________________
ভা७ ]
क्षणिकपक्षे न सन्तानादिसिद्धिः
इति । प्रथमक्षणे प्रत्यक्षं द्वितीयादौ अनुपलम्भो बहिरपेक्षया विना, युगपत् प्रत्यक्षानुपलम्भापेक्षया तदनुपपत्तेः इत्यर्थः ।
स्यान्मतम्–भवतु क्षणस्थितेः प्रत्यक्षानुपलम्भयोः बहिरपेक्षया एकस्वभावविषयतोपपत्तिः, तथा च किं स्यात् ? इत्यत्राह - तथा च इत्यादि । तथा च तेन च प्रकारेण हेतुफलविनाशोत्पादयोः ऐक्यं कथञ्चित्तादात्म्यं स्याद् भवेत् सहोपलम्भनियमात् । कुतः ? इत्यत्राह - ५ पूर्वस्य कारणस्य वैकल्यम् अभावः अपरस्य [३६२क] फलस्य कैवल्यम् यतः अनेन भिन्नमभावं निषेधति ।
ननु तोर्निवृत्तिरूपः प्रध्वंसः फैलस्य च उत्पादः प्रागसतः कारणादात्मलाभः सत्तास्वभावः, तदनयोः अन्योऽन्यविरुद्धस्वभावयोः कथमैक्यमिति चेत् ? अत्राह - न च इत्यादि । अनयोविनाशोत्पादयोः । किंभूतयोः ? इत्याह- अन्योऽन्य इत्यादि । [ अन्योऽन्यविरुद्धस्वभावयोः न च ] १० नैव कथञ्चित्तादात्म्यं विरुद्धम् तथाप्रतीतेरिति मन्यते । दृष्टान्तमाह्श्चये (माह - निश्चये) त्यादि । तर्हि हेतुफलयोः विनाशोत्पादयोः ऐक्यं यदि परोऽभ्युपगच्छेत् को दोषः स्यात् ? इत्यत्राह - जन्म इत्यादि । फलस्य यञ्जन्म हेतोर्यश्च विनाशः तयोरैक्यमुपयन् अभ्युपगच्छन् सौगतः । केन ? साहस्थित्याह स्थित्या [केन ? इत्याह- सहस्थित्या ] किं कुर्यात् ? इत्याह- भावं कथं प्रतिक्षिपेत् ? किंभूतम् ? प्रत्यक्षम् अध्यक्षपरिच्छेद्यम् | पुनरपि किम्भूतम् ? इत्याह- १५ सुख इत्यादि ।
ननु सुखदुःखादीनाम् एकसन्ततिपतितानाम् सच्चेतनाऽभेदात् यदि तद्व्यापिन (त्व) - मुच्यते तर्हि सन्तानान्तरगतानामपि तदविशेषात् तदुच्यताम् । अथात्र कालादिभेदान्नैवमुच्यते; अन्यत्रापि नोच्यतां तदविशेषादिति चेत्; अत्राह - कालादि इत्यादि । अत्र आदिशब्देन देशादिपरिग्रहः । चिन्तितमेतत् - 'स्वतोऽन्यतो वा स्वपरचेतसाम्' इत्यादिना । न ( स ) हि २० साङ्ख्यकल्पितं भावं तद्व्यापिनं कथं प्रतिक्षिपेदिति चेत् ? अत्राह - स्वलक्षणम् इत्यादि । स्व आत्मा लक्षणं यस्य स तथोक्तः तमिति । कुतः ? इत्यत्राह - परस्पर इत्यादि । परस्परं व्यावृत्तिः लक्षणं यस्य तं यतः । ‘प्रत्यक्षम् ' इत्येतदत्रापि योज्यम् । वैशेषिकादि [ ३६२ख] सम्बन्धिनं तं कथं प्रतिक्षिपेत् ? इत्यत्राह - प्रतिक्षणं त्रिलक्षणं प्रत्यक्षमिति ।
ननु च स्वसंविदां क्रमोपलब्धिनियमः कार्यकारणभावाद् एकसन्तानत्वाच्च न पुनरभेदात् २५ ततोऽन्यथासिद्धो हेतुः इति किमर्थमुच्यते - 'क्रमोपलब्धिनियमात् स्यादभेदः स्वसंविदाम्' इति चेत् ? अत्राह - कार्यकारणता इत्यादि ।
[ कार्यकारणता नास्ति क्षणिकानां क्व सन्ततिः । निरन्वयात् कुतस्तेषां सारूप्यमितरार्थवत् ॥७॥
४५७
सद्रूपसंस्थनादिविवर्त-विचित्रग्राह्यग्राहकाकारैकसाधारणज्ञानानुभवाविरुद्धं पूर्वो- ३० तरस्वभावभेदात् हेतुफलभूतं भावनैरात्म्यवादी प्रतिक्षिपतीति क्षणिकभावं समक्षमति(१) कार्यस्य । (२) सस्वेन चेतनत्वेन च अभेदात् । (३) सन्तानान्तरगतानाम् ।
५८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org