________________
४६१
७८ ]
क्षणिकपक्षे न सन्तानादिसिद्धिः
समनुभवतः क्रमवृत्ते स्तथैवाऽप्रतिषेधात् । स्वापप्रबोधान्यथानुपपत्तेः अनादिरयम् । सन्तानस्यापि परिणामिनमन्तरेण नियमासंभवात् । परत्वव्यावृत्तेः संसारे निर्वाणे वैकः सिद्धः ॥]
जीव आत्मा सिद्धो निश्चितः । किंभूतः ? इत्याह-प्राप्तौ व्यक्तितिरोभावौ येन स तथोक्तः । क्व ? प्रतिक्षणं क्षणं क्षणं प्रति । तथाहि - सच्चेतनादिरूपेण प्राप्तव्यक्ति - भावः क्षणक्षयादिरूपेण प्राप्ततिरोभावः । न चैकत्र दृश्येतरस्वभावविरोध इति निरूपितम् ।
५
9
ननु दृश्याद् यदि अदृश्यं रूपम् अभिन्नम्, दृश्यमेव स्यादिति चेत्; स्यादेव तदेवं (स्यादेतदेवं) यदि वस्तुसत्तापेक्षाणि ग्रहणानि स्युः यावता पुरुषशक्त्यपेक्षाणि । पुरुषो [य] - दि समर्थः किञ्चित् अत्यन्तमपि भिन्नेन सह गृह्णाति यथा चन्द्रमसा स्वाङ्गुलिम् । विपरीतः पुनरपि भिन्नेनापि सह न गृह्णाति यथा चन्द्रपर्वतयोः संलग्नतादर्शी तद्विवेकेन ताविति । अथ दृश्यस्य अदृश्येन सहैकत्वे खरविषाणेनापि स्यात् ; तर्हि दृश्यस्य नीलाकारस्य ज्ञानस्य दृश्येनापि १० पीताकारण एकत्वे सर्वस्य स्यादविशेषात् । एकत्वाभावे सर्वाभाव इत्युक्तम् । अथ यथा कस्य - चिन्नीलज्ञानस्य केनचित् पीताकारेण एकत्वं प्रतीयते, नैवं सर्वस्य सर्वेण; तर्हि यथा चन्द्रपर्वतयोः तद्ववोकन नैवं तद्विवेको नैवं ) खरविषाणेन इति समानम् । अनुपलब्धि न ( ब्धेन ) कथमिति चेत् ? पुरुषान्तरेणोपलम्भ ( लभ्य) मानेन [ ३६५ख ] स्यात्, अन्यथा अनुमानेनापि प्रतीयमानेन क्षणिकत्वेन एकत्वं शब्दादेर्न स्यात्, स्वयं वा पुनरुपलभ्यमानेन । कुतः पश्चाद् उपलभ्यमानं १५ पूर्वोपलब्धस्य रूपमिति चेत् ? ' तथाप्रतीते:' इति ब्रूमः, अक्रमेणेव क्रमेणापि चित्रैकवस्तुग्रहणप्रसाधनात् । ततः 'प्राप्तव्यक्तितिरोभावः' इति युक्तम् ।
ननु यद्यात्मा बोधस्वभावः, सर्वदा तद्र पत्वात् स्वापाद्यवस्थाभावश्चेत्; अत्राह - स जीवः स्वापादिप्रबोधावात्मानौ यस्य इति । एवं मन्यते - यथा प्रबोधरूपेऽपि प्रतिबन्धकारणवशात् प्राप्तव्यक्ति तिरोभावौ युगपत् तथा क्रमेणापि स्वापादिप्रबोधात्मेति । यस्तु मन्यते - स् दावनुपलम्भात् तदभाव इति ; तस्य तत एव सर्वत्र क्षणक्षयाभावः । तंदुपलम्भे स्वापादौ जीवोपलम्भः किन्न स्यात् ? अत्र तदभावः ; अन्यत्र अनुमानाद्यभावः ।
- स्वापा- २०
"
ननु यथा क्षणिकत्वव्यवस्थापकं सत्त्वादि लिङ्गम् नैवं तत्रं आत्मव्यवस्थापकं किञ्चित् इति [चेत् ?] 'प्रबोध: ' [ इति ] शिष्मः । नहि चिरव्यतीते उपादाने जायमाने कार्ये उभयप्रसिद्धमुदाहरणमस्ति । सर्वं सर्वस्य ' तथाविधम् उपादानम्, चिरविनष्टं चेदुपादानम् । सादृश्यं २५ व (च) कृतोत्तरम् । ततो युक्तम् - स्वापेत्यादि । [ यदि ] पुनरेतन्मतं " परस्य गर्भादिमरणपर्यन्त एव जीवः सिद्धो नानाद्यनन्तः प्रमाणाभावात् । न च तेन परलोकवादिनः सिद्धेनापि किञ्चिदिति । तत्राह - अनादिः इति । अनन्तश्च उपलक्षणत्वादस्य । तथाहि - यद् द्रव्यं तदनाद्यनन्तात्मकं यथा पुद्गलद्रव्यं [३६६क] पृथिव्यादिद्रव्यं [च] जीवः । जीवो द्रव्यम् गुण
(१) ज्ञानानि । (२) वस्तु । ( ३ ) वस्तुना । ( ४ ) असमर्थः । ( ५ ) बोधरूपत्वात् । (६) क्षणक्षयो पलम्भे । (७) जीवाभावः । (८) स्वापादौ । (९) ब्रूमः । (१०) चिरविनष्टम् । ( ११ ) चार्वाकस्य । (१२) किञ्चित् प्रयोजनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org