________________
४६०
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्र सिद्धिः
२
इति मन्यते । परतन्त्रं हि कार्यम्, परस्मिन् समर्थे अवश्यं जायते इति । परस्ये तु दर्शनम् - “पूर्वमनन्तरं कारणम् अपरं कार्यमिति ; तत्राह - नैरन्तर्येत्यादि । कार्यकारणयोः नैरन्तर्य व्यवधानाभावः तन्मात्रात् प्रभवनियमे हेतुफलनिय मे कुतं एव नियमो न कुतश्चित् ? कुत: ? इत्याह-सर्वत्रेत्यादि । सर्वत्र कार्ये अन्यत्र च सर्वेषां कारणानाम् इतरेषां च अविशेषे निरन्तर५ त्वसंभवात् कुत एव नियम इति ।
सर्व कार्यकारणा (ण) भावेऽयं दोषः इति सैं न भवेत् इति चेत् ; अत्राहद्रव्यस्य इत्यादि । द्रव्यस्य जीवादेः प्रभवनियमे अङ्गीक्रियमाणे न [ ३६४ ] कश्चिद (किञ्चिद)नन्तरमतिप्रसज्यते । किम्भूतस्य ? इत्याह - स्वहेत्वित्यादि । कदा ? इत्याहपरेत्यादि । परोऽन्यः प्रत्ययः सहकारिकारणं यस्य तस्य भावः तत्ता तस्याम् । चर्चितमेतत्*“अनादिनिधनं द्रव्यमुत्पित्सु स्थास्नु नश्वरम् |
स्वतोऽन्यतो विवर्त्तेत क्रमाद्धेतुफलात्मना ||" [ सिद्धिवि० ३|१९] इत्यादिना ।
स्यादेतत् नानन्तर्यमात्रात् तैन्नियमः अपि तु सादृश्यात् पूर्वं सदृशमुपादानम् इतरद् उपादेयमिति चेत् ; अत्राह— नचेत्यादि । [ न च ] नैव निरन्वयानाम् अन्वयरहितानाम् । केषाम् ? भावानां सादृश्यात् समानरूपत्वात् प्रभवः कार्यकारणभावः सन्ततिः सन्तानः, १५ वेति समुच्चये, व्यवस्थाप्येत । कुतः ? इत्यत्राह - तदित्यादि । तद्विपर्ययेऽपि सादृश्य विपर्ययेऽपि न केवलमविपर्यये तथा प्रभवसन्ततिप्रकारेण उपलब्धेः 'भावानाम्' इति सम्बन्धः । तथाहिकाष्ठभस्मनोः अनुमान-सुगतज्ञानयोः सादृश्याभावेऽपि तथोपलब्धिरिति । यदि वा, तद्विपर्य - येऽपि प्रभवादिविपर्ययेऽपि तथा सादृश्यप्रकारेण यमलकादिवद् भावानाम् उपलब्धेः इति । सादृश्यमभ्युपगम्य इदमुक्तम्, यावता भेदैकान्ते तदेव नास्ति इति दर्शयन्नाह - सादृश्यं च २० इत्यादि । सादृश्यं च शब्दो दूषणसमुच्चये यथा यथा येन येन भेदाभेदादिप्रकारेण विचार्यते तथा तथा विशीर्येत (ते) । क ? भेदैकान्ते । प्रज्ञा कर गुप्तस्य च नित्यत्ववत् - श्येऽपि कथं प्रमाणवृत्तिः इति चिन्त्यताम् ? यथैव हि मध्यक्षणग्राहिणा प्रत्यक्षेण पूर्वापर[३६५क] क्षणयोरग्रहणे न तद्वतैकत्वस्य ग्रहणं तथा सादृश्यस्यापि । अत्र निदर्शनमाह - नीलेत्यादि । नीलो निर्भास आकारो यस्य तच्च तज्ज्ञानं चेति तस्येव तद्वदिति ।
एवं नैरात्म्ये निरस्ते सति यत्सिद्धं तद्दर्शयन्नाह - प्राप्तेत्यादि ।
२५
[ प्राप्तव्यक्तितिरोभावो जीवः सिद्धः प्रतिक्षणम् । सवापादिप्रबोधात्माऽनादिः संसारमुज्झति ॥८॥ द्रव्याश्रयस्य गुणान्तराधानस्य प्रतिषेद्धुमशक्यत्वात् । प्रतिक्षणं व्यक्तितिरोभावौ (१) बौद्धस्य । ( २ ) अव्यवहितम् । (३) उत्तरमनन्तरम् । ( ४ ) कार्यकारणभावः । (५) कार्यकारनियमः । (६) श्रुतमयी भावना परार्थानुमानरूपा चिन्तामयी च भावना स्वार्थानुमानरूपा, ताभ्याम् अनुमानरूपाभ्यां योगिज्ञानं निर्विकल्पकं जायते इत्यर्थः । (७) सादृश्यमेव । (८) पूर्वापरगतैकस्य । (९) पूर्वापर सादृश्यस्यापि न ग्रहणमिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org