस्य वैकल्यमपरस्य कैवल्यम् । न चान्यो
ऽन्यविरुद्धस्वभावयोरनयोः कथञ्चित्तादात्म्यं विरुद्धम् निश्चय · · स्थित्या सह जन्मविनाशयोरैक्यमुपयन् कालादिभेदेऽपि सुखादिव्यापिनं प्रत्यक्षं भावं कथं प्रतिक्षिपेत् ? स्वलक्षणं परस्परव्यावृत्तिलक्षणं यतः प्रतिक्षणं त्रिलक्षणम् ।]
___ स्वस्य स्वा वा संविदः स्वसंविदः स्वसंविदो न परसंविदः तासाम् । किम् ? इत्याह१० अभेद ऐक्यम् । तर्हि विवक्षितैकक्ष[ण]मात्रः स्यादात्मा सर्वस्य तत्र प्रवेशात् इति [स्यात्] कथश्चित् न सर्वात्मना इति । ___ स्यान्मतम्-सुखदुःखादिभेदाद् भेद एव तासां भेद इति; तत्राह-सुखदुःखादिभेदेऽपि क केवलम् अभेदे । [३५९ख]
ननु [भेदाभेदयोरन्योऽन्यपरिहारस्थितलक्षणयोः किमिव ऐक्यमिति चेत् ? अत्राह१५ 'सहवीक्ष्या(क्षा) नियामवत्' इति । वि चित्रा नाना विभ्रमेतराद्याकारा ईक्षा दृष्टिः
वीक्षा तस्या नियमः (नियामो)ऽवश्यम्भावः, अन्यथा सकलशून्यता इत्युक्तम् , सहवीक्ष्यानियम (वीक्षानियाम)स्य इव तद्वदिति ।
अथ मतम्-न दृष्टान्तमात्रात् साध्यं सिध्यति अतिप्रसङ्गात् अपि तु हेतोः, अतः स एव उच्यतामिति; तत्राह-क्रम इत्यादि। पूर्वम् उपादानस्य पुनः उपादेयस्य उपलब्धिः क्रमेणो२० पलब्धिः तस्या नियमात् इति ।
ननु यद्यपि कदाचित् घटपटयोरुपलब्धिः तथापि नियमाभावात् नैक्यमिति सिद्ध्यति, तथापि यथा सहभाविनां सन्तानान्तरसंवितक्षणानां भेदेऽपि सहोपलम्भनियमस्य भावाद् व्यभिचारः तथा क्रमभाविनां तेषामेव क्रमोपलम्भनियमस्य भेदेऽपि भावाद् व्यभिचारस्तदवस्थ एव निशादिवसयोश्च इति चेत् ; उच्यते-क्रमशब्देन प्रक्रमाद् उपादानोपादेयभूतस्वपरदर्शन-विकल्प२५ क्रमो गृह्यते तस्योपलब्धेः, अन्यथाऽभावो नियमः, तस्मादिति । एतदुक्तं भवति-स्वसंविदां
पूर्वस्याः पूर्वस्या उपादानत्वेन परस्याः परस्या उपादेयत्वेन च येयं क्रमेणोपलब्धिः तस्या नियमाद् अन्यथानुपपत्तेः [३६०क] तासां स्यादभेद इति । अत एव दृष्टान्तापेक्षणमत्राऽयुक्तम् ।
अन्ये पुनराचार्याः क्रममविशिष्टमादाय तदुपलब्धः नियमाद् अवश्यम्भावात इति
(१) तुलना-"तस्यान्यस्य प्रदेशस्य केवलस्य यत्तत् कैवल्यम् एकाकित्वमसाहयता तदेव अपरस्य प्रतियोगिनो घटादेः वैकल्यम् अभाव इति ।"-हेतुबि०, टी. पृ० १८८ । (२) बौद्धः प्राह । (३) संविदाम् । (४) नियमः नियामः इत्येकाौँ । (५) चशब्द इवार्थः । (६) प्रकरणात् । (७) संविदाम् । (6) व्याख्याकाराः । (९) साधारणं न तु उपादानोपादेयतया क्रमम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org