________________
सिद्धिविनिश्चयटीकायाम्
[७ शास्त्रसिद्धिः असम्बन्धान्नेति चेत् ; कः पुनः भावविनाशयोः सम्बन्धः ? विशेषणीभावश्चेत् ; उक्तमत्र"तस्यापि ताभ्यां भेदात् , सोऽपि तयोः कथम् ] इति ? सम्बन्धान्तरकल्पने अनवस्था । तदभावेपि सा (स) तयोरिति चेत् ; [३६१ क] समवायाद्यभावेऽपि गुणादयः तद्वतः स्युः अविशेषात् । न स कस्यचिद् इत्यपि नोत्तरम् ; अध्यक्षेण तदग्रहणप्रसङ्गात् , इन्द्रियेण तद५ सन्निकर्षात् । सन्निकर्षे वा, स न संयोगः ; तत्सम्बन्धस्याऽद्रव्यत्वात् । नापि संयुक्तसमवायादिः : तत्स्वातन्त्र्यापगमात् । साक्षात् सन्निकर्षे सुखादावपि तथैव इत्यलं तत्र सम्बन्धसम्बन्धकल्पनया । तन्न भावविनाशोप्य (नाशयो) विशेषणीभावंध (भावः सम्बन्धः) । विरोध इत्येक ; सोऽपि न युक्तः : अग्निनेव शीतस्य तेन भावर्त्तनात् (भावानिवर्तनात् ।) न वा
(चाड)निवर्त्तको धर्मो विरोधी नाम, अतिप्रसङ्गात् । निवर्त्तने वाऽस्य ततो व्यतिरेकप्रसङ्गः १० पूर्ववद्भवेद् अनवस्था च । अव्यतिरेके विनाशेन क्रियमाणो विनाशः तदव्यतिरिक्तो नान्य इति न युक्तो विभागः । ततः सूक्तम्-क्रमोपलम्भ इत्यादि ।
ननु भवतु 'क्षणिकस्य उत्पत्तिविनाशयोः तादात्म्यं सिद्धम्' इति, तत्तु न क्रमोपलम्भनियमात् , अपि तु सहोपलम्भनियमादिति चेत् ; अत्राह-'हेतु' इत्यादि । हेतुः कारणम्
फलं कार्यम् तयोर्यथासंख्येन यो विनाशोत्पादौ तयोः समानकालोपलम्भाभ्युपगमात् । १५ तथाहि-यदैव मृत्पिण्डस्य विनाशोपलम्भः तदैव शिवकोपलम्भः न पुनर्हेतुविनाशोत्पादयोः, इत
रथा उत्पादविनाशयोः परस्परं विरोधिनोः एकत्र एकदा भावेन बाध्यबाधकभावे न किञ्चित् स्यादिति मन्यते । विनाशः फलात्मया विविक्तता, सा च तस्य उदयकाल एव प्रतीयते इति ; तदसत्यम् ; यतः तथाभ्युपगमात् । यथैव हि फलकाले हेतोरभावः प्रतीयते तथा हेतुकाले
[३६१ख फलस्यापि केवलं नस्त (नष्ट) रूपस्य तदभावः । एतदेवाह-न च इत्यादिना । न २० च नैव स्थितिरेव उत्पत्तिसमय (मव)स्थानमेव भावस्य विनाश [:] स्वरूपस्य निवृत्तिः
सहोपलम्भनियमो यतः स्थितिरेव विनाशात् [शः] स्यात् । यतः इति वा आक्षेपे, यतः सहोपलम्भनियमः स्यात् । नैव स्यात् , स्थित्या विनाशस्य तेन स्थितेर्बाधनात् । एतदपि कुतः ? इत्यत्राह-विधि इत्याह (दि) । यदा हेतोः उत्पादस्य तदा विनाशस्य उपलम्भो विधिः मुखं
प्रधानं यस्य प्रतिषेधस्य, न पूर्वं तदुदयस्य पश्चाद् विनाशस्य इत्येवं रूपस्य, स तथोक्तः स २५ एव फलं यस्य सोऽपि तथोक्तः । कोऽसौ ? इत्याह-नियमः । हि शब्दो यस्मादर्थे । न च विधिरत्रास्ति इति दर्शयन्नाह-क्षणस्थितेः इत्यादि । क्षणस्य परकल्पितस्य या स्थितिः आत्मलाभः तस्याः यो प्रत्यक्षानुपलम्भौ [दर्शना] दर्शने तयोः एकस्वभावविषयतानुपपत्तेः एकस्वभावो विषयो ययोः तयोर्भावः तत्ता, तस्या अनुपपत्तेः । केन विना ? इत्याह-बहिरपेक्षया
(6) विशेषणीभावस्यापि । (२) भावविनाशाभ्याम् । (३) सम्बन्धाभावेऽपि उत्पत्तिः (४) विशेषणीभावः । (५) द्रव्यस्य । (६) द्रव्य-द्रव्ययोरेव संयोगात् । (७) संयुक्तसमवायादिर्हि परतन्त्राणां गुणकर्मजात्यादीनां भवति । (6) संयुक्तसमवायरूपः सम्बन्धसम्बन्धः मनःसंयुक्त आत्मनि सुखादीनां समवायात् । (९) उत्पादेन विनाशस्य तेन वोत्पादस्य बाधनात् न उत्पादो विनाशो वा स्यादित्यर्थः । (१०) क्रमवर्तिनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org