________________
७७ ]
क्षणिकपक्षे न सन्तानादिसिद्धिः
भवेदिति मन्यते । पुनरपि किम्भूतं स्यात् ? इत्याह - निःसन्तानि सन्तानिनः उपादानोपादेयभूतक्षणाः तेभ्यो निष्क्रान्तं निरस्ते (स्तं) वा येन तन्निःसन्तानि सव्येतरगोविषाणवत् । अक्रमाणां हेतुफलभावविरोधात् इति भावः । यदि वा यत एवाक्रमत (मं तत ) एव निःसन्तानि शमात्र (क्षणसन्तान) रहितं भवेत् । पूर्वोत्तरहेतुफलयोरभावे कार्यकारणत्वादव (त्वाद्यभावः) स्यादित्यर्थः । तथापि सत्त्वे न सामान्यादिनिषेधः । एतदुक्तं भवति - स्वोत्पत्तिसमये क्षणिकं कारणं ५ सत्, तदैव कार्यभावे [३६३ख] हेतुफलयोः समसमयता इति । अथवा साम्प्रतिकं कार्यं पूर्वमुत्तरं वा कारणं स्वकाले जनयति, तदपि स्वकारणस्वकाले ( कारणकाले ) तदपि स्वकारणं स्वकाले ( कारणकाले ) इति उत्पत्तिकालानवस्थिते: अक्रमम् । उपलक्षणमेतत्, तेन असहभावि च स्यादिति ।
अथ मा भूदयं दोष इति कालभूतो (कालभेदो) हेतुफलयोरिष्यते तत्राह - तस्मिन्नसति १० इत्यादि । तस्मिन् क्षणिके कारणे असति अतीते विनाशे, न भाविन्यनुत्पन्नसत्त्वेन, कार्यकाले अविद्यमाने भवतो जायमानस्य कार्यस्य कुतो निमित्तात् न कुतश्चित् । पुनरिति वितर्के त[दनन्त ] रोत्पत्ति नियम [:] तस्य कार्यस्य कारणानन्तरोत्पत्तिनियमः । तस्य वा कारणस्य योऽनन्तरः कालः तत्रोत्पत्ति नियम इति । यतः तन्नियमान्न भवेत् । किम् ? इत्यादि ( इत्याह ) । तस्य कार्यस्य अनिष्टकालोत्पत्तिः पूर्वभावि [त्वे ] नाभिमतं पश्चात् स्यात् पश्चाद्भावित्वेन १५
"
1
पूर्वं स्यात् इति नानुमेयादिव्यवहारो नियतः स्यादिति मन्यते । कारण सति भावतो - हेतुकत्वम् ( कारणेऽसति भवतोऽहेतुत्वम् ) अहेतोश्च न देशादिनियमः इति । यदुक्तं स्वयमेव परेण *" नित्यं सत्त्वमसत्त्वं वा" [प्र० वा० १।१८२] इत्यादि ।
४५९
स्यादेतत् कालान्तरे स्वयमेव भवतः कार्यस्यायं दोषो न कारणात् " भिन्नदेशमिव भिन्नकालमपि कारणं कारणमेव यथादर्शनं तद्व्यवस्थानात् । दृश्यते च प्रबोधकाले असदपि २० जाप्रद्विज्ञानं तत्कारणमिति ; तत्राह - सदेव इत्यादि । सदेव नान्तं (तत्) समर्थं कार्यजननयोग्यं [३६४क] कारणं कर्तृ कार्यंजनयेत् । किं कालम् ? इत्याह-स्वसत्ताकालमेव आत्मसत्ताकालमेव प्रसा हठादिति । अत्रायमभिप्रायो यथा 'नित्यं यदैव स्वयं समर्थं तदैव प्रसह्य कार्यं जनये[त' इ] त्युच्यते तथा क्षणिकमपि । यदि पुनः पूर्वं समर्थमपि क्षणिक कार्यकालमेव कार्यं जनयेत् तत्स्वभावत्वात् ; तथा नित्यमपि । तदुक्तम् - * " यद्यदा कार्यमुत्पित्सु ” [सिद्धिवि० ३।११] २५ इत्यादि । तन्न युक्तम्- ' क्षणिकत्वेन कार्यजनकत्वं व्याप्तम्' इति, अन्यत्राप्यविशेषात् । अथ स्वकाले समर्थेऽपि कारणे कार्यं स्वभावतः पश्चाज्जायते ; तत्राह - स्वरसतः इत्यादि । स्वरसतः स्वभावतः कार्यस्य उत्पत्तिकालनियमे कस्यचिदनन्तरम्, अपरस्य कालान्तरे उत्पत्तिनियमः उत्पत्तिकालनियमः तस्मिन्नङ्गीक्रियमाणे स्वतन्त्रस्य स्वप्रधानस्य कुत एव कार्यत्वं नित्यपक्षवत्
(१) अर्थक्रियाकारित्वाभावेऽपि । (२) नित्य । (३) पूर्वमुत्तरं वा कारणं साम्प्रतिकं कार्यं स्वकाले पूर्वकाले उत्तरकाले वा जनयति । पूर्वं कारणं भवत्येव । उत्तरं तु भाविकारणापेक्षया उक्तम् । (४) पूर्वत्र उत्तरत्र वा । (५) अभिमतम् । (६) अकारणस्य । (७) 'हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाfaceत्वसम्भवः । ' इति शेषः । (८) प्रज्ञाकरः प्राहः । (९) कारणमन्तरेण । (१०) उत्पन्नस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org