________________
४५८
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः लङ्घयति । सति क्षणिके कारणे यदि कार्य स्यात् तदिदं जगत् क्षणिकमक्रमं निःसन्तानि च स्यात् । तस्मिन्नसति भवतः कुतः पुनः तदनन्तरोत्पत्ति नियमः यतस्तदनिष्टकालोत्पत्तिनं भवेत् । सदेव तत्समर्थ कारणं स्वसत्ताकालमेव कार्य प्रसह्य जनयेत् । स्वरसतः कार्योत्पत्तिकालनियमे स्वतन्त्रस्य कुत एव कार्यत्वम् । नैरन्तर्यमात्रात् प्रभवनियमे सर्वत्र ५ सर्वेषामविशेषे कुत एव नियमः। द्रव्यस्य प्रभवनियमे न किञ्चिदतिप्रसज्यते स्वहेतूपादानस्य परप्रत्ययतायाम् । न च निरन्वयानां भावानां सादृश्यात प्रभवः सन्ततिर्वा व्यवस्थाप्येत तद्विपर्ययेऽपि तथोपलब्धः। भेदैकान्ते सादृश्यं च यथा यथा विचार्यते तथा तथा विशीर्यते नीलनिर्भासज्ञानवत् ।]
क्षणिकानां भावानां हेतुफलभावो नास्ति, तदभावात् क बहिरन्तर्वा सन्ततिः १० सन्तानः, तस्य तदात्मकत्वात् । तदभावोऽपि कुतः ? इत्यत्राह-निरन्वयात् । क्षणिकानां स्वफलकाले सर्वथा विलयात् । सत्यपि कार्यकारणा (णभावा)भावे पूर्वापरयोः सारूप्यम् एकसन्ततिव्यपदेशनिबन्धनं गत्यन्तराभावात् [स्यात् ] तच्च नास्ति इति दर्शयति-कुतः कारणात् प्रमाणाद्वा तेषां क्षणिकानां सारूप्यं समानरूपता । निदर्शनमाह-इतरार्थानामिव इति ।
स्यान्मतम्-सकलशून्यतायाः निरंशप्रतिभासाद्वैतस्य चोपगमात् न सौगतानामयं दोष इसि १५ चेत् ; अत्राह-सद्रूप इत्यादि । । 'भावं प्रतिक्षिपति' इत्ययुक्तम् , तत्प्रतिक्षेपे प्रमाणप्रतिक्षेपा
योग इति मन्यते । किंभूतम् ? इत्याह-समक्षम् । । अनेन तत्प्रतिक्षेपे प्रत्यक्षबाधां दर्शयति । पुनरपि किंभूतम् ? इत्याह-सद्रूप इत्यादि । सदिति भावप्रधानोऽयं निर्देशः । तेन सत्त्वं स्वरूपं स्वभावो यस्य संस्थानादेः, आदिशब्देन सकलक्रमभाविबाह्यधर्मपरिग्रहः, स तथोक्तः, सद्र प.
पदेन संस्थानादे[:] कल्पितत्वं निषेधति, स विवर्तो यस्य घटादेः स तथोक्तः । विचित्रौ [३६३क] २० नानाप्रकारौ यौ ग्राह्यग्राहकाकारौ तयोः एकं च तत् साधारणज्ञानं च तदपि तथोक्तम् ,
पुनरनयोर्द्वन्द्वः तयोरनुभवः तेनाविरुद्धम् । अनेनापि प्रतिभासाद्वैतमपि प्रत्यक्षबाधितं दर्शयति। तत एव क्रमानेकान्तोऽप्यविरुद्ध इति दर्शयन्नाह-हेतुफल इत्यादि । कुत एतत् ? पूर्वम् उत्तरं चेति चेत्राह (चेति, हेतुः पूर्वं फलञ्चोत्तरमिति) स्वभावभेदात् स्वरूपत्वाभावान्नावस्य (वात्
'भावस्य') इति सम्बन्धः । कः प्रतिक्षिपति इत्यादि (इत्याह-) भावेत्यादि । सौगतः इत्यर्थः । २५ अथ मतम्-'क्षणिकभावं समक्षमतिलवयति' इत्युक्तम् , (इत्ययुक्तम्) तस्य सकलहेतु
फलभावव्यवहारनिबन्धनत्वात् नान्यं विपर्ययात् इति चेत् ; अत्राह-सतीत्यादि । सति विद्यमाने क्षणिके क्षणमात्रावलम्बिनि कारणे यदि कार्य स्याद् उत्पद्यत तत परेणोपगतमिदं विचार्यमाणं जगत् स्यात् । कथम्भूतं तत् ? इत्याह-क्षणिकमिति । किम्भूतं स्यात् ? इत्याह-अक्रममेव (मेक)क्षणप्रतिष्ठं स्यात् इत्यर्थः । तथा च परलो [का]दिसाधनं परस्य स्ववचनबाधितं
. () सन्तानस्य हेतुफलभावरूपत्वात् । (२) कार्यकारणभावाभावोऽपि । (३) येन प्रमाणेन तत्प्रतिक्षेपः क्रियते तस्य भावरूपत्वादिति भावः । (४) रूपम् । (५) क्षणिकस्य । (६) सति कारणे यदि कार्य तदा सर्वेषामुत्तरोत्तरकार्यभूतक्षणानां पूर्वपूर्वकारणकाले संक्रमात् एकक्षणमान्नं जगत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org