________________
७६] नित्यात्मनः सिद्धिः
४५५ हेतुमभिधाय सहवीक्ष्या(क्षा)नियामवत् सहोपलम्भनियामवत् इति दृष्टान्तं ब्रुवते ; तेषां कथमुक्तव्यभिचारंपरिहारः तत्र क्रमोपलब्धिनियमा [मभावेऽपि अभेदा] भावात् ? कथन्न साधनविकलता दृष्टान्तस्य उपलम्भनियममात्रस्य भावेऽपि सकलहेतोरभावात् । न चानेकशः स्वयं दूषितं पुनः स्वपक्षसिद्धये अङ्गीकर्तुं युक्तम् । साध्यविकलता च वादिनं प्रति, नीलज्ञानयोस्तेन अभेदानभ्युपगमात् । परापेक्षया इदं निदर्शनमिति चेत् ; तं प्रति साध्यविकलता, ५ कथश्चिदभेदस्याऽनभ्युपगमात् । तन्न किश्चिदेतत् । ।
___परेणापि अतो हेतोः क्षणिकस्य उत्पादविनाशयोः तादात्म्यम् अभ्युपगम्यमिति पायत् (पातयन्) कारिकां व्याचष्टे भेदैकान्तेऽपीत्यादिना । न केवलं स्यादभेदे अपि तु भेदैकान्तेऽपि सौगतवैशेषिकसम्बन्धिन्यभ्युपगम्यमाने क्षणिकस्य भावस्य प्रध्वंसवत् (वतः) उपलक्षणमेतत् तेन अनित्यस्य सर्वस्य ग्रहणम् , यौ उत्पत्तिविनाशौ तयोस्तादात्म्यं कथञ्चिदेकत्वं सिद्धम् । १० कुतः ? इत्याह-क्रमोपलम्भनियमाद् इति । पूर्वम् उत्पत्तः, पुनः तत्परिणामस्य विनाशस्य उपलम्भः तस्या (तम्य) नियमात् । यदि पुनः उत्पद्यमानात् उत्पत्तिः अन्याँ स्यात् ; तया तत्सम्बन्धाभावा[त्] न कश्चित् तद्वान् इति न कश्चित् उत्पद्येत इति, न विनश्येत् खरविषाणवत् , अन्यथा आत्मादेरपि तत्सम्बन्ध इति [३६० ख] सोऽपि उत्पद्यते इति स्यात् ।।
अथ 'प्रागसतः स्वकारणसमवायः सत्तासमवायो वा उत्पत्तिः", न सा आत्मादेः सर्वदा १५ सत्त्वात्' इति मतिः ; कुतः प्राक् ? 'उत्पत्तेः' इति चेत् ; कस्योत्पत्तेः ? घटादेरिति चेत् ; उक्तमत्र भिन्ना कथं तस्य ? [अन्यथा ] आत्मादेरपि न (पि सा) स्यादिति । न च निराश्रया सा, इति कथं पूर्वं तदुपलम्भः ? खरविषाणवत् अलब्धात्मरूपस्य कः स्वकारणेन सत्तया वा समवायः ? लब्धात्मरूपत्वे "तदेवोत्पत्तिः इत्यलं भिन्नोत्पत्तिकल्पनया ।।
तथा यदि भावाद् विनाशोऽन्यः, न तेन तस्य सम्बन्ध इति कथं भावो विनष्टो] नाम, २० अतिप्रसङ्गात् । भावो विशेष्यः अभावो [विशेषणम् अतः] विशेषणीभावस्तेन" तत्सम्बन्ध इति चेत् ; विशेषणकाले विशेष्यसद्भावे युक्तो विशेषणविशेष्यभावः, किन्तु कथं भावे सति अभावः ? नहि जीवत एव देवदत्तस्य मरणम् । भावयोः सहदर्शनं च नीलोत्पलयोरिव । अर्थावे (अथ वि) नाशेन प्रच्छादनान्न भान्न भावोपलम्भः ; तर्हि न 'तदनुरक्तभावोपलम्भः इति । न च विनाशो विशेषणम् । स्वानुरक्तं विशेष्ये प्रतीतिमुपजनयत् विशेषणमुच्यते ; नीलत्वं 'तँदनुरक्तं २५ तत्प्र (रक्तोत्पल प्र) तीतौ वा, न तत्प्रच्छादनम् (दकम् ) । यदि पुनर्न विनाशसमये भावसद्भावः; कथमन्यकालेऽन्यस्याभावो यद्यसौ स्वयं निवर्तेत, अन्यथा पटोत्पत्तिकाले घटाभावः स्यात् ।
(१) सन्तानान्तरसंवित्तिभिः क्रमवार्तिनीभिः । (२) 'क्रमोपलम्भात्' इति समग्रस्य हेतोः । (३) वादिना । (४) विज्ञानवाद्यपेक्षया । (५) क्रमोपलब्धिनियमात् । (६) दूषणं ददन् । (७) भिन्ना । (6) उत्पत्तिवान् । (९) आत्मादिरपि । (१०) "स्वकारणसत्तासम्बन्धः, तेन सता कार्यमिति व्यवहारात् ।"-प्रश० व्यो० पृ० १२९ । (११) 'घटः' इति व्यपदिश्येत । (१२) भिन्नापि यद्युत्पत्तिः घटादेर्व्यपदिश्यते तदा । (१३) लब्धात्मरूपत्वमेव । (१४) भावेन । (१५) विनाशसम्बन्धः। (१६) 'भान्न' इति पुनर्लिखितम् । (१७) विनाशोपरक्तः विनष्ट इत्यर्थः । (१८) नीलानुरक्त ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org